________________
६०४
"
।
"
भ्योऽपि (अन्यत्राऽपि ) - ' (वा - ३ ।२ ।४८ ॥ ) इति ड: । ६ शक्नोत्यूर्ध्वं गन्तुमनेन शकुनिः । 'शकेरुन्युन्तोन्तिः (शकेरुनोन्तोन्त्युनयः)' (उणा - ३२९ ) इत्युनिप्रत्यचे शकुनिः । ७ उन्ति प्रत्यये शकुन्तिः । उन्तप्रत्यये शकुन्तः ८ उनप्रत्यये शकुनः । १० वयति पक्षौ विस्तारयति विः । 'वेञ् तन्तुसन्ताने' (भ्वा.उ. अ.), 'वेजो डित् ' (उणा५१२) इतीन् डित्त्वाट्टिलोपः । "स्त्रियां 'वी' [ ] इति सुभूतिः । ९ वयते गच्छति वयः 'वय गतौ ' (भ्वा. आ.से.), '-असुन्’(उणा - ६२८ ) इत्यसुन् । वयसी, वयांसि १० इत्यादि क्लीबे । यदाह - "क्लीबं पक्षिणि बाल्यादौ वयो यौवनमात्रके ''[विश्वप्रकाशकोशः, सान्तवर्गः श्रो-३२] इति । ११ शक्नोत्यूर्ध्वं गन्तुं शकुन्तः । १२ "नभसं ख(खं) मेघवर्त्म विहायसम् "[ ]इति निगमाद् नभसमदन्तं च। अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्ं' (उणा-३९७ ) इत्युणादिसूत्रे 'नभसं खम् [] इति पुरुषोत्तमः । नभसेन गच्छति नभसङ्गमः । 'गमचं' ३ ।२ १४७ ॥ इति खच् । " नभः पर्यायोऽकारान्तो नभस [शब्द: ] ''[ स्वोपज्ञटीकी४ । १३१६ ॥ ] इत्याचार्याः । १३ विकिरति विक्षिपति पक्षान् भक्ष्यं वा विकिरः । कीटादि - २० भक्षणार्थं भुवं विकिरति वा । 'कृ विक्षेपे ' (तु.प.से.), 'इगुपध- '३ ।१ ।१३५ ॥ इति को विकिरः "[]इति सुभूतिः । १४ पत्त्राणि पक्षा रथोऽस्य पत्त्ररथः । १५ विजिहोते विहायाः पुंसि विहायस्सुमनस्- '(हैमोणा- ९७६) इत्यसि निपात्यते । विहायसी, विहायसः इत्यादि । १६ द्वाभ्यां मातृगर्भाण्डाभ्यां जातो द्विजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'अन्येष्वपि दृश्यते १ ३ । २ । १०१ ॥ इति डः I १७ पक्षाः सन्त्यस्य पक्षी, इन्नन्तः । १८ विकिरति विष्किरः । विपूर्वः 'कृ विक्षेपे ' (तु.प.से.), 'इगुपध- ' ३ । १ ११३५ ॥ इति कः, 'ऋत इद्धातोः ७ १ ११०० ॥ ३० 'शकुनिर्विकिरो वा (विष्किरः शकुनौ वा ) ६ ॥१ ॥ १५० ॥
।
इति सुट्, 'परिनिविभ्यः '८।३ १७० ॥ इति पत्वम् । तृतीय
4
अभिधानचिन्तामणिनाममाला [ तिर्यक्काण्डः-४, खचरपञ्चेन्द्रियाः
