________________
१०
५४२
अभिधानचिन्तामणिनाममाला
ऽन्यलिङ्गवान्''[]इति रुद्रः " तृणबीजे तु श्यामाको व्रीहिराशु चं पाटल: "[ ]इति पर्याये क्लीबलिङ्गमाशु । तथानेकार्थेषु “आशु स्याद् ब्रीहिशीघ्रयो: "[]इति रत्नमालामाध वेन क्लीबं पठितम् । "पाटलो व्रीहिराशु च " [] इति तन्त्रा - न्तरं च । २ पाटलवर्णयोगात् पाटलः । ३ बर्हति उपचयं गच्छति व्रीहिः । 'वृहि वृद्धौ ' (भ्वा.प.से.), 'इगुपधात् कित्' (उणा - ५५९) इतीन् निरुक्तो व्रीभावश्च सामान्यतो ग्रीहिनामानि आशुरित्यादीनि त्रीणि । 'चोखा' इति भाषा ॥ षष्टिकादिधान्यविशेषनामान्यमूनि तान्येव स्पष्टयतिगर्भपाकी तु षष्टिक: ।। ११६८ ।।
९ गर्भे पच्यते स्वयमेवेत्येवंशीलो गर्भपाकी । णिनिं न्यक्वादित्वात् कुत्वम् । गर्भपाकिणी, गर्भपाकिणः इत्यादि । २ षष्टिरात्रेण पच्यत इति षष्टिकः, आद्यस्वरादिः । `यवयवकषष्टिकाद् यत् '५ ॥२ ॥३ ॥ इति निर्देशात् साधुः । स्थलजोऽयम् । साठीचोखानाम्नी हैं ॥११६८ ॥ शालयः कलमाद्याः स्युः
"
१ शन्ति शालयः पुंलिङ्गः 'शल गत" (भ्वा. प.से.), 'कमिवमि- ' (हैमोणा - ६१८ ) इति णिदिः । कलम आद्यो येषां ते कलमाद्याः शालय उच्यन्ते । " शालिस्तु २० गन्धमार्जारे कमलमादिषु च स्मृतः " [विश्वप्रकाशकोशः, लान्तवर्गः श्रो ४९ ] इति महेश्वरः ॥
तान् स्पष्टयन्नाह
कलमस्तु कलामकः ।
१ कति माद्यत्यनेनेति कलमः 'कड मदे' (भ्वा.
[ तिर्यक्काण्ड ४, वनस्पतिकाय:
प.से.), 'कर्दिकडोरमः ' ( ) इत्यमः । २ कलां कला(ल)नाममर्त कलामकः । ण्वुल् । कलमशालिनाम्नी द्वे ॥ लोहितो रक्तशालिः स्यात्
Jain Education International
१ लोहितः वर्णेन [ रक्तशालिनामैकम् ] ॥ महाशालिः सुगन्धिकः ||११६९ ॥
१ महाश्चासौ शालिश्च महाशालिः । २ शोभनो ३० गनधोऽस्य सुगन्धिः । 'गन्धस्येदुत्पूतिसुसुरभिभ्य: '५ ।४ । १३५ ॥ इतीन् के सुगन्धिकः । स्वार्थिककाभावे सुगन्धिः, तृतीयस्वरान्तोऽपि गिरिशब्दवद् रूपैः [ज्ञेयः ] । राजशालिरपि 'रॉयभोग' अथवा 'देवजीर' इत्यादिभाषा । एते कलमाद्या जलजा: 'चावल' इति प्रसिद्धस्य जातयः । यदमर:"शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी "[ अमरकोषः २ । ९ । २४ ॥ ] इति । तथा च क्षीरस्वामी "कलमाद्याः, इहादिशब्दाद् राजशाल्याद्या: जलजाः, षष्टिकाद्याः, इहादिशब्दात् कट्फलाद्यै (कक्कोलाद्याः) स्थलर्जी: "[ अम. क्षीर २ । ९ । २४ ॥ ] इति । महाशालिनाम्नी द्वे ॥१९१६९ ॥
2
वो हर्यप्रियस्तीक्ष्णशुकः
२२
१ यौतीति यवः । 'यु मिश्रणे ' ( अ.प.से.), पचादित्वादच् । २ हयानां प्रियः हयप्रियः । ३ तीक्ष्णः शूकः
२३
"किंशारुरस्य तीक्ष्णशूकः
। यवनामानि त्रीणि ॥
-
तोक्मस्त्वसौ हरित् ।
२४
१ असौ यवः हरिनीलः, तुज्यत इति तोक्मः, कवर्गाद्यपञ्चमवर्गपञ्चमान्तः । तुजि हिंसार्थ: (भ्वा.प.से.), बाहुलकान्मन्, गुणे कुत्वे च । " तुज्यते' तोकम:' [अम.क्षीर. २ ।९ | १६ ॥ ] इति स्वामी । नीलायवनामैकम् ॥
२६
4
१. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-५८८, पृ.६६८ ॥ तत्र- " पाटलो ना" इति दृश्यते ॥ २. ' जं' इतिर, 'जेषु श्या-' इति३ ॥ ३. इतोऽग्रे ३.५ प्रत्योः " इति तन्त्रान्तरं च पाटलवर्णयोगात् पाटला, बर्हति उपचयं गच्छति, 'वृहि वृद्धौ " इति पाठो दृश्यते ॥ ४ द्र. पदचन्द्रिका, भा-२, वैश्यवर्ग:, श्रो- ५८८, पृ. ६६९ ॥, रामाश्रमी २ ।९।१५ ॥ पृ. ४०४ ॥ ५ ' -लां' इति, 'लायां' इति२ ॥ ६ २.३. ४प्रतिषु नास्ति ॥ ७ 'धत्वात्' इति१.२.४.५ ॥ ८. काः' इति५ ।। ९. 'णिनिः' इति३ ॥ १० १.२.४.५ प्रतिषु नास्ति ॥ ११. ति' इति४ ॥ १२. 'शल गतौ' इति १.२.५ प्रतिषु नास्ति, 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥ १३. र:' इति५ ।। १४. 'कलति' इति३, 'कच्छति' इति५, अत्र डलयोरैक्यं बोध्यम् ॥ १५. 'कलामकति' इति३ ॥ १६. सर्वादर्शेष्वितोऽग्रे श्रोकस्याऽर्धचरणं दृश्यते, तस्य विभागं कृत्वा स्वोपज्ञटीकासम्म तपाठानुरोधेन स्थापितोऽत्राऽस्माभिः ॥ १७