________________
१३६२-१३६४]
['] [इति] ऊष्मविवेकात् ॥१३६३ ॥ ७ छिद्रयते छिद्रम् । 'छिद्र भेदने' (चु.उ.से.), चुरादिः (चुरादिण्यन्ताद्), 'एरच् '३ | ३ |५६ ॥ इत्यच् । 'छिदिर् द्वैधीकरणे' ( रु. उ. अ.), 'स्फायितञ्चि- ' (उणा - १७० ) इत्यादिना रक्प्रत्यये वा । ८ रोप्यते निखन्यते रोपम् । 'रोप रोपणे ' ( ), घञ् । ९ विवृणोति विवरम् । 'वृञ् वरणे' (स्वा. उ.से.), पचाद्यच्ं । विगतो वरो वारणमत्रेति वा । १० निकृष्टो म्ना अभ्यासः सलिलस्याऽत्रेति निम्नम् । नीच भावमभ्यस्यतीति वा । 'म्ना अभ्यासे ' (भ्वा.प.अ.), घञर्थे कः । ११ रोचते प्रकाशते रोकम् । 'रुच दीप्तौ ' (भ्वा.आ.से.) बाहुलकात् कर्तरि घञ्, कुत्वम् । " रोकमिति लोकाश्रयत्वाल्लिङ्गस्येति क्लीबत्वम् "[]इति सुभूतिः । १२ उप्यतेऽत्रेति । वपेर्भिदादिपाठादङ्, टाप्, गङ्गावत् । १३ अनिति अन्तरम्, पुंक्ली. । 'अन प्राणने ' ( अ.प.से.), 'अनिकाभ्यां तर: '(हैमोणा४३७) । त्रयोदश बिलस्य ॥
१०
वपा
२०
व्युत्पत्तिरत्नाकरकलिता
गर्त-श्वभ्रा -ऽवटा -ऽगाध-दरास्तु विवरे भुवः
॥१३६४ ॥
१ गिरति पतद्द्रव्यमिति गर्तः । 'गृ निगरणे' (तु.प.से.), 'हसि- '(उणा - ३६६ ) इति तन्, पुंक्लीबलिङ्गोऽयम् । गर्ता टान्ताऽपि । षट् कृशरगर्तकगर्ता' []इति स्त्रीनपुंसकप्रकरणे रभसात् । २ शोभनमभ्रमा
Jain Education International
काशमत्र
"
श्वभ्रम् । शोभनवाची शुः शब्दस्तालव्यान्तोऽपि ( -व्योऽपि ) । अन्ये तु - ' श्वभ्र गत्याम् ' ( चु.उ.से.) इत्यतोऽचि साधयन्ति | 'शुभ्रं श्वानं बिभर्ति मूलविभुजादित्वात् के, श्वभ्रम्"[]इत्यन्ये । " श्वभ्रकाश्मीरशिल्पम् ''[]इत्यूष्मविवेकात् तालव्यादिरयम् । “सुष्ठु अभ्रमत्रेति स्वभ्रं दन्त्याद्यपि " [] इति पञ्जिका । ३ अवन्त्यात्मानमस्मादिति अवट: । 'अव रक्षणादौ ' (भ्वा. प.से.), 'शकादिभ्योऽटन् ' ( उणा - ५२१ ) | अवटिरिति ३० तृतीयस्वरान्तोऽपि । ४ नास्ति गाधः प्रतिष्ठाऽत्रेति अगाधम् । 'गाधृ प्रतिष्ठालिप्सयो: ' (भ्वा.आ.से.), अचि वा । ५ दरः भयनामसु (अभि., लो - ३०१ ) त्रिलिङ्गोऽयम् । भुवो विवरे पृथिव्याश्छिद्रे । " श्वभ्रगर्तावटागाध ( - धा) भुवो विवरवाचका: "[]इति कात्यः
॥१३६४ ॥
६२५
॥ ('इंत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नारककाण्डः पञ्चमः ) ॥ (सैर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः । श्रीमच्छ्रीविधिपक्षगणभृद् भूभृन्नतांहिद्वयः
श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥१ ॥ (तैन्निर्देशविधायिवाचकवर श्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिविनयाच्चन्द्राभिधा वाचकाः 1 तच्छिष्या 'रविचन्द्र' इत्यभिधया तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्व्युत्पत्तिरत्नाकरम् ॥२॥ )
॥ इति श्रीवाचेकवरदेवसागरविरचितायामभिधानचिन्तामणिनाममालायां व्युत्पत्तिरत्नाकरटीकायां नारककाण्डः पञ्चमः ॥
१. द्र. पदचन्द्रिका, भा-१, पातालभोगिवर्गः, श्री - २१५, पृ. २५५ - २५६ ॥ २. 'छिद कर्ण भेदे ('भेदने' इति मैत्रेयः ) ' इति स्वामिमैत्रेयौ, 'छिद्र कर्णभेदने' इति सायणः ॥ ३ ' -चि' इति४ ॥ ४ 'सते' इति२. ३.४ ॥ ५ द्र टीकासर्वस्वम्, भा-१, १।८।२ ॥, पृ. १६७॥, तत्र" रभसेन तु 'ज्वालासटारभसगर्तकगर्तृशृङ्गाः' इत्यनेन स्त्रीत्वमुक्तम्" इति दृश्यते ॥, पदचन्द्रिका, भा-१, पातालभोगिवर्ग:, श्रो- २१६, पृ. २५६ ॥ तत्र-" शरटकृसरवर्तकगर्तशृङ्गा" इति स्त्रीपुंसप्रकरणे रभसात्" इति दृश्यते ॥ रामाश्रमी १ ॥८ ॥ २ ॥ पृ. ११२, तत्र - " 'शरट-कृसर गर्त शृङ्गाः' इति स्त्रीपुंसप्रकरणे रभसात्" इति दृश्यते ॥ ६. द्र. पदचन्द्रिका, भा-१, पातालभोगिवर्गः, श्री- २१५, पृ. २५५ ॥ ७ श्वभ्रं' इति ॥ ८ 'दिरपि' इति ॥ ९ द्र. अम. श्रीर. १७ ॥२ ॥ पृ.५७ ॥ १०. कोष्ठान्तर्गतपाठस्थाने ३ प्रतौ - " इति श्रीहेमचन्द्रेण हैमकोषं वरं कृतम् । तत्राऽगात् पञ्चमकाण्डः पूर्णतां शब्दसंयुतः ॥” इति दृश्यते ॥ ११. कोष्ठान्तर्गतपाठः ३.४.५ प्रतिषु न दृश्यते ॥ १२. कोष्ठन्तर्गतपाठः २प्रतौ नास्ति ॥
For Private Personal Use Only
४०
www.jainelibrary.org