________________
१३१७-१३१९ ]
१ पतत्यनेन पत्त्रम् । पत्लृ पतने' (भ्वा.प.से.), 'दाम्नीशसु (शस) युयुज- '३ ।२।८२ ॥ इत्यादिना ष्ट्रन् । २ पतन्तं त्रायते तत्त्रम्, तुर्यवर्गाद्यद्वयरेफसंयोगवान् । बाहुलकात् [ पतेः ] 'अमिनक्षिकलिभ्योऽत्रन्' (चान्द्रोणा - ३ १३८ ॥ ) इत्यत्रन् पतत्रमिति एकतकाररेफसंयोगवानपि । ३ पीयते पिच्छम् । 'पी पाने' (दि.आ.अ.), 'पीपूङोः ह्रस्वश्च' (हैमोणा - १२५) इति छं । पिञ्छमपि । ४ वजत्यनेन वाजः । ‘वज गतौ’(भ्वा.प.से.), करणे घञ् । ५ तन्वां रोहति तनूरुहम्, पुंक्ली. । 'रुह बीजजन्मनि प्रादुर्भावे १० (भ्वा.प.अ.), 'इगुपध- '३ । १ ।१३५ ॥ इति कः
व्युत्पत्तिरत्नाकरकलिता
॥१३१७॥ ६ पच्यते कालेन पक्षः, पुंसि । 'डुपचष् पाके' (भ्वा.उ. अ.), 'वृतृवदिहनि- ' ( उणा - ३४२ ) इत्यादिना बाहुलकात् सः 1 पक्ष्यते परिगृह्यते वा | 'पक्ष परिग्रहे ' ( चु.प.से.), कर्मणि घञ् । असुनि प्रत्यये पक्षः, सकारान्तमपि । " पक्षसा (पक्षसी) च स्मृतौ पक्षौ "[ ]इति शुभाङ्कः । ७ गिरति खमनेन, गृणाति शब्दायते वा गरुत्, पुंक्ली. । 'गु निगरणे' (तु.प.से.), 'गृ शब्दे' (क्र्या.प.से.) वा, 'मृग्रोरुति:' ( उणा - ९४ ) इत्युतिः । गरुतौ, गरुतः इत्यादि पुंसि । गरुती, गरुन्ति इत्यादि क्लीबे । ८ छाद्यतेऽनेन छदः | 'छद २० अपवारणे' (चु.उ.से.), णिजन्तः, ततो घञर्थे कः । पुंक्लीबलिङ्गावेतौ । अष्टौ पक्षस्य ॥
पक्षमूलं तु पक्षतिः ।
१ पक्षस्य मूलं पक्षमूलम्, 'पक्षात् तिः '५ । २ । २५ ॥ इति तिः पक्षतिः, स्त्रीलिङ्गः ॥ प्रडीनोड्डीनसण्डीनडयंनानि नभोगतौ ॥१३१८॥
१ प्रड्यनं प्रडीनम् । ‘डीईंं विहायसा " गतौ' (भ्वा.आ.से., दि.आ.से.), भावे नपुंसके क्तः । २-३ एवम् उड्डीनम्, सण्डीनम् । स्वादिषु पाठसामर्थ्यादनिट्त्वम्, निष्ठायाः 'ओदितश्च ८ १२ ।४५ ॥ इति सर्वत्र ३० निष्ठानत्वम् । [४ डीयते डयनम् । 'डीङ् विहायसां
६०५
गतौ' (भ्वा.दि.आ.से.), ल्युट् ] ५ " नभसिं गमनं नभोगतिस्तस्याम् ''[ स्वोपज्ञटीका ४ । १३१८] इत्याचार्याः । " प्रथमं डीनं प्रडीनम्, भावे क्तः, उड्डयनाय क्रमबन्धः, ऊर्ध्वं डीनमुड्डीनं वियद्गमनम् सङ्गतं डीनं सण्डीनं वृक्षादौ पतनम्’[ ं]इति सुभूत्यादयः । " प्रडीनं तिर्यग्गमनम्, उड्डीनमूर्ध्वगमनम्, सण्डीनं सङ्गतगमनम् ["] इति त्वन्ये । पञ्च आकाशगतिनामानि ॥ पेशीकोशोऽण्डे
Jain Education International
