________________
५८६
चत्वारः त्रयश्च हायना वयः प्रमाणमस्याः चतुर्हायणी चतुवर्षा गौः, त्रिहायनी त्रिवर्षा गौः । उभयत्र ' - हायनान्ताद् (हायनाद्) वयसिं' (हैमसू - २।४ ।९ ।। ) इति ङीष् णत्वं च 'त्रिचतुर्भ्यां हायनस्य' (वा- ) इत्यनेन । १-२ द्विशब्दादेकशब्दाच्च हायनीति योज्यते, तेन द्वे हायने वयः प्रमाणमस्याः इत्याह यस्य ठञः 'अध्यर्धपर्वाद् द्विगोः - '५ ।१ ।२८ ॥ इति लुक्, 'दामहायनान्ताच्च '४ । १ । २७ ॥ इति ङीप् द्विहायनी द्विवर्षा, एवं एकहायनी एकवर्षा गौः । एकादीनि वर्षाण्यस्या एकादिवर्षिका । अत्रैकवर्षादयश्चतुर्हाय१० ण्यादीनां प्रातिलोम्येन यथासङ्ख्यं पर्याया लभ्यन्ते ॥ आपीनमूधः
२०
अभिधानचिन्तामणिनाममाला [ तिर्यक्काण्डः - ४, स्थलचरपञ्चेन्द्रियाः छाद्यते वह्निरनेनेति छगणम्, पृषोदरादिः । त्रीणि 'छाणा' ३० इति ख्यातस्य ॥
१ आप्यायते स्म आपीन: पुंक्लीबलिङ्गेः । 'ओप्यायी वृद्धौ' (भ्वा.आ.से.), निष्ठा, 'प्यायः पी '६ । १ । २८ ॥, निष्ठायां 'आङ्पूर्वस्यान्धूधसोः स्यादेव ' (वा - ६ |१ | २८ ॥ ) इति [ पीभावः ], 'ओदितश्च ८ ।२ ।४५ ॥ इति निष्ठानत्वम्। २ उह्यते गवा, वहति क्षीरं वा ऊधः, क्ली । 'श्वः (श्वेः) सम्प्रसारणं च ' ( उणा - ६३२ ) इत्यनुवृत्तौ 'वहेर्धो दीर्घश्च' ( ) इत्यसुन्, दीर्घत्वं च । ऊधसी, ऊधांसि इत्यादि । द्वे ऊधसः ॥
गोविंद् गोमयं भूमिलेपनम् ॥१२७२॥
१ गवां विट् विष्टा गोविद्, मूर्धन्यान्तस्तालव्यान्तश्च । २ गोः पुरीषं गोमयम् । 'गोर्मयट् पुरीषै' ४।३।१४५ ॥ इति मयट् । ३ भूमिलिप्यतेऽनेन भूमिलेपनम् । 'लिप उपदेहे ' ( तु. उ. अ.) करणे ल्युट् । गोबरनामानि त्रीणि ॥१२७२ ॥
शुष्के तु तत्र गोग्रन्थिः करीष - छगणे अपि ।
१ तत्र गोमये शुष्के गोः पुरीषस्य ग्रन्थिः गोग्रन्थिः । २ कीर्यते विक्षिप्यतेऽग्नौ करीषम्। 'कृ विक्षेपे' (तु.प.से.), ‘कॄगॄ(तृ)भ्यामीषन् ' ( उणा - ४६६ ) इतीषन् । ३
Jain Education International
गवां सर्वं गव्यम्
१ सर्वं क्षीरादि, गोरिदम्, गवि भवं वा गव्यम्, 'गोपयसोर्यत् '४ | ३ |१६० ॥ इति यत् । " गव्यं गोसम्भवं सर्वम्"[ हलायुधकोश: २ । २७३ ॥ ] इति हलायुधः । सामान्येन एकं गोसम्भववस्तुनः ॥
व्रजे गोकुलं गोधनं धनम् ॥१२७३॥
