________________
॥ द्वितीयो देवकाण्डः ॥
उक्तः प्रथमः काण्डोऽथ पूर्वं द्वितीयस्मिन् काण्डे 'देवाः वक्ष्यन्ते' इति प्रतिज्ञातत्वाद् द्वितीयं देवकाण्डं प्रारभ्यते, तत्र देवनामाश्रयः स्वर्ग इति प्रथमं स्वर्गनामानि प्रोच्यन्ते
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः । गौस्त्रिदिवमूर्ध्वलोकः सुरालयः
१ ऋज्यते स्थीयतेऽस्मिन्निति अर्गः स्थानम् । 'ऋज गतिस्थानार्जनोपार्जनेषु''(भ्वा.आ.से), 'हलश्च' ३ | ३|१२१ ॥ इति घञ्, 'चजो: कु घिण्ण्यतो : '७३ ॥ ५२ ॥ इति कुत्वं गकारः । शोभनो अर्गः स्वर्गः इति प्रादिसमासः । यद्वा स्वर्यते सुखहेतुतया १० कथ्यते इति स्वर्गः । 'स्वृ शब्दोपतापयोः ' (भ्वा.प.वे.), 'गन् गम्यादे:'(उणा-१२०) इति गन्प्रत्ययः । यद्वा सुः सुकृतम्, तेन ऋज्यते प्राप्यते स्वर्गः । कर्मणि घञ् । अर्जनमर्गः । 'अर्ज सर्ज अर्जने ' (भ्वा.प.से.), भावे घञि न्यक्कादित्वात् कुत्वम् । ‘शोभनोऽर्गः अर्जनं स्वर्ग : ' [ ] इति माधवैः । २ विशन्ति अस्मिन् सुकृतिन इति विष्टपम्।' विटप - विष्टपविशिपोलप : ' (उणा-४२५) इति विशे: कपन्प्रत्ययः, तस्य तुट् च, 'व्रश्च - '८ २ ॥३६॥ इति षत्वम् । त्रिदशानां विष्टपं लोक: त्रिविष्टपम्, पुंक्लीबः । पृषोदरादित्वाद् दशशब्दलोपः । "तृतीयं विष्टपं त्रिविष्टपम् । पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न प्रयुज्यते, त्रिभागवत् "[ ]इति २० मधुमाधवी । इहच्छान्दसा:-'विष्टान् पाति विष्टपमिति निरुक्तत्वाद् व्युत्पाद्य त्रिपिष्टपमिति, तृतीयं पिष्टपं त्रिपिष्टपमिति पकारपाठः प्राच्यानां प्रामादिक:' इत्याहुः । तद्युक्तम्- 'नभो विष्टपं वृषो गोर्ना पृनिश्चापि सुरालय: '[] इति, रत्नमालादावपि दर्शनादिति तु कौमुदी । 'विटप - पिष्टपविशिपोलपा : ' (उणा - ४२५ ) इत्युणादौ पकारपाठः पठित्वा कपे विशतेरादेः पत्वम्, प्रत्ययस्य तुट्, षत्वादिकार्यम्, पिष्टपं भुवनम् त्रिपिष्टपं स्वर्ग इति दर्शनात् । 'त्रिपिष्टपं त्रिविष्टपं च "[ ] इति तु बृहस्पतिः । तथा च "पिष्टपो
Jain Education International
विष्टपोऽप्यस्त्री भुवनं च नपुंसकम् [] इत्यमरमालोक्तेः । "मर्त्यपातालापेक्षया तृतीयं पिष्टपं भुवनं त्रिपिष्टपम् "[ ]इति तु राजदेवः ।" तृतीयं विष्टपं त्रिविष्टपम् ।'भूर्भुव: स्व: '[ ] इति श्रुतेः, ३० अत्र मयूरव्यंसकादित्वात् समासे पूरणप्रत्ययलोपः "[ अभि. स्वो .टी. . ८७] इत्याचार्याः । ३ दीव्यन्ति अत्र सुरजना इति द्यौः, स्त्रीलिङ्गः । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ' (दि.प.से.) 'दिवेड्य':' ( ) इति ड्योप्रत्ययः, टिलोपे गोशब्दवद्रूपाणि । यद्वा द्यौति अभिगच्छत्यमुं सुरजन इति द्यौः । ' द्यु अभिगमे ' (अ.