________________
१२०८-१२१२]
44
इति पादस्याऽन्तलोपो ङीष् च । त्रीणि कार्नसीयालीति ख्यातायाः । अत्र हि सूत्रे मूलटीकायां च पाठविपर्यासो लेखकदोषात् सम्भाव्यते, स च पाठो न शिष्टसम्मतः, यतः कर्णजलौकायास्त्रीन्द्रियत्वसद्भावात् प्रज्ञापनादिभिः सह विरोधात्, तथा च प्रज्ञापनासूत्रप्रथमपदंत्रीन्द्रियाधिकारः 'गोमी (गोम्ही ) हत्थिसोंडा "[ श्रीप्रज्ञापनोपाङ्गम्, त्रीन्द्रियप्रज्ञापना, सू- २८ ] इत्यादि, "गोमी (गोम्ही ) कर्णशृङ्गालिका, जे यावणे तहप्पगारा, ये चाऽपि चान्ये तथा प्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेष: "[ श्रीमलय१० गिर्याचार्यविरचितववरणम्, पृ. ४२ ] इति तद्वृतिः ॥ वृश्चिको द्रुण आल्यालि:
व्युत्पत्तिरत्नाकरकलिता
१ वृश्चतीति वृश्चिकः । [ओ]व्रश्श्रूं छेदने' (तु. प.से.), 'पापुलि ' (हैमोणा - ४१ ) इति किदिकः, पुंस्त्रीलिङ्गोऽयम् । २ द्रुणति द्रुणः । 'द्रुण हिंसायाम् ' (तु.प.से.), 'इगुपध- '३ ।१ ।१३५ ॥ इति कः । द्रुतोऽपि । ३ आलमनार्थोऽऽत्राऽस्ति आली। 'अत इनिठनौ १५ ।२ ।११५ ॥ इतीनिः । " आलं स्यादर्थहरितालयोः "[ अनेकार्थसङ्ग्रहः, २ ।४६३ ॥ ] इत्यनेकार्थः । ४ अलति आलिः । 'अलञ् भूषणादौ ' (भ्वा. प.से.), ‘कृशृकुटिं-'(हैमोणा - ६१९) इति णिदिः । आली, २० आलयः इत्यादि हरिवत् । त्रीणि वृश्चिकस्य ॥
अलं तत्पुच्छकण्टकः ॥१२११॥ १ अलति अलम् । पचाद्यच् । तस्य वृश्चिकस्य पुच्छकण्टकस्तत्पुच्छकण्टकः । एकं वृश्चिककण्टकस्यै
॥१२११ ॥
भ्रमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः इन्दिन्दिरोऽली रोलम्बो द्विरेफः
१ प्रतिपुष्पं भ्रमतीति भ्रमरः । ' भ्रमु चलने ' (भ्वा. प.से.), वासरवदरन्प्रत्ययः । भ्रमन् रौतीति पृषोदरादिर्वा । २ मधुकरो मधुकृत् । क्विपि, 'हस्वस्य - '६।११७१ ॥ ३० इति तुक् । अत्र मधुशब्दो भ्रमरैः कृतस्य मधुनः पर्यायः ।
यद्वाचस्पति:
Jain Education International
५६१
" पौत्तिकं भ्रामरं२ क्षौद्रं३ दालौ ४द्दालक५ माक्षिकम्६ । अर्घ्यं७ छात्रक८मित्यष्टौ जातयोऽस्य पृथग्गुणः ॥ १ ॥ तत्र पौत्तिमुत्तप्तघृताभं विषकीटजं१ । भ्रामरं तु भ्रमरजं पाण्डुरं गुरुशीतलम् २ ॥२॥ [ क्षौद्रं तु कपिलं दाहि क्षुद्रानीतं मलावहम् । लालं तु दलजं सेव्यं दुर्लभं रूक्षवालकम् ॥३॥ उद्दालकं तु शालाकं विषजिद् मधुराम्लकम् । माक्षिकं तु मधु ज्येष्ठं विरूक्षं तैलवर्णकम् ॥४॥ अर्घ्यं तु पूज्यमापाण्डु मनाक् तिक्तं सवालकम् । छात्रं त्वेकान्तमधुरं सर्वार्घ्यं राजसेवितम् ॥५॥]" ["] इति । मधुकरोऽपि नाम्नि । ३ द्वौ रेफौ बिभर्त्ति भृङ्गः । [ यद्वा ] भृञः (बिभर्त्ति ) मधु । 'शृङ्गाङ्गभृङ्गाः ' ( चान्द्रोणा - २।२० ॥ ) इति भृञो गन् नुट् च । ४ चञ्चति, चञ्चर्यते वा चञ्चरीकः । शृ (सृ) णीक- ' (हैमोणा-५०) इतीके निपात्यते । ५ शिली शल्यं मुखेऽस्य शिलीमुखः । शिलीव मुखमस्येति वा । ६ इन्दति कुसुमैः इन्दिन्दिरः । इदि परमैश्वर्ये' (भ्वा.प.से.), 'स्थविर' (हैमोणा४१७ ) इतीरे निपात्यते । ७ अलति अलिः । ‘अलं भूषणादौ ' (भ्वा.प.से.), 'इन् सर्वधातुभ्यः ' ( उणा-५५७) ५० इतीन्, हरिशब्दवत् । " मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदमलौल्यमुपाददे "[ शिशुपालवधम्, सर्गः - ६, लो - २३] इति माघः । व्यञ्जनान्तोऽयम्, तत्र अलति भूषयति पुष्पमिति अली । 'अलं भूषणादौ ' (भ्वा. प.से.), बाहुलकात् 'पथिमथिभ्यामिन् (-मिनिः) '(चान्द्रोणा३ १८४) इतीन् ( इतीनिः) । अलिनौ अलिनः इत्यादि । " मलिनिमालिनि माधवयोषिताम्''[ शिशुपालवधम्, सर्गः -६, श्री - ४] इति माघः । ८ रुवन् लम्बते रोलम्बः । 'लबि अविस्रंसने [च]'(भ्वा.आ.से.), पृषोदरादिः । ९ द्वौ रेफौ 'भ्रमर' इति नाम्नि अस्य द्विरेफः । एते पुंस्त्रीलिङ्गाः । ६० भसलो देश्याम्, संस्कृतेऽपि । नव द्विरेफस्य ॥
अस्य षडंह्रयः ॥१२१२॥
१ अस्य भ्रमरस्य षड् अंह्रयश्चरणाः, ततः षडंहिः, षट् पदः, षट्चरण इत्यादि सिद्धम् ॥१२१२॥
३. इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥ ४
१. ङीष' इति१. ३.५ ॥ २. -सिलाया इति३, सिलायीति' इति५ ॥ प्रथमपद' इति१.२ विना ॥ ५. ' तृतीया ' इति३ ॥ ६. 'गा-' इति४.५ ॥ ७ - शृगा-' इति४ ॥ ८. 'वन्ने' इति४ ॥ ९. 'वृत्तिः' इति३ ॥, "गोम्ही कर्मसियालिया, 'ये यावत्रे तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः" इति विवरणे दृश्यते, पृ. ४२ ॥ १०. ' - श्रूञ्' इति१ ॥ ११. 'हिंसागतिकौटिल्येषु' इति क्षीरतरङ्गिण्यादयः ॥ १२. -हर-' इति५ ॥ १३. 'सर्वधातुभ्य इन्' (उणा- ५५७ ) इत्यनेनाऽपि सिद्धिर्भवत्येव ॥ १४. कण्टस्य' इति ॥ १५. 'तीति' इति१ ॥ १६. द्र. स्वोपज्ञटीका ४ । १२१४ ॥ पृ. २७२ ॥ १७. 'भृञः किन्नुट् च ' ( उणा - १२२ ) इति पाणिनीयसम्मतोणादिगणं ॥ १८. 'अल' इति स्वामी, 'अलं' इति मैत्रेयः, 'अल' इति सायणः ॥ १९. 'रुदन्' इति३ ॥ २०. 'भसदलो' इति२ ॥
For Private Personal Use Only
४०
www.jainelibrary.org