________________
६१२
प्रसिद्धिं विवक्षित्योपमानमुक्तम् । यथा वकोटशब्दो वक वाचक:, तथा यककह्रावपीत्यर्थः । त्रीणि वकस्य ॥ " दीर्घजङ्घोऽतिशौण्डः स्याद् वकोटः शुक्लवायसः । कङ्केरुर्दारुबलिभुक् शिखी चन्द्रविहङ्गमः ॥१॥" [[त्रिकाण्डशेषः २ १५ १२३ ॥ ] इत्यादयो ग्रन्थान्तरोका इहैव
ज्ञेयाः ॥१३३२ ।।
बलाहकः
अभिधानचिन्तामणिनाममाला
कः स्याद् बलांक:
१ वलति बलाहकः । 'वल संवरणें ' (भ्वा. आ.से.), 'बलिबिलि - ' (हैमोणा - ८१ ) इत्याहकः । २ वलति १० बलाकः । वल बल्ल संवरणें' (ध्वा.आ.से.), 'बलाकादयश्च' (उणा-४५४ ) इत्याकन्नन्तो निपातितः । पुंस्ययम्, यद्वाचस्पति:- " बलाकस्तु बलाहकः " [ ]। "पुंध्वजेऽपि स्त्रीलिङ्ग एवाऽयम्" []इति लिङ्गानुशासनकृतः । द्वे बलाहकपक्षिणः, बकविशेषोऽयम् ॥
बलाका विसकण्ठिको ।
१ बलेन शक्त्या दूरमूर्ध्वमकति बलाका। 'अक अग कुटिलायां गतौ (ध्वा.प.से.), अच्। 'वल बल्ल संवरण' (भ्वा.आ.से.), 'बलाकादयश्च' (उणा - ४५४) इत्याकनि वा आविष्टलिङ्गत्वात् पुंसि स्त्रियां च बलाका । २० २ विसं मृणालमित्र कण्ठोऽस्यां विसकण्ठिका । जातिलक्षणं ही बाधित्वा टापू, अजादित्वाद् वा ततः स्वार्थे कनि 'प्रत्ययस्थात् ७ १३ १४४ ॥ इतीत्वम् । 'विसकण्टिका "[] इत्यन्ये । बकेरुकाऽपि । द्वे बकपत्न्याः 11
44
1
3
भृङ्गः कलिङ्गो धूम्याट
१ बिभर्ति कलां भृङ्गः । 'भृञो गन् नुक् 'च' ( उणा - १२२ ) इति गन्नुकौ । २ के मूर्ध्नि लिङ्गं चूडारूपं चिह्नमस्य कलिङ्गः । कलिलं गहनं गच्छतीति पृषोदरादिर्वा । कलिं कलहं गच्छतीति वा । स हि गच्छतां केशान् लुञ्चति । ३ धूम्या धूमसमूहः । 'पाशादिभ्यो यः ' ३० ४।२।४९॥ । तामटति धूम्याटः । 'कर्मण्यण् '३ ।२ ।१ ॥
।
[ तिर्यक्काण्ड:-४, खचरपञ्चेन्द्रियाः
" धूम्या स्याद् धूमसंहतिः "[ हलायुधकोश: १ ॥ ६६ ॥ ] इति हलायुधः । त्रीणि धूम्याटस्य ॥
Jain Education International
कस्तु कमनच्छदः ॥१३३३ ।। लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः । १ कङ्कते गच्छति कङ्कः | कविकीत्यादिना गत्यर्थः, 'ककि लौल्ये ' (भ्वा.आ.से.) वा, पचाद्यच् । २ कमनः कान्तश्छदोऽस्य कमनच्छदः ॥१३३३ ॥ ३ दृढत्वाद् लोहवर्णत्वाद् वा लोहपृष्ठमिव पृष्ठमस्य लोहपृष्ठः । ४ दीर्घौ पादावस्य दीर्घपादः । ५ कर्कति कर्कटः । कर्कि" सौत्रे, 'शकादिभ्यो ऽटन्' (उणा-५२१) । ४० ६ स्कन्धेन मल्लः समर्थः स्कन्धमल्लः । स्वार्थे कनि स्कन्धमल्लकः । षट् कङ्कपक्षिणः ॥
११
चिल्लः शकुनिरातापी
१४
१५
१७
१ चिल्लति वातेन शिथिलीभवति चिल्लः । 'चिल्ल शैथिल्ये हावकरणे च' (भ्वा.प.से.), 'इगुपध- ' ३।१।१३५ ॥ इति कैः । २ शक्नोति शकुनिः । पक्षिनामसु (अभि. श्री- १३१६) । ३ आतपति आतापी । ग्रहादित्वाणिनिः । मिश्रास्तु " आतायते संतनोति पालयति वा पक्षप्रसारणेनाऽऽत्मानमिति । तायू सन्तापनपालनयो: '(भ्वा.आ.से.) आवश्यके णिनिरातायी [ पद ५० चन्द्रिका, भा-२, सिंहादिवर्ग:, श्रो-२३६ ] इति पठन्ति स्वमते । " त्रयः पुंसि [] इति हलायुधटीका तु चिल्लः, स्त्रीभ्रो: (१) चिल्ला, आतापिरिदन्तोऽपि स्त्रियां औषि आतापी, शकुनिका च चिल्ली च सर्वेऽपि स्त्रीलिङ्गाः " [] इत्यन्ये । चील्हनामानि त्रीणि ॥
श्येनः पत्त्री शशादनः ॥ १३३४ ।।
१९
१ श्यायते पक्षिघातायाऽत्यर्थं गच्छति श्येनः ।
'श्यैड् गतौ ' (भ्वा.आ.अ.), 'श्यास्त्यात (ह) विभ्य इनच्'
१. स्वामिमतेऽयं पाठः, 'वल वल्ल संवरणे' इति मैत्रेयः, 'वल वल्ल सञ्चरणे च' इति सायणः ॥ २. ' हकः' इति १.४.५ ॥ ३ मैत्रेयसम्मतोऽयं धातुपाठः ४. द्र. स्वोपज्ञटीका४ । १३३३ ॥ पृ. २९८ ॥ ५ 'विश-' इति१.३ ॥ ६. तुलनीयोऽमरकोषः २ १५ १२५ ॥ ७ 'स्य' इति३.४.५ ॥ ८ ' - कण्ठा' इति१. २.३ ॥ ९ 'विश-' इति३ ॥ १०. 'भृञः किन्नुट् च' इत्युणादिगणसूत्रम् ॥ ११. - इति१.३ ।। १२. 'किं-' इति१, 'र्क:' इति३ ॥ १३. इतोऽग्रे ३प्रतौ 'धातुः' इति दृश्यते ॥ १४. 'चिल्ल शैथिल्ये' इति स्वामी, 'चिल्ल शैथिल्ये भावकरणे च' मैत्रेयसायणौ ॥ १५. इगुपधत्वाभावादिदं विचारणीयम् अथ च पचाद्यच् ॥ १६. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ १७. 'नि' इति ॥ १८. यां' इति ॥ १९. 'शा-' इति३ ॥
For Private & Personal Use Only
www.jainelibrary.org