________________
१३०८-१३१७ |
मूषिकाद्या:
व्युत्पत्तिरत्नाकरकलिता
स्पष्टम् ॥१३१३ ॥
दूषविषं त्ववीर्यमौषधादिभिः । १ दूष्यते दूषी, दूषीलक्षणं विषं दूषीविषम्, औषधादिभिरौषधमन्त्रप्रयोगैरवीर्यं वीर्यरहितीकृतम् । एकमौषधादिना वीर्यरहितविषस्य ॥
कुत्रिमं तु विषं चार गैरश्चोपविषं च तत्
॥१३१४ ॥ १ कृत्रिममौषधादियोगजनितं विषम्, चार्यते चारम् । १० २ गिरति गरः । गृ निगरणे' (तु.प.से.), अच् । ३ उपगतं विशेषेण उपविषम् । त्रीणि कृत्रिमविषस्य ॥१३१४॥ भोगोऽहिकायः
१ भुजति कुटिलीभवत्यनेनाऽस्मिन् वा भोगः । अधिकरणे घञ् । एकं सर्पशरीरस्य ॥
दंष्ट्राऽऽशी
१ अहे र्दंष्ट्रा, आशास्यते हिंस्यतेऽनया आशीः । आङ्पूर्वः ‘शास् इच्छायाम् ' (अ.आ.से.), क्विपि, 'शास आशासश्च क्वायुपधाया इत्त्वं वाच्यम्' (वा - ६ ।४ । ३४ ।। ) । आशिषौ, आशिपः इत्यादि । स्त्रियां "ङयन्तोऽयम्''[] २० इत्यन्ये । आशी. आश्यौ, आश्यः इत्यादि नदीवत् । एकं सर्पदंष्ट्रायाः ॥
Jain Education International
अथ खचरानाह
10
11
विहंगो विहङ्गम-खगौ पतंगो विहङ्गः शकुनिः शकुन्ति-शकुंनौ वि-वयः - शकुन्ताः नभङ्गमो विकिर- पत्त्ररथौ विहायोद्विज-पक्षि-विष्किर-पतत्रि-पतत्-पतङ्गाः ।१३१६ । पित्सन् नीडा- ऽण्डजोऽगौकाः
फण:
१ दृणात्यनया दर्विः । 'दृ विदारणे' (क्र्या.प.से.), ‘वृदृभ्यां विन्’(उणा-४९३), 'कृदिकारात्- ' (गणसू४। १ । ४५ ।। इति ङीष दर्वी । २ भुनक्ति भुङ्गे वाऽनेनेति भोगः । 'भुज पालनाभ्यवहारयो: ' (रु.प.अ.), 'हलश्च' ३ | ३ | १२१ ॥ इति संज्ञायां घञ्, 'चजोः कु घिण्ण्यतो: ' ७ । ३ । ५२ ॥ इति कुत्वम् । ३ स्फायते फट: । पृषोदरादिः । ४ स्फटति विशीर्यते स्फट: । मिश्रास्तु- " 'स्फुट [स्फट] विकसने ' ( चु.प.से.), चुरादिः, पचाद्यचि स्फुटा (स्फटा ) " [ पदचन्द्रिका, भा-१, भोगिवर्गः, श्रो- २२२] ४० इत्याचख्युः 1 "पृषोदरादित्वात् सकारलोपे फुटा' "[] फकारादिरपीति स्वामी । ५ फणति विस्तारं गच्छति फण: । 'फण गतौ ' (भ्वा.प.से.), "फटादयस्त्रयः पुंस्त्रीलिङ्गोः, फणं नपुंसकम्"[] इति चान्द्राः । पुंसि रामवत्, स्त्रियां रमावत् । पञ्च सर्पफणस्य ॥ अहिकोशे तु निर्व्वयनीनिर्मोककञ्चकाः ॥१३१५॥
॥ उक्ताः स्थलचरपञ्चेन्द्रियाः ॥
१ अहे : कोश इव अहिकोशोऽहित्वक्, तत्र । नितरां लूयते निर्व्वयनीं । पृषोदरादिः । " नितरां लीयते निर्लयनी" [] इत्यन्ये । २ निश्चयेन मुच्यते । कर्मणि घर्जि निर्मोकः । ३ कञ्चते कञ्चकः, पुंक्ली. । 'कचि ५० दीप्तिबन्धनयो:' (भ्वा.आ.से.), 'शमिकमि- ' (उणा- ) इत्यादिना बाहुलकादुकन् । कञ्चुक इव कञ्चुक इति वा । चत्वारि सर्पकञ्चुकस्य । (कौंचलीति भाषा) ॥१३१५ ॥
॥ खचरपञ्चेन्द्रियाः ॥
६०३
दर्वी भोग : फैटः स्फट: । ३०
१ विहायसा गच्छति विहगः । 'गमेश्च (गमश्च) ' ३ ।२।४७ ॥ इति डः (खच्) । २ ५ विहायसा गच्छति [विहङ्गः ], विहङ्गमः । 'विहायसो विह च' (वा - ३ ।२ । ३८ ॥), 'डश्च ( डे च) ' (वा ३ ।२।३८ ॥ ), 'खच्च डिच्च (डिद् वा)' (वा - ३ । २ । ३८ ॥ ) इति वार्तिकात् [डित्त्वा ६० भावपक्षे टिलोपाभावः ] । ३ खे गच्छति खगः | 'अन्येभ्योऽपि (अन्यत्राऽपि ) - ' (वा - ३ २ १४८ ॥ ) इति डः । ४ पतत्यनेन पतः पक्षः । 'पत्लृ पतने" (भ्वा.प.से.), 'पुंसि- ' ३ । ३ । ११८ ॥ इति घः । तेन गच्छति पतगः | 'अन्ये
१. 'गीर्यते' इति३ ॥ २. वार्तिके न दृश्यते ॥ ३. 'स्फु' इति ॥ ४ 'अधोभागे' इति ३प्रतेष्टिप्पणी ॥ ५ 'ङ्गौ' इति३, 'ङ्गः ' इति४ ॥ ६ द्र. स्वोपज्ञटीका४ ।१३१५ ॥ पृ. २९३ ॥ ७ नीति' इति३ ॥ ८ जिति' इति१ ॥ ९ स्वामिमैत्रयसम्मतोऽयं धातुपाठः, 'कचि काचि' इति सायणः ॥ १०. ' - देवनयो:' इति१ ॥ ११. कोष्ठान्तर्गतपाठः १.२.४.५ प्रतिषु न दृश्यते ॥ १२. न्ति' इति ॥ १३. 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥
For Private & Personal Use Only
www.jainelibrary.org