________________
११६८-११७२ ]
मङ्गल्यको मसूरः स्यात्
१ मङ्गले साधुः । तत्र साधुः ४२४९८ ॥ इति यत् ततः स्वार्थे कन् मङ्गल्यकः । अहविष्यत्वादमङ्गल्यत्वेऽपि मङ्गलवत् मङ्गल्यकः । २ मस्यति परिणमते मसूरः पुंक्लीवलिङ्गः मसी परिणामे (दि.प.से.), 'खर्जिपिञ्जादिभ्य कैरोलची ' ( उणा ५३० ) इत्यूर : मसूरो दीर्घमध्यः । ह्रस्वमध्यश्च । 'मसेरुरन् ' ( उणा - ६८१ ) इत्युरं । "वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मेसूरमसुरा पुंसि द्वावेतावपि चैतयोः ॥१॥" १०] [] इति रभसः । मसूरनाम्नी द्वे ॥
।
।
कलायस्तु सतीनकः ॥ ११७० ॥ हरेणुः खण्डिकश्च
4
१ कं वातं लाति । 'आत:- '३ ।२।३ ॥ इति कः, 'आतः - '७।३।३३ ॥ इति युक् कलायः । कलामतीसारमयते वा । २ सीदन्त्यनेन सतीनकः । पृषोदरादिः । "सातीनकक्ष" इति माधवी "सन् जीवी, वातप्रकोपकत्वात् सति इनः सतीनो वायुः । संज्ञायां समासः, 'हलदन्तात् ६ ३ १९ ॥ इति सप्तम्यलुक्। सतीनो वायुस्तं कायति बोधयति सतीनक: "[]इति व्याख्यामृतम् ॥११२० ७० ॥ ३ हरति चेतो हरेणुः 'हृञ् हरणे ' ( भ्वा. उ. अ.), 'कृहभ्यामेणुः '(उणा-१५८) इति एणुः पुलि ४ खण्डनं खण्डो विदारणम् । 'खडि विदारणे' (ध्वा.आ.से.), 'खांड भेदे ' ( चु.उ.से.) वा, घञ्, तद्योगात् उनि खण्डिकैः । "कलायस्त्रिकटः प्रोक्तः सतीनो वर्तुलो मतः । हरेणुरङ्कटो ज्ञेय "[]इर्ति व्याडि: । "हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनकः "[ ]इति रभसाद् हरेणुः पुंसि " ["] इति मिश्राः । त्रीणि कलायस्य । 'तिउडा' इत्यादिभाषा ॥ अथ चर्णको हरिमन्थकः ।
१६
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
५४३
१ चण्यते अश्वादिभ्यो दीयते चणकः | 'चण दाने ' (भ्वा.प.से.), ' -शिल्पिसंज्ञयो: - ' ( उणा - १९० ) इति ३० क्वुन्। २ हरिभिरश्वैर्मध्यते हरिमन्धः । 'मन्थ विलोडने ' ( क्या.प.से.), कर्मणि घञ्, स्वार्थे कनि हरिमन्थकः । "हरयोऽश्वास्तेषां मन्यो विलोडनं जनयतीति । अन्येष्वपि '३ ।२ ।१०१ ॥ इति इप्रत्ययै हरिमन्थन इति चवर्गतृतीयोपधोऽयम् "[ ] इति मिश्राः । चैणानाम्नी द्वे ॥ मोषस्तु मदनो नन्दी वृष्यो बीजवरो बली
।
