________________
१२५९-१२६३ /
८९ ।। इति वृद्धिः पष्ठौह:, पष्ठौहा इत्यादि । " प्रष्ठमग्रगामिनं वहति प्रष्ठवाट् " [ ]इति सरेफं पकारं सुभूत्यादयः पेठुः । परं नीरेफपाठ एव सर्वसम्मतः । २ युगस्य स्कन्धकाष्ठस्य पार्श्वं गच्छति युगपार्श्वगः । 'अन्येष्वपि दृश्यते ' ३ ।२ ।१०१ ॥ इति गमेर्ड: । हलवोढाऽयमित्यर्थः । "दमनाय योजितोऽयम्" [ ] इत्येके । द्वे हलवाहकवृषभस्य ॥१२६० ॥
व्युत्पत्तिरत्नाकरकलिता
1
युगादीनां तु वोढारो युग्य-प्रासङ्ग्य- शार्कटाः
I
१ युगं वहति युग्यः । तद्वहति रथयुगप्रासङ्गम् ' १० ४।४।७६ ॥ इति यत् । एकं धूर्वाहकवृषभस्य । 'झंसरवहई' इति भाषा । १ यत्काष्ठं वृषभानां दमनकाले स्कन्धे आरोप्यते तत्प्रासङ्गस्तं वहतीति प्रासङ्ग्यः । तद्वहति - ४ ४ ७६ ॥ इति यत् । पंजाली वहई जे वृषभ, तस्यैकम् । १ शकटं वहति शाकटः । ‘शकटादण्' ४ ४ ८० ॥ इत्यण । एकं शकटवाहकवृषभस्य ॥ स तु सर्वधुरीणः स्यात् सर्वां वहति यो धुरम्
॥१२६१॥ १ यो वृषभः सर्वां रथादिसम्बन्धिनीं हलादिसम्बन्धिनीं च धुरं वहति स सर्वधुरीणः । 'खः सर्व२० धुरात् ४।४।७८ ॥ इति खः ॥१२६१ ॥
एकधुरीणैकधुरावुभावेकधुरा ।
१ एका चासौ धूश्च एकधुरा । 'ऋक्पूरब्धू:-' ५।४।७४ ॥ इत्यः समासान्तः । तां वहतीति, 'एकधुराल्लुक् च ४ ।४ । ७२ ॥ इति खः, खस्येनादेश एकधुरीणः । २ लुक्पक्षे 'लुक् तद्धितलुकि ' १ ।२ ।४९ ॥ इति टापो निवृत्तौ एकधुरः । ३ एका एकस्य वा धूरेकधुरा । 'ऋक्पू:५।४।७४॥ इत्यः समासान्तः । तां वहतीति एकधुरावहः । 'कर्मण्यण् '३ ।२ ।१ ॥ तत्र । उभावित्युक्तेः त्रयाणामेकार्थदाढ ज्ञेयम् । एवमत्र वामधुरीणः, 'डावि आल' इति ३० भाषा, दक्षिणधुरीणः, 'जीमणी ओल' इति भाषा, उत्तर
Jain Education International
"
५८१
धुरीणः, 'आणि आल' इति भाषा । " " खः - ४ ४ ७८ ॥ इति योगविभागाद् दक्षिणधुरीणः, उत्तरधुरीण: "[ ] इति वृर्त्तिः । एकधुरं वहति एकस्य धुरं वा वहति, तस्य त्रीणि ॥ धुरीण-धुर्य-धौरेय - धौरेयक- धुरन्धराः ॥१२६२॥
For Private
धूर्व
१धुरं वहति धुरीणः । 'खः सर्वधुरात् '४।४। ७८ ॥ इति योगविभागात् खः । २-३ धुरं वहति धुर्यः, धौरेयः । उभयत्र 'धुरो यड्ढकौ ४ ४ ७७ ॥ इति यड्डुकौ । ४ स्वार्थे कनि धौरेयकः । ५ धुरं धरति धुरन्धरः । 'धृञ् धारणे'(भ्वा.उ.अ.), 'संज्ञायां भृतृवृजि - '३ ।२ ।४६ ॥ इत्यादिना खच्, 'वाचंयमपुरन्दरौ च ६ ३ ६९ ॥ इति चकारस्याऽनुक्तसमुच्चयार्थत्वान्नुम् ॥ १२६२ ॥ ६ धुरं वहति धूर्वहः । पचाद्यच् । षट् सामान्येन धौरीति ख्यातस्य ॥
४०
अथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः ।
१ शक्तोऽपि क्षमोऽपि सन् न धूर्वहोऽधूर्वहः दुष्टवृष:, स गलिः उच्यते । गलति भक्षयत्येव न तु धुरं वहति गलिः । ‘गल अदने’(भ्वा.प.से.), 'इन् सर्वधातुभ्यै: '(उणा५५७) इतीन्, हरिशब्दवद् रूपाणि । एकं गलिवृषस्य ॥ स्थौरी पृष्ठ्यः पृष्ठवाह्यः
१. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो- ६३५, पृ. ७२६ ॥ २. द्र. अम. क्षीर. २ ९ ६३ ॥ तयोः ' - ऽयम्' इति न दृश्यते ॥ ३' वृषस्य' इति२ ॥ ४ तुलनीयोऽमरकोषः २ ।९ १६४ ॥
पृ. २१४ ॥ स्वोपज्ञटीका ४ । १२६० ॥ पृ. २८.२ ॥ ५ ' ङ्ग्यम्' इति१.२.४.५ ॥ ६ ' है ' इति३ ॥ ७ 'शा-' इति ॥ ८. 'शा-' इति४.५ ॥ ९ ' या ' इति ॥ १०. ३ प्रतौ नास्ति ॥ ११. " 'खः' इति योगविभागः कर्तव्य इष्टसंग्रहार्थः । उत्तरधुरीणः । दक्षिणधुरीणः ।" इति काशिकावृत्तिः, भा-३, ४ १४ १७८ ॥ पृ. ७७६ ॥ १२. 'एकं' इति१.३ ॥ १३. 'तीति' इति३ ॥ १४. 'कः ' इति ॥ १५. 'ध- इति७ ॥ १६. 'सामान्येन षट्' इति३ ॥ १७. 'धौ -' इति२.५ ॥ १८. तीति' इति४.५ ॥ १९. 'सर्वधातुभ्य इन्' इत्युणादिगणे ॥ २०. 'भस्य' इति३ ॥ २१. 'अपि' इति ४.५ प्रत्योर्नास्ति ॥
२२. 'पोठी-' इति३ ॥
१ स्थूराणां पश्चाज्जङ्घानामिदं स्थौरं बलम्, तद- ५० स्यास्ति स्थौरी । 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनिः । स्थूरी षष्ठस्वरादिरपि । २ पृष्ठे साधुः पृष्ठ्यः । ‘तत्र साधुः ४ १४ ९८ ॥ इति यत् । पृष्टेन वाह्यः पृष्ठवाह्यः । पोठियानामानि त्रीणि ॥
द्विदन् षोडेन् द्वि-षड्-रदौ ॥१२६३ ॥
१ द्वौ दन्तावस्य द्विदन् । 'वयसि दन्तस्य दतृ ' ५ ।४ । १४१ ॥ इति दन्तस्य दत्रादेशः, 'उगिदचाम्- '७ ।१ । ७० ॥ इति नुम् । द्विदन्तौ द्विदन्तः इत्यादि । प्रज्ञादित्वादणि
Personal Use Only
www.jainelibrary.org