१ 'पिश अवयवे ' ( तु. पसे.), पचाद्यजन्ताद् गौरादित्वाद् ङीष् पेशी, पेशीनां मांसखण्डानां कोशः सङ्घातः पेशीकोशः । अमति निस्सरत्यस्माच्छावक इति अण्डम्, पुंक्लीबलिङ्ग: । 'अम् (अम) गतौ ' (भ्वा.प.से.), 'जमन्ताड्डुः ' ( उणा - १११ ) इति डः । 'अण शब्दे' (भ्वा.प.से.) अतो वा 'अमन्ताड्डु : ' ( उणा - १११ ) इति डः, बाहुलकाद् दिरपि । "तिस्त्र: संज्ञा एताः "[]इति गौडः । डकारस्य नेत्त्वम्, तत्र । ' आण्ड' इति द्वितीयस्वरा" अण्डे
पेशी च कोशश्च "[ ] इति, तदा 'पिश अवयवे ' (तु.प. से.), तालव्यान्तः, 'हृपिशिरुहि - ' ( उणा - ५५८ ) इतीन्, 'कृदिकारात्- ' (गणसू - ४ । १ । ४५ ॥ ) इति ङीषि पेशी । " पेशी सुपक्वैकणिकेँ मास्यां खड्गपिधानके, मांस - ५० पिण्ड्यामण्डभेदे "[मेदिनीकोशः, शान्तवर्ग:, श्रो- १२] इति मेदिनिः । पेशिरिति तृतीयस्वरान्तोऽपि । कुश्यति श्रिष्यति शावकोऽत्रेति कोश: । 'कुश शेषे '(दि.प.से.), बाहुलकादधिकरणेऽच् । कोषो मूर्धन्यान्तोऽपि । निःक्रामति शावकोऽस्मादिति कोषः । 'कुष निष्कोषणे' (क्र्या.प.से.), 'अकर्तरि च कारके - '३ । ३ । १९ ॥ इति घञ् । 'कोषोऽस्त्री कुड्मले पात्रे [ दिव्ये खड्गपिधानके । जातिकोषेऽर्थसङ्घाते] पेश्यां शब्दादिसङ्ग्रहे ॥१॥" [मेदिनीकोशः, षान्तवर्ग:, श्रो- १० ] इति मेदिनिः । ईंडानाम्नी द्वे ॥
44
इति मैत्रेयः ॥ ७ इतोऽग्रे
१. 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥ २. ततं' इति५ ॥ ३. 'भ' इति४, 'त-' इति५ ॥ ४ 'तुक्' इति१ ॥ ५. 'जन्मनि ' इति ॥ ६. इतोऽग्रे १ प्रतौ, मा. धातुवृत्तौ च 'च' इति दृश्यते, 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' ३प्रतौ 'पक्षः' इति दृश्यते ॥ ८. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्रो- २५१, पृ. ३२३ ॥, रामाश्रमी २५ ॥३६ ॥ पृ. २५६ ॥ ९. ' -विमौ ' इति३ ॥ १०. ' - ञ्' इति३ ॥ ११. सां' इति१. २.३, स्वामी च ॥ १२. 'सी' इति५ ॥ १३. 'सन्त-' इति३.४ ॥ १४ द्र. पदचन्द्रिका, भा२, सिंहादिवर्ग:, - २५२, पृ. ३२५ ॥ १५. - मिनम्' इति५ ॥ १६. 'गत्यादिषु' इति क्षीरतरङ्गिण्यादयः ॥ १७ द्र. अम. क्षीर. २५ ॥ ३८ ॥ पृ. १३२ ॥ स्वोपज्ञटीका ४ १३१९ ॥, पृ. २९४ ॥ तयोः 'एता' इति न दृश्यते ॥ १८. 'ड' इति३ ॥ १९. ' क्व:' इति३ ॥ २०. ' -लिके' इति मेदिनीकोशे, पृ.१६३ ॥ २१. ' - दा' इति३.५ ॥ २२. 'ते' इति३ ॥ २३. दुर्गसम्मतोऽयं धातुपाठः, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं- ११२, पृ.२२९ ॥ २४. 'निष्कर्षे' इति क्षीरतरङ्गिण्यादयः ॥ २५. 'प' इति ॥ २६. 'इ' इतिर, 'ई-' इति३ ॥
For Private & Personal Use Only
४०
६०
www.jainelibrary.org