________________
१३३७-१३४० ]
२ । २४७ ॥ ] इति हलायुधः । " द्वौ समौ " [ ] इति तट्टीका । भाषो मूर्धन्यान्तोऽपि तत्रैव । द्वे भासस्य ॥
कोयष्टों शिखरी जलकुक्कुभः ॥१३३८ ॥
व्युत्पत्तिरत्नाकरकलिता
१ कवते शब्दायते कोयष्टि: । 'कुङ् शब्दे' (भ्वा.आ.अ.), 'कोर्यषादिः ' (हैमोणा- ६४८ ) इति तिः, तं जलमालम्बनत्वाद यष्टिरिवाऽस्येति वा । पूर्वपदाकारस्य नैरुक्त ओकारः, तत्र । हरिशब्दवद् रूपाणि । " कर्णाटीसुरतस्वरानुकरणैः कोयष्टिकः कूजति "[ ] इति हलायुधकाव्यम् । "कोयष्टिकः शिखरी, 'मेण्ट' इति गौडदेशे १० प्रसिद्धः " [ ] इति तट्टीका च । २ शिखरं चूडाऽस्त्यस्य शिखरी । अत इनिठनौ ५ २ १११५ ॥ इतीनि । ३ कोकते कुक् । 'कुक आदाने ' (भ्वा.आ.से.), क्विबन्तः । कुक् कुभ्नाति ( स्कुभ्नाति) कुक्कुभः । स्कुभिः सौत्रः, 'इगुपध-'३।१।१३५॥ इति कः । कुगित्यव्यक्तानुकरणम्, तत् कौति । 'इणः कित्' (उणा - ४३३) इति बाहुलकात् कौतेरपि, भनि कुत्वे च कुक्कुभः । जलचारी कुकुभो जलकुक्कुभः । " कुक्कुभो वनकुक्कुट: "[ ] इति मिश्राः । " अत्र कुक्कुभशब्दः कुम्भकारकुक्कुटपर्याय: "[ ] इत्यन्ये । कोसीटा - नामानि त्रीणि
॥१३३८ ॥
२० पारोपतः कलरवः कपोतो रक्तलोचनः ।
१ पार्यते कर्म कर्तुमनेनेति । घञि पारो बलम् । पारेण बलेनाऽऽपतति पारापतः । 'पत्लृ पतने'(भ्वा. प.से.), पचाद्यच् । जपादित्वाद् वत्वे पारावतोऽपि । २ कलो मधुरो रवो ध्वनिरस्य कलरवः । ३ कस्य मयूरस्य चित्रवर्णत्वात् पोत इव कपोतः । "कस्य वायो: पोत इत्यागमः ' [ अम क्षीर. २ ।५ ॥१५ ॥ ] इति तु स्वामी ।
'पारापतः कपोतः स्यात् कपोतो विहगान्तरे "[ ] इति विश्वः । ४ रक्ते लोचनेऽस्य रक्तलोचनः । " पारापतो
44
Jain Education International
६१५
] इति क्षीर
गृहकपोतः कपोत आरण्यः ''[अम.क्षीर. स्वामी इति सत्यपि भेदेऽमरानुगतमभेदं मन्यन्त आचार्याः । ३० चत्वारि पारापतस्य ॥
ज्योत्स्नाप्रिये चलेचञ्च-चकोर - विषसूचकाः
For Private
॥१३३९॥
१ ज्योत्स्ना प्रिया अस्य ज्योत्स्नाप्रियः, तत्र । २ चला चञ्चरस्य चलचञ्चः | ३ चकति (चकते ) चन्द्रामृतपत्वाद् विषं प्रतिहन्ति चकोर: । 'चक तृप्तौ प्रतीघाते च ' (भ्वा.आ.से.), 'चकिकठिभ्यामोरच्' (उणा-६४) । चकते ज्योत्स्नया 'तृप्यति वा । अत्र ज्योत्स्नाशब्दश्चन्द्रातपपर्यायः । ४ विषं सूचयति विषसूचकः । 'सूच पैशुन्ये' (चु.उ.से.), ण्वुल् । “चकोरस्य विरज्येते नयने विषदर्शनात् "["] इत्युक्तेः । चत्वारि चकोरस्य ॥१३३९॥ जीवंजीवस्तु गुन्द्रोलो विषदर्शनमृत्युकः ।
