________________
११५२-११५९]
१ गर्दति शब्दायते गर्दभः । 'गर्द शब्द ' (भ्वा. प.से.), ‘कृगृशृर्शालगर्दिभ्योऽभच्' (दशपाद्युणा-७।१८ ॥ ) । २ चिरं मेहति चिरमेही । 'मिह सेचने ' (भ्वा.प.अ.), ग्रहादित्वाणिनिः । ३ वाडते आप्लवते वालेयः । 'वाड़ आप्लाव्यें' (भ्वा.आ.से.), बाहुलकादेयः । बालेभ्यो हित इति वा । तस्मै हितम् २ ।१ ।५ ॥ इति छः । ४ रासते रासभः, दन्त्यमध्यः । 'रासृ शब्दे ' ( भ्वा.आ.से.), 'रासिवल्लिभ्यां च ' ( उणा - ४०५ ) इत्यभच् । ५ खं कण्ठबिलं महदस्याsस्ति खरः । 'खनखमुखं- ' (वा - ५ ।२।१०७ ॥ ) १० इति रः । ६ चक्रं मण्डलं मेहनान्तेऽस्य चक्रीवान् । 'चर्मण्(आसन्दी) वदष्ठीवच्चक्रीवत्- '८ २ ११२ ॥ इति मतुपि साधुः । चक्रीवन्तौ इत्यादि । ७ शङ्क्वाकृती कर्णावस्य शङ्कुकर्णः । सप्त रासभस्य
॥ गवाधिकारः ॥
व्युत्पत्तिरत्नाकरकलिता
॥
अथ ऋषभो वृषभो वृषः
॥१२५६॥
।
वाडवेयः सौरभेयो भद्रः शकर - शा उक्षाऽनड्वान् ककुद्मान् गौर्बलीवर्दश्च शाङ्करः
14
॥१२५७॥
१ ऋषति गच्छति ऋषभः । 'ऋषी गतौ' २० (तु.प.से.), सप्तमस्वरादिः । 'ऋषिवृषिभ्यां कित्' (उणा४०३) इत्यभच् । २ वर्षति वृषभः । 'वृषि (वृषु) सेचने ' (भ्वा.प.से.), 'ऋषिवृषिभ्यां कित्' (उणा - ४०३) इत्यभच्, उभयत्र बाहुलकाद् गुणाभावः । ३ वर्षति वृषः । 'इगुपध- '३।१।१३५ ॥ इति कः ॥१२५६ ॥ ४ वडवाया वृषो वाडवेयः । 'वाडवेयो वृषे' (हैमसू- ६ ।१ । ८५ ॥ इति ढक् । ५ सुरभेर्धेनोरपत्यं सौरभेयः । इतश्चानिञः '४ । १ । १२२ ॥ इति ढक् । ६ भन्दति ( भन्दते) कल्याणं करोति भद्रः । 'भदि कल्याणे [सुखे च] ' (भ्वा.आ.से.), 'स्फायि-' ( उणा- १७० ) इति रक् । ७ शक्नोति वोढुं ३० शक्वरः । ' तीवर धीवर - ' ( है मोणा- ४४४) इति वरप्रत्यये साधुः । ८ प्रज्ञादित्वादणि शाक्वरः । ९ उक्षति सिञ्चति मूत्रेण भुवम् उक्षा । 'उक्ष सेचने ' ( भ्वा.प.से.), 'श्वत्रुक्षन् - ' ( उणा - १५७) इति साधुः । उक्षाणौ, उक्षाणः
Jain Education International
५७९
इत्यादि । १० अनः शकटं वहति अनड्वान् । 'अनसि वहेः क्विबनसो डश्च' ( दशपाद्युणा-९ । १०७ ॥ ) इति, वहेः सम्प्रसारणं च 'चतुरनडुहोरामुदात्तः ७ ।१ ।९८ ॥, 'सावनडुहः ७ । २ । ८२ ॥ इति नुम् । ११ ककुदस्याऽस्ति ककुद्मान् । 'तदस्याऽस्ति - ५ ।२ ।९४ ॥ इति मतुप् । १२ गच्छति गौः । 'गमेर्डी : ' (उणा - २२५) इति डो:, पुंस्त्रीलिङ्गः । १३ बलं वर्धयति बलीवर्द: । वृधु वृद्धौ' (भ्वा. आ. ४० से.), पृषोदरादिः । १४ शङ्करस्याऽयं शाङ्करः । सामान्येन चतुर्दश वृषभस्य ॥१२५७ ॥ अथ तद्विशेषानाह
उक्षा तु जातो जातोक्षः
१ जातो वहनयोग्य उत्पन्न उक्षा बलीवर्दः, उत्पन्नो भ्रष्टदम्यभावः स्पृष्टबलीवर्दभावो जातोक्षः । 'अचतुरविचतुर - '५ ।४ ।७७ ॥ इति साधुः, रामशब्दवद् रूपाणि । एकं वहनार्हवृषभस्य ॥
स्कन्धिकः स्कन्धंवाहकः ।
१ प्रशस्यः स्कन्धोऽस्य स्कन्धिकः । 'अत इनि- ५० नौ ५ २ ११५ ॥ इति ठन् । २ स्कन्धेन वहति स्कन्धवाहकः । ण्वुल् । यस्य थंभी स्यादथवा स्कन्धेन वहति, तस्य द्वे । 'खांधियुं" इति भाषा ॥ महोक्षः स्यादुक्षतरः
१ महांश्चासावुक्षा च महोक्षः । 'अचतुरविचतुर -' ५४ १७७ ॥ इति साधुः । २ हस्व उक्षा उक्षतरः । 'वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे'५।३।९ ॥ इति ष्टरच् । द्वे महावृषभस्य ॥ ॥१२५८ ।।
वृद्धौक्षस्तु जरद्गवैः
१ वृद्धश्चासावुक्षा च वृद्धोक्षः । 'अचतुर- '५ १४ । ७७॥ इति सूत्रेण साधुः । २ जरन् वृद्धश्चाऽसौ गौश्च जरद् - ६० गवः | द्वे जरद्वृषभस्य ॥१२५८ ॥
षण्ढतोचित आर्षभ्यः
१ षण्ढतायामण्डाकर्षणे योग्यो वत्सो, ऋषभस्प प्रतिकृतिः आर्षभ्यः । 'ऋषभोपानहो : '५ । १ । १४ ॥ इति विकृति [ वाचि]न ऋषभशब्दाद् विकृत्यर्थायां प्रकृतौ
१. 'नर्द गर्द शब्दे' इति क्षीरतरङ्गिण्यादयः ॥ २. 'ते' इति ॥ ३. 'आप्लवे' इति३ ॥ ४ 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' इति वार्तिकम् ॥
५. १.२.३.५ प्रतिषु नास्ति ॥ ६. 'पी-' इति३. ४.५ ॥ ७ ते' इति३ ॥ ८. 'उत्पल' इति४. ५ ॥ ९. सृ' इति१, 'स्प-' इति३ ॥ १०. 'स्य- ' इति३ ॥ ११. ' - उं' इति१, 'युं' इति२ ॥ १२. तुलनीयोऽमरकोषः २ ।९ । ६१ ।। १३. 'वृ-' इति३ ॥ १४. 'प्रकृ-' इति१ ॥
For Private Personal Use Only
www.jainelibrary.org