________________
५८४
अवतोका स्त्रवद्गर्भा
१ अवगलितं तोकमपत्यं यस्याः सा अवतोका । “अपतोकेत्यपि " [ ] इति हलायुधटीका । स्रवन् स्रुतिं प्राप्तो गर्भो यस्याः सा स्त्रवद्गर्भा । 'वर्तमानसामीप्ये वर्तमानवद्वा '३ |३ |१३१ ॥ इति लट् । मालाकारस्तु- "मृतवत्सा स्त्रवद्गर्भा''[] इत्याह । त्रैईगाई नाम एकम् ॥ वृषाक्रन्ता तु सन्धिनी ।
अभिधानचिन्तामणिनाममाला [ तिर्यक्काण्डः - ४, स्थलचरपञ्चेन्द्रियाः परे॑ष्टुर्बहुसूतिः स्यात्
१ परमिच्छति परेष्टुः, पृषोदरादिः । बह्वी सूति: प्रसूतिरस्याः बहुसूतिः । " परेष्टुका च प्रचुरप्रसूतिः "[हलायुधकोशः२।२७२ ॥]इति हलायुधः । एकं बहुशः प्रसूतगो: ॥ सृष्टिः सकृत्प्रसूतिका ।
१ गिरति गृष्टिः । ‘ग्रैं निगरणे' (तु.प.से.), 'ग्रो गृष् च'(हैमोणा-६४९) इति तिः । एकमेकवारप्रसूतगोः ॥ प्रजने काल्योपसर्या
१ औचित्यादृतुमती वृषेणाऽऽक्रान्ता निष्पादितमैथुना वृषाक्रान्ता । सन्धानं सन्धा गर्भग्रहणमस्त्यस्याः सन्धिनीं । १० शिखादित्वादिनिः । लग्नगर्भेयम् । " [अ]दुग्धा दोहकाले तु सन्धिनी''[ ँ]इति कात्यः । " सन्धिन्यकालदुग्धा गौवृषाक्रान्ता च सन्धिनी " [ शाश्वतकोशः, श्रो- ५२८ ] इति शाश्वतः । यथा-" आविकं सन्धिनी" क्षीरं न भोक्तव्यं द्विजन्मभिः "[]इति । एकं वृषभारूढाया गोः ॥ प्रौढवत्सा वष्कयिणी
१ प्रौढो वत्सोऽस्याः प्रौढवत्सा, चिरप्रसूतेत्यर्थः । वष्कति परिक्रामति वष्कयः । वष्कधातोरौणादिकोऽयप्रत्ययः । तद्योगाच्छिखादित्वादिर्निः, ऋनेभ्यो ङीपिं वष्कयिणी । 'पूर्वपदात् संज्ञायाम् ' ८ ॥४ ॥ ३ ॥ इति २० णत्वम् । 'वष्कयस्त्वेकहायनो वत्सः ' ( २) इति शाकटा
यनः । "वष्कयेन (ण) नीयते । सम्पदादित्वात् क्विपि, तत: 'सर्वतोऽक्तिन्नर्थात् ' ( गणसू - ४।१।४५ ॥ ) इति ङीषि वष्कयणी " [ ] इति तृतीयस्वरमध्याभावं केचित् पेठुः । एकं बाखडीति ख्यातायाः
11
धेनुस्तु नवसूतिका ॥१२६७॥
१ धयन्त्येनामिति धेनुः । ' धेट् पाने' (भ्वा. प.से.), 'धेन्वादयश्च' ( चान्द्रोणा - १।३१ ॥ ) इति निपातितः । नवा प्रत्यग्रा सूति: प्रसूतिरस्या नवसूतिका । 'उर:प्रभृतिभ्यः कप् '५ ।४ । १५४ ॥ । नवमचिरं सूता प्रसूता नव३० सूती, स्वार्थे कनि, 'प्रत्ययस्थात्- '७ । ३ ।४४ ॥ इतीत्वे नवसूतिका । एकं सूआवडीति ख्यातायाः गोः ॥१२६७ ॥
Jain Education International
१ प्रजने गर्भग्रहणे, औचितयहतुयोगानन्तरं प्राप्तः ४० कालोऽस्याः काल्या । 'कालाद् यत् '५ । १ । १०७ ॥ इति यत् । ऋतुमती या वृषभेणोपसरणीया, सा उपसर्या । 'सृ गतौ'(भ्वा.प.अ.), 'उपसर्या काल्या प्रजनने (प्रजने) '३ । १ । १०४ ॥ इति यदन्तो निपातितः । "काल्योपसर्या प्रजने " [हलायुधकोशः २ ।२७२ ॥ ] इति हलायुधः । "प्रजने गर्भग्रहणे प्रसिद्धायां द्वौ " [] इति तट्टीका । प्रजने गर्भग्रहणे या प्रसिद्धा, तस्या द्वे । 'सूभरि' इति भाषा ॥
सुखदोह्या तु सुव्रता ॥१२६८॥ १ सुखेन दुह्यते सुखदोह्या । शंसिगुहिदुहि ( दुहि गुहि ) भ्यो वा ' ( वा - ३ । १ । १०९ ॥ ) इति पक्षे ५० ण्यत् । शोभनं व्रतमस्याः सुव्रता, सुशीलेत्यर्थः । एकं सुखदोह्याया गौः ॥१२६८ ॥
For Private
दुःखदोह्या तु
१ करोति खेदं करटा । कृञः 'शकादिभ्योऽटन्'(उणा-५२१), टाप् । दुःशीलेत्यर्थः । एकं दुःखदोह्यंगोः । 'खांट' इति भाषा ॥
१. 'श्र-' इति३ ॥ २. 'लुट्' इति३ ॥ ३ 'श्र-' इति१.३ ॥ ४द्र. अम. क्षीर. २ ९ ६९ ॥, पृ. २१५ ॥ स्वोपज्ञटीका ४ । १२६९ ॥ पृ.२८३ ॥ ५ 'तू -' इति३.४ ॥ ६ 'य-' इति ॥ ७ 'ण' इति ॥ ८. ' - तः' इति३ ॥ ९ 'सम्बन्धिनी' इति ॥ १०. 'दोहद-' इति १.३ ॥ ११. 'नीं' इति३ ॥ १२ द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३ ४२४ ॥ पृ. १८७ ॥ १३. 'नि' इति२.३.५ ॥ १४ - षि' इति१. २.४.५ ॥ १५. ' - प्रसूता' इति१.३ ॥ १६. प्रसूतिका' इति१.३ ॥ १७ 'गौ:' इति१.३ ॥ १८. ' - गौः' इति३ ॥ १९. 'गृ' इति ॥ २०. ' - प्तका- ' इति ॥ २१. 'दो-' इति३ ॥ २२. ह्यागो:' इति३ ॥ 'ह्या' इति३.४ ॥ २४ 'खा-' इति४ ॥
२३.
बहुदुग्धा तु वञ्जुला । १ बहु प्रचुरं दुग्धमस्याः बहुदुग्धा । वञ्जति वञ्जुला । 'मुकुल (कुमुल) - ' ( है मोणा - ४८७ ) इत्युले निपात्यते । द्वे (एक) बहुदुग्धाया गोः ||
Personal Use Only
६०
www.jainelibrary.org