॥ ११७१ ॥ १ मीयते माषः, पुंक्लीबलिङ्गः । मा माने' (अ.प.अ.), सप्रत्ययः, सुषामादित्वात् षत्वम् । २ मदयति मदनः । मदी हर्षे (दि.प.से.), णिजन्तः, नन्द्या- ४० दिवाल्ल्युः । ३ नन्दयत्यवश्यं नन्दी 'टुनर्दि समृद्धी' (भ्वा.प.से.), आवश्यके णिनिः । नैन्दिनावित्यादि । ४ वृषाय मैथुनाय हितो वृष्यः खलयवमाषतिलवृष- ' ५ । १ ७ ॥ इति यत् । वृष्यते तैलादिनेति वा । 'वृषु सेचने ' (ध्वा.प.से.), 'विभाषा कृवृषोः '३१ ॥ १२० ॥ इति क्यप् । ५ बीजेषु वरो बीजवर: । बीजं शुक्रं वृणोतीति वा । 'वृ वरणे' (स्वा.उ.से.), पचाद्यच् । ६ बरं रेतोऽस्त्यत्रेति बरी । 'अत इनिठनौ ५ ।२ ।११५ ॥ इतीनि:, रलयोरैक्ये बली । षड् माषस्य, 'उडदै' इति भाषा ॥ ११७१ ॥ मुद्रस्तु प्रथनो लोभ्यो बलाटो हरितो हरिः ।
२५
९ मोदतेऽनेनेति मुद्रः । 'मुद हर्षे' (ध्वा.आ.से.), 'गन् गम्यादेः (गम्यद्योः) (उणा १२० ) इति गन् । २ प्रथ प्रथनः । 'प्रथ विस्तारें' (भ्वा.आ.से.), नन्द्यादित्वाल्ल्युः । ३ लुभ्यति लोभ्यः । 'लुभ लोर्भे (दि.प.से.), 'ऋहलोर्ण्यत् ' ३ । १ । १२४ ॥ । ४ बलमटति बलाटः । 'अट गतौ'
१. 'पुंक्ली. ' इति३.४ ॥ २. स्वामिसम्मतोऽयं धात्वर्थ:, 'मसी प्रमाणे' इति मैत्रेयः, 'मसी परिमाणे' इति सायणः ॥ ३. ' ऊरु-' इति३ ॥ ४ वस्तुतस्त्वत्र प्रमादो दृश्यते, उणादिगणे 'मसेरूरन्' (उणा ६८१ ) इत्यनेन दीर्घादेरूरन्प्रत्ययस्य विधानत्वात् ॥ ५ 'मा-' इति४.५ ॥ ६. द्र. पदचन्द्रिका, भा २, वैश्यवर्गः, श्रो- ५९०, पृ.६७० ॥, रामाश्रमी २ ।९ १७ ॥ पृ. ४०४ ॥ ७ ञित्त्वणित्त्वाभावाद् युगागमो विचारणीयः ॥ ८ 'स' इति३ ॥ ९ द्र. पदचन्द्रिका, भां-२, वैश्यवर्गः, श्रो-५८९, पृ. ६७९ ॥ १०. १ प्रतौ नास्ति ॥ ११. 'खडि मन्थे' इति भ्वादौ क्षीरतरङ्गिण्यादयः ॥ १२. 'खड खडि भेदे' इति स्वामी, 'खड खडि कडि भेदने' इति मैत्रेयसायणौ ॥ १३. ण्डकः' इति३.५ ॥ १४. 'ज्ञेया' इति५ ॥ १५. द्र टीकासर्वस्वम्, भा-३, २९ । १६ ॥ पृ. १६३ ॥ तत्र - " हरेणुरङ्कटा ज्ञेया' इति दृश्यते, पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री- ५८९, पृ. ६७० ॥ रामाश्रमी २ ।९ । १६ ॥ पृ. ४०४ ।। पृ४०४ ।। १७. 'इति भाषा' इति३ ॥ १८. ' - यः' 'टुणदि' इति२.३.४.५ ॥ २३. 'नन्द-' इति५ ॥ २४ 'वृञ्' इति ॥ २५. 'उटुद' इति२ ॥ २६. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादयः ॥ २७. ' - ते' इति१.२ ॥ २८. 'लुभ गायें' इति क्षीरतरङ्गिण्यादयः ॥
॥
१६. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-५८९, पृ. ६७० इति४ ॥ १९. 'चि-' इति३.४ ॥ २०. 'पुंक्ली. ' इति३.४ ॥ २१.
रामाश्रमी २ ।९ ॥ १६ ॥ 'ये' इति१ ॥ २२.
For Private & Personal Use Only
"
५०
www.jainelibrary.org