________________
१३३३-१३३६ ]
व्युत्पत्तिरत्नाकरकलिता
( उणा - २०४ ) 1 २ पत्त्रं पक्षस्तद्योगात् पत्नी । प्रशंसा - कीरस्तु शुको रक्ततुण्डः फलादनः ॥ १३३५॥
यामिनिः । पत्नी सामान्योऽपि विशेषे वर्तते । यच्छाश्वतः - " श्येनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणौ "[ शाश्वतकोशः, श्रो- २२३ | इति । ३ शशमत्ति शशादनः । 'अद भक्षणे ' ( अ.प.अ.), नन्द्यादित्वाल्ल्युः । कर्तरि ल्युट् ( कृत्यल्युट ) - '३ । ३ । ११३ ॥ इति कर्तरि ल्युड् वा । सींचाणानामानि त्रीणि ॥१३३४ ॥
दाक्षाय्यो दूरहेग् गृध्रः
१ दक्षतं विशेषेण वर्धते, शीघ्रो भवति दाक्षा१० य्यः । 'दक्ष [वृद्धौ] शीघ्रार्थे च ' (भ्वा.आ.से.), 'श्रुदक्षिस्पृहिगृहि - '(उणा - ३७६ ) इत्याय्यः, 'प्रज्ञादिभ्यश्च ५ १४ ।३८ ॥ इत्यण् । २ दूरात् पश्यति दूरदृक् । दृशेः क्विप् । ३ गर्धते (गृध्यति) अभिकाङ्क्षति मांसादिकमिति गृध्रः । 'गृधु अभिकाङ्क्षायाम्' (दि.प.से.), 'सुसूधाञ् (धा) गृधिभ्यः क्रन् ' ( उणा - १८२ ) । 'स्फायितञ्चि- ' (उणा - १७० ) इत्यादिना रक्''[ ]इत्यन्ये । " गृध्रः सुदृष्टिः शकुनी वक्रचञ्चश्च दूरदृक्"[ ] इति मदनपालः । त्रीणि गृध्रस्य । शेषश्चात्र
44
" गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः । २० सुदर्शनः शकुन्याजौ " [शेषनाममाला४ । १९५॥] ॥
अथोत्क्रोशो मत्स्यनाशनः ।
कुरैर:
१ उत्क्रोशति उच्चमुच्चैर्वा क्रोशति उत्क्रोशः । 'क्रुश आह्वाने' (भ्वा.प.से.), पचाद्यच् । २ मत्स्यान् नाशयति मत्स्यनाशन: । णशेर्णिजन्तान्नन्द्यादित्वाल्ल्युः । ३ 'कुर' इति शब्दं राति कुरर: । 'रा दाने ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२ । ३ । । यद्वा कुरति करुणध्वनिना धैर्यं छिनत्ति कुरर: । 'कुर छेदने ' ( तु.प.से.), बाहुलकादरक् । स्त्रियां कुररी । "उत्क्रोशः कुररो मतः "[हला३० युधकोशः २ । २४९ ॥ ] इति हलायुधः । त्रीणि उत्क्रोशस्य ॥
Jain Education International
६१३
१ कीति शब्दमीरयति कीरः । 'ईर प्रेरणे' ( चु. उ.से.), 'इगुपध- '३ । १ । १३५ ॥ इति कः । यद्वो कीति शब्द रायति कीरः । रै शब्दे ' ( भ्वा. प. अ.), 'सुपि स्थः ' ३ । २१४ ॥ इत्यत्र सुपीति योगविभागात् कः । २ शोकति गच्छति शुकः । शुक गतौ ' ( भ्वा.प.से.), 'इगुपध३।१।१३५ ॥ इति कः । शोभत इति शुको वा । 'शुभ दीप्त' (भ्वा.आ.