प.अ.), ('द्युगमिभ्यां डो: '(हैमोणा-८६७) इति डोप्रत्ययः । द्योतत इति वा ।) 'द्युत दीप्तौ ' (भ्वा.आ.से.), बाहुलकाद् 'गमेर्डो:'(उणा-२२५) इत्यतोऽपि डोः । ४ दीव्यन्त्यस्यां देवा इति द्यौः। 'दिवु क्रीडादौ'(दि.प.से), बाहुलकाद् 'दिवेर्डिर्वि':'( ) इति डिविप्रत्ययः । क्विपि तु 'च्छवो: शूड्- '६।४।१९ ॥ इत्यूट् ४० (-ठ्) स्यात् । पदान्ते 'दिव उत् '६ |१ | १३१ ॥ इति उत्वम्, द्युभ्यामित्यादि, स्त्रीलिङ्ग एव । ५ भवत्यस्यां सुखमिति भुविः, स्त्रीलिङ्गः । 'भूसत्तायाम्' (भ्वा.प.से.), 'भुव: कित्' (उणा - २६९) इतीस्प्रत्ययः । भुविषौ, भुविषः इत्यादि । "त्रिविष्टपं देवलोको भुवि : स्त्री द्योदिवौ स्त्रियाम् " [ ]इति वाचस्पतिः । ६-७ तव्यते गम्यते शुभकर्मवशादत्रेति तविषः ताविषः च । 'तव गतौ' इति सौत्रो धातुः, 'तवेर्णिद्वा' (उणा - ४८ ) इति इषप्रत्ययैः । णित्पक्षे वृद्धिः । ८ कं सुखम्, न कम् अकं दुःखम्, तन्नास्त्यत्रेति नाकः ' पुंक्ली. । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यः, उत्तरपदलोपच ' (वा - ) इति समासोत्तरपदलोपौ,‘नभ्राण्नापत्- '६ । ३ । ७५ ॥ इति नञः प्रकृति - ५० भावः । यद्वा कस्य ब्रह्मणोऽभावोऽकः, नास्ति अको यत्रेति, विद्यमानविरञ्चिरित्यर्थः । न आकाम्यते अभिलष्यते नास्तिकैरिति वा ।' नञः कमि (क्रमि) गमि - ' (हैमोणा - ४) इति डिति अप्रत्यये नाक इति । ९ गच्छन्त्याश्रयन्ति देवास्तामिति गौः पुंस्त्री । 'गम्लृ गतौ ' (भ्वा.प.अ.), 'गमेर्डी : ' (उणा - २२५), प्राधान्येन व्यपदेशा
·
१. 'ऋज गतिस्थानार्जनेषु' इति १.२.४ ॥ २. 'गगम्यद्यो:' इत्युणादिगणे ॥ ३. 'संस्कृतं ' इति३.४ ॥ ४. स्वामिसम्मतोऽयं धातुपाठः, सायणः ' -षर्ज-' इत्याह ॥ ५. ‘स्वर्ग:-वार्तिककारमते न्यङ्क्वादित्वात् कुत्वम्' इत्येव मा.धातुवृत्तौ धातुसं - १३७, पृ. ९८ ॥ ६. विटपविष्टपविशिपोलपा : ' इत्युणादिगणे ॥ ७. 'विश प्रवेशने ' (तु.प.अ.) इति तौदादिकाद्धातोः ॥ ८. 'द्यौश्चापि' इति १ ॥ ९ द्र रामाश्रमी १।१।६ ॥ पृ.५ ॥ १०. उणादिगणायोर्नास्ति, द्र. रामाश्रमी १ । १ । ६ ॥ पृ.५ ॥ ११. कोष्ठान्तर्गपाठस्थाने १ प्रतौ 'मनिप्क्वनिविच इति विप्र ( प्र ) त्ययः गुणः । द्योतन्तेऽस्या (-स्यां) देवा इति वा' इति पाठो दृश्यते ॥ १२. “द्यौ:- 'देवेर्डिवि:' इति न्यासे ऊहितसूत्रेण व्युत्पादितम्" इति मा धातुवृ दिवादिः, धातुसं-१, पृ.४० ॥ १३. वस्तुतः सूत्रात् टिषच्प्रत्ययो भवति, 'अविमह्योष्टिषच्' (उणा - ४५ ) इत्यस्यानुवृत्तेः ॥ १४. 'नवोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः ' इति सिद्धान्तकौमुद्यां बहुव्रीहौ ॥
For Private Personal Use Only
www.jainelibrary.org