१ जीवेन सहचरेण सह जीवति जीवंजीवः । 'जीव प्राणधारणे' (भ्वा.प.से.), बाहुलकात् खच् खित्त्वाद् मुम् । तद्दर्शनेन विघ्ननाशाद् (विषनाशाद्) जीवं प्राणिनं जीवयत इति कर्मण्यणि वा, 'तत्पुरुषे कृति - '६ ॥३ ॥१४ ॥ इति द्वितीयाया अलुक् । "जीवंजीवो जीवजीवः "["]इति निरनुस्वारमध्योऽपि शुभाङ्के । २ गुन्द्रामलति गुन्द्रालः । 'अलञ् भूषणादौँ'(भ्वा.प.से.), अच् । ३ विषदर्शनेन मृत्युरस्य ं विषदर्शनमृत्युकः, अष्टाक्षरम् । “विषसन्दर्शन- ५० ग्लानिर्जीवञ्जीवकः " [ ] इत्यपीति पथ्यापथ्यकारः । " स च
२४
मयूरप्रमाणचित्रपक्षो द्वन्द्वचरः स्वनाम्ना ख्यातो दक्षिणापथादौ जायते "[ ] इति मिश्राः । जीवकुनामानि त्रीणि ॥
२०
व्याघ्रटस्तु भरद्वाजः
१. 'मेटा' इति१.३ ॥ २. जारी' इति५ ॥ ३. 'तः' इति३, 'डः' इति४ ॥ ४ इतोऽग्रे ४.५ प्रत्योः 'तु' इति दृश्यते ॥ ५ ' - ञिति' इति ॥ ६ 'प' इति२ ॥ ७ 'इव' इति टीकायां नास्ति ॥ ८ विश्वलोचनविश्वप्रकाशकोशयोस्तु "पारावतः कलरवे शैले मर्कटतिन्दुके" इति दृश्यते क्रमेण तान्तवर्ग:, श्रो- २२३, श्रो- २१७, पृ. १५६, पृ. ७४ ॥ ९. अम. क्षीरस्वामिकृतटीकायाम्- "केन पवते । कस्य वायोः पोतः इत्यागमः । आरण्डोऽयम् । आद्यस्तु गृहकपोतः । अयं त्वभेदं मन्यते ।" ' चन्द्रात - ' इति४.५ ॥
१३.
१५ ४प्रतौ नास्ति ॥
१८.
इति दृश्यते, २५1१५ ॥ पृ. १२७ ॥ १०. 'तृप-' इति३ । १४ ची ' इति१. २ । - ण्' इति४ ॥ १९. द्र टीकासर्वस्वम्, भा-२, २५1३५ ॥ पृ. २४८ ॥ अत्र मीमांसकमहोदयकृतटीप्पणी द्रष्टव्या, क्षीरतरङ्गिणी, पृ.८१ ॥ २२.
११. 'प्रति-' इति४ ॥ १२. 'कठिचकिभ्यामोरन्' इत्युणादिगणसूत्रम् ॥ १६.द्र. स्वोपज्ञटीकाः । १३३९ ॥ पृ. २९९ ॥ १७ - न्' इति४ ॥ २०. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्रो- २५०, पृ. ३२२ ॥ 'विषमृत्युदर्श' इति ॥ २३. 'ने' इति ॥ २४ 'द्वन्द्वे' इति४.५ ॥
'
२१.
१७
१ व्याजिघ्रन्नटति व्याघ्राटः । अचि, पृषोदरादिः ।
Personal Use Only
४०
www.jainelibrary.org