________________
६१४
जतुका । 'इवे प्रतिकृतौ ५ ।३ ।९६ ॥ इति कः । " रामवै (रामठे) जतुकं चर्मपत्त्राजतुकृतो: स्त्रियाम् "[]इति चवर्गतृतीयादौ रभसाच्चवर्गतृतीयादिः । जतूका दीर्घमध्याऽपि । “निशाशश्वद्व्यापिस्थितघनजतूकापटलकम्" [] इति पूर्वकविप्रयोगात् । ३ अजिनं पत्त्रं पक्षोऽस्याऽस्ति अजिनपत्रिका । त्रीणि चमचेडति ख्यातायाः ॥ १३३६ ॥ वल्गुलिका मुखेविष्टा परोष्णी तैलपायिका 1
अभिधानचिन्तामणिनाममाला
१ वल्गु लाति वल्गुली के वल्गुलिका । २ मुखेन विष्टा अस्य मुखविष्टा । ३ परः शत्रुरुष्णः १० स्पर्शोऽस्यास्ततो विद्रवात् परोष्णी । 'जाते:- '४।१।६३ ॥ इति ङीष् । ४ तैलं पिबति तैलपायिका । 'पा पाने' (भ्वा.प.अ.), ण्वुल् । 'आतो युक्- '७।३।२३ ॥ | संज्ञाशब्दानां यथाकथञ्चिद् व्युत्पत्तिः कार्या ॥ "तनुक्रमिस्त्विन्द्रगोपः परोष्णी तैलपायिका ।
तैलाभ्यक्त (-क्ता) खलाधारा हीरा पिप्पलिका स्त्रियाम् ॥१ ॥ " ['] इति रभसः । [ निशाटन्यपि ] । वागुर्लिंनामानि चत्वारि । कर्करेटुः करेटुः स्यात् करैटुः कर्कटुकः । १३३७ ।
१ कर्कशं रेटति, मृगय्वादित्वात् कुः, निपातनाच्छलोपः कर्करेटुः । 'कर्क' इति शब्दं रेटतीति वा 1 'रेटे २० ( रेट्ट) परिभाषणे' (भ्वा.उ.से.), अच्, 'अपष्ट्वादयश्च' (कातन्त्रोणा - १ | १६ ॥ ) इति निपातनात् कर्करेटुः । २ के वायौ जले वा रेटति वा । कुत्सितं रेटतीति वा । निपातनात् कोः कादेशः [ करेटुः ] । ३ पूर्ववत् कुः करेटुः, करदुः । ४ कर्कति कर्कराः । 'केवयुभुरणु-' (हैमोणा - ७४६ ) इति निपात्यते, [स्वार्थे कनि कर्कराटुकः ] । "करेटुः कर्करेटुः स्यात् करटुः कर्कराटुकः" [" ]इति रभसात् द्वयं चतुष्कम् (रूपचतुष्कम्)। “द्विचतुः षट्पदोरगाः " [ लिङ्गादि ४७० ] इति द्विपदत्वादेषां स्त्रीपुंस्त्वम् । करेवानामानि चत्वारि ॥ १३३७ ॥ आटिरातिः शरारिः स्यात्
[ तिर्यक्काण्डः -४, खचरपञ्चेन्द्रियाः
१ आ समन्तादटति आटिः । अट गतौ ' (भ्वा. ३० प.से.), 'इन्' (उणा - ५५७ ) इतीन् । टवर्गतृतीयान्तश्चायमाडिरिति, जलादडर्ति उच्छव्युत्पत्तिः । अड उद्यमे' (भ्वा.प.से.), 'अक्ष्यडिभ्यामिण्' ( ) इतीण् । २ अततीति आतिः । 'अत सातत्यगमने ' (भ्वा.प.से.), ‘पादाच्चात्यजिभ्याम्’(हैमोणा - ६२० ) इति णिदिः । ३ शरं नाराचमियर्ति शरारिः । 