स्वरमध्योऽयम् । १९ पतति पतत्री । 'पतेरत्रिन्' (हैमोणा९३० ) । पतत्रिणावित्यादि । पतत्राणि सन्त्यस्येति वा । 'अत इनिठनौ '५ । २ । ११५ ॥ इतीनिः । पतत्रिरिति इकारान्तोऽप्ययम् तत्र 'पतेरत्रिः (त्रिन्) (उणा - ५०९ ) इत्यनिः । २० पतति पतन् शतृप्रत्ययः पतन्तौ पतन्तः इत्यादि । २१ पतति पतङ्गः | 'पतेरङ्गच् पक्षिणि' (उणा - ११६) इत्यङ्गच् । सप्तभिर्द्वन्द्रः ॥ १३१६ । २२ पतितुमिच्छति पित्सन् । '-रभलभशकपतपदाम् - ७।४।५४ ॥ इतीस्, ततः शतृप्रत्ययः । पित्सन्तौ पित्सन्तः इत्यादि । २३-२४४० नीडाज्जातो नीडजः । अण्डाज्जातः अण्डजः । उभयत्र 'पञ्चम्यामजातौ '३ ।२ ।९८ ॥ इति डः । २५ अगो वृक्ष ओकोऽस्त्यस्य अगौकाः, सकारान्तः पञ्चत्रिंशत् (पञ्चविंशतिः) पक्षिणाम् । शेषश्चात्र
।
" भवेत् पक्षिणि चञ्चमान् ।
Jain Education International
११
कण्ठाग्नि: कीकसमुखो लोमकी रसनारदः ॥
१२
"वारङ्गिनाडीचरणौ "[शेषनाममाला ४।१८७ - १८८] ॥
2
चञ्चश्चञ्चः शुचः स्पार्टिका ।
त्रोटिश्च
१४
१ चञ्चति भक्ष्यद्रव्यं याति प्राप्नोति चञ्चः । चञ्चु ५० गतौ' (भ्वा.प.से.), मित्रय्वादौ निपातितः । " अपष्ट्वादित्वात् " [ ] इत्यन्ये । २ एवं कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः '(उणा-८१) इत्यूः बाहुलकात् चञ्चः । ३ सर्पति चलि सृपाटी । 'सृप्लृ गतौ ' (भ्वा.प.अ.), ' [ सृ] सृपे: कित्' (हैमोणा - १४६) इत्याटः, गौरादित्वाद् ङीप्, ततः कनि, 'केऽणः ७।४।१३ ॥ इति ह्रस्वत्वे सृपाटिका । ४ त्रोटत्यनया (त्रोटयत्यनया) त्रोटिः । त्रुटेर्णिजन्ताद् बाहुलकाद् 'हृपिशिरुहिभ्य इन्' ( उणा - ५५८ ) इतीन् । स्त्रियां ङीषि त्रोटी च । एते स्त्रीलिङ्गाः । चांचनामानि चत्वारि ॥ पत्त्रं पत्रं पिच्छं वाजस्तनूरुहम् ॥१३१७॥ ६० पक्षो गरुच्छेदश्चाऽपि
१६
१. ' -न्तिः' इति१.३.४ ॥ २. ईचिप्रत्ययप्रकरणेऽस्य सूत्रस्य पाठादस्योल्लेखो विचारणीयः अथ च 'वातेर्डिच्च' (उणा - ५७३ ) इत्यनेन समाधेयम् ॥ ३. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्रो- २४८, पृ. ३१९ ॥ ४ विश्वप्रकाशकोशे 'क्लीबं' इत्यस्य स्थाने 'वयः' इति दृश्यते, पृ. १७६ ॥ ५ द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्री- २४९, पृ. ३२० ॥ रामाश्रमी २ ।५।३४ ॥ पृ. २५५ ॥ ६ तसच्' इति१.४.५ ॥ ७ मेश्च' इति ॥ ८ क्षं' इति३ ॥ ९ 'के' इति१.३ ॥ १०. ४.५ प्रत्योर्नास्ति ॥ ११. 'रदः' इति१.४.५ ।। १२. 'वारङ्ग- इति शेषनाममालास्वोपज्ञटीकयोः ॥ १३. 'भक्ष-' इति३ । १४ द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्रो- २५१, पृ. ३२४ ॥ रामाश्रमी २ ।५ ॥ ३६ ॥ पृ. २५७ ॥ १५. 'सृपति' इति३ ॥ १६. 'हपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च' (उणा-५५८) इत्युणादिगणसूत्रम् ॥ १७ ' ष्' इति३ ॥
4
For Private & Personal Use Only
www.jainelibrary.org