से.), 'शुकवल्कोल्का: ' (उणा - ३२२) इति कक्प्रत्येऽन्त्यलोपे चोणादौ शुक इति निपातनात् । माधवस्तु शुकशब्दं 'शुभ दीप्तौ ' (भ्वा.आ.से.) इत्यस्यैव निपातं ४० मन्यते, तथाहि - " यदि 'शुक गतौ ' ( भ्वा.प.से.) इत्ययं धातुरार्षस्तदा शुके रग्विधानेनाऽपि शुकशब्दसिद्धे' 'ऋज्रेन्द्रा - ' ( उणा - १८६) आदिसूत्रे शुचेर्निपातमनमर्थकं स्यादित्यस्य धातोः पाठोऽनार्ष इतीव प्रतीयते "["] इत्याह । ३ रक्तं तुण्डं चञ्चरस्य रक्ततुण्डः । ४ फलान्यत्ति फलादनः । नन्द्यादित्वाल्ल्युः । मेधाव्यपि । चत्वारि शुकस्य । शेषश्चात्र-“शुके तु प्रियदर्शनः, श्रीमान् मेधातिथिर्वाग्मी" [शेषनाममाला४ । १९५-१९६ ॥] ॥१३३५ ॥
१०
शारिका तु पीतपादा गोराटी गोकिराटिका ।
१ शृणाति फलं शारिका । ' हिंसायाम् ' (क्र्या. ५० प.से.), ण्वुल्, टाप्, 'प्रत्ययस्थात्- '७ । ३ ।४४ ॥ इतीत्वम् । पीतौ पादावस्याः पीतपादा । ३ गां रटति गोराटी । 'रट शब्दे' (भ्वा.प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥, गौरादित्वाद् ङीष् । ४ गां किरति गोकिराटी । पृषोदरादिः, ततः स्वार्थे कनि, 'केऽणः ७।४।१३ ॥ इति ह्रस्वत्वम्, [गोकिराटिका ] । चत्वारि शारिकायाः । 'सारों "' इति भाषा ॥
स्याच्चर्मचटकायां तु जर्तुकाऽजिनपत्रिका
,
॥१३३६॥ १ चर्ममयी चटका चर्मचटका, निर्लोमत्वात्, तत्र । २ आश्रये दृढÌषात् कृष्णपिङ्गलत्वाच्च जत्विवेति ६०
१. 'ते' इति ॥ २. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्रो- २३६, 'कुरु-' इति४.५ ॥ ५. इतोऽग्रे १.३.४.५ प्रतिषु 'रै शब्दे' इति दृश्यते ॥ '-वं' इति१ ॥ ९ ' –प्रसिद्धे' इति३ ।। १०. 'तकि कृच्छ्रजीवने' (भ्वादि:, धातुसं - ८६ ) इत्यत्र सायणेन - " अस्यानन्तरं मैत्रेयः शुक गताविति पठित्वा 'शोकति शुकः शुक्र' इत्युदाजहार, अस्मिन् हि सति शुकवल्कोल्का:' इति शुभेः कनि भलोपे शुकशब्दनिपातनमनर्थकं स्यात्, इगुपधलक्षणेन कप्रत्ययेनैव सिद्धत्वात् । तथा शुके रग्विधानेनाऽपि शुक्रशब्दसिद्धे 'ऋजेन्द्र' इत्यादौ शुचेर्निपातनमनर्थकं स्यादित्यस्य पाठोऽनार्ष इव प्रतीयते" इत्युकम् पृ८१ ॥ ११. मेधाविर्वा-' इति४.५ ॥ १२. ' स्य' इति१.४.५ ॥ १३. 'टी' इति४ ॥ १४ ' - रौ' इति४ ॥
पृ.३०५ ॥ ३ ' आह्वाने रोदने च' इति क्षीरतरङ्गिण्यादयः ॥ ४. ६ इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ ७ 'न्त-' इति३ ॥ ८.
For Private Personal Use Only
www.jainelibrary.org