१ व्रजन्त्यस्मिन्निति व्रजः, पुंक्ली । 'गोचरसञ्चरवह - '३ | ३ |११९ ॥ इति साधुः, तत्र । २ गवां कुलं समूहः गोकुलम् । ३ गवां धन ( धनं) समूह:, गो - ४० शब्दात् परो धनशब्दः समूहवाची, गोधनम् । "गोकुले धनगोधने "["] इति व्याडि: । ४ धनति धनम् । 'धन शब्दे ), पचाद्यच् । चत्वारि गोधनस्य ॥१२७३ ॥
प्रर्जने स्यादुपसरः
१ प्रायतेऽस्मिन् प्रजनः पशूनां गर्भग्रहणकालः । 'जनी प्रादुर्भावे' (दि. आ.से.), अधिकरणे [घञ् ], 'न जन- ' (हैमसू--४।३।५४ ॥) इति वृद्ध्यभावः तत्र । २ स्त्रीषु पुंसां प्रथममुपसरणम् उपसरः । 'सृ गतौ ' (भ्वा.प.अ.), 'प्रजने सर्तेः ३ । ३ । ७१ ॥ इत्यप् । द्वे पशूनां गर्भग्रहणकालस्य ॥
१५
कोलः पुष्पलेकः ( पुष्कलकः ) शिवः । ५०
१ कील्यते रज्वा बध्यतेऽस्मिन् कीलः, पुंस्त्रीलिङ्गैः । ‘कील बन्धने ' (भ्वा.प.से.), अधिकरणे घञ् । २ पुष्पति पुष्पलः (पुष्कलः ) मूर्धन्यान्तस्थाद्यमध्यैः, पृषोदरादिः, स्वार्थे कनि पुष्पलकः ( पुष्कलकैः) । 'पुष्पलको (पुष्कलको) गन्धमृगे कीलके कृपणेऽपि च " [विश्वलोचनकोश:, कान्तवर्ग:, श्रो- २०३ ] इति श्रीधरः । तथा च-‘“सीम्नि पुष्पलकों (पुष्कलको) हतः "["] इति । ३ शेते भुवि शिवः, हरनामसु ( श्रो- १९७ ) । खूंटानामानि त्रीणि ॥
१. 'दामहायनान्ताच्च '४ । १ । २७ ॥ इति पाणीनीयसूत्रम् ॥ २. 'ङीष्' इति१. २.४.५ ॥ ३. 'एकं' इति५ ॥ ४. नम्' इति ॥ ५. 'क्लीः' इति३ ॥ ६. 'गोश्च पुरीषे ' ४ | ३ | १४५ ॥ इति सूत्रम् ॥ ७ ́ ऽनेन' इति १ प्रतौ नास्ति ॥ ८ 'छाणा' इति३, 'छांणा' इति५ ॥ ९ १ प्रतौ नास्ति ॥ १०. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो- ६३१, पृ. ७२२ ॥ रामाश्रमी २ ।९ ५८ ॥ पृ. ४२७ ॥ ११. क्षीरतरङ्गिण्यादौ शब्दार्थकधनधातुर्न दृश्यते ॥ १२. ' - चि' इति३.५ ॥ १३. 'ते' इति३ ॥ १४. 'जनिवध्योश्च ७ | ३ | ३५ ॥ इति पाणिनीयसूत्रम् ॥ १५. ' - सा' इति ॥ १६. कोष्ठान्तर्गतपाठः ३ प्रतिस्थः ॥ १७. 'पुंस्त्री' इति३ ॥ १८. 'बन्धे' इति स्वामिमैत्रेयौ ॥ १९. अस्याऽत्राऽसङ्गतिः प्रतिभाति ॥ २० विश्वलोचनकोशेऽप्येवमेव दृश्यते ॥ २१. इतोऽग्रे १ प्रतौ 'गन्धमृग-' इति दृश्यते ॥ २२. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ४।२१ ॥, पृ.३२२ ।।
4
For Private Personal Use Only
www.jainelibrary.org