'ऋ गतौ' (भ्वा.प.अ.), 'अच इ: ' (उणा-५७८) । शृणातेर्बाहुलकादारिर्वा शरारिः । शरातिरपि । शरमतति । 'अत सातत्यगमने ' (भ्वा.प.से.), 'इञजादिभ्यः (इणजादिभ्यः ) ' (वा - ३ | ३ | १०८ ॥ ) इतीर्जे (इतीण्) । पक्षे कपिरि (कपिलि) कादित्वाल्लत्वे शरालि - ४० रपि । एते शब्दाः स्त्रीलिङ्गाः । " आडि: शरालिर्वराटी(वरटी) गन्धोली वानरिः कपी "[" ]इति स्त्रीलिङ्गकाण्डे रत्नकोषात् । " त्रयः शब्दा आविष्टलिङ्गाः "["] इति मधुमाधवी । " ङीषि आटी आती शरारी "[ ] इति हलायुधटीका । आडिनामानि त्रीणि ॥
-
सम । ९ कृकेण कण्ठेनाऽति शब्दायते कृकणः । 'अण शब्द ' (भ्वा.प.से.), अच् शकन्ध्वादित्वात् पररूपत्वम् । 'कृ' इति कणति वा । 'कण शब्दे ' (भ्वा.प.से.), अच् । कृकं नयतीति वा । २ 'क्र' इर्ति शब्दं करोति क्रकरः । ५० पचाद्यच् । द्वे क्रकरस्य ॥
भासे शकुन्तः
१ भासते भासः 1 ' भासृ दीप्तौ ' (भ्वा.आ.से.), अच्, तत्र । २ शकुन्तः सामान्योऽपि विशेषे वर्तते ।
Jain Education International
यदाह पथ्यापथ्यकार:
“भासः शकुन्तो भासन्तः शिखावान् गोष्टकुर्कुटेः । गृध्राकारो भस्मवर्णो विज्ञेयो गोष्टगोचरः ॥१॥"
[
] इति । " शकुन्तो भास उच्यते "[ हलायुधकोशः
१. द्र टीकासर्वस्वम्, भा-२, २५ २६ ॥ पृ. २४१ ॥ २. द्र पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्रो- २४१, पृ.३१० ॥ रामाश्रमी २५ ॥ २६ ॥ पृ.२५२ ॥ ३ 'अज्ज-' इति४ ॥ ४ ऽस्ति' इति १.२.३ प्रतिषु नास्ति ॥ ५ 'चमा-' इति१.२ ॥ ६ 'ड' इति३ ॥ ७ - लिनिका' इति५ ॥ 'लिका-' इति३ ॥ ९ 'रट रेट' इति ॥ १०. द्र. पदचन्द्रिका भा-२, सिंहादिवर्गः, श्रो- २३४, पृ. ३०१ ॥ रामाश्रमी२ ।५।१९ ॥ पृ.२४८ ॥ ११. ' - टति' इति ॥ १२. ' - च्छति' इति४.५ ॥ १३. 'अज्यतिभ्यां च ' ( उणा - ५७० ) इति पाणिनीयसम्मतोणादिगणसूत्रम् ॥ १४. ' - न्' इति३ ॥ १५ द्र. पदचद्रिका, भा-२, सिंहादिवर्गः, श्री - २४०, पृ. ३०९ ॥ १६. रामाश्रमी २५/२५ ॥ पृ. २५२ ॥ १७ 'शरारातिः ' इति३ ॥ १८. 'चत्वारि' इति३ ॥ १९ तुलनीयोऽमरकोषः २ ।५ ।१९ ॥ २०. अणेत्यादिदण्डात्मकोऽयं धातुः ॥ २९. इतोऽग्रे ४.५ प्रत्योः 'वा' इति दृश्यते ॥ २२. ' - षो' इति३ ॥ २३. 'कुक्कुट : ' इति१.२ ॥
For Private & Personal Use Only
www.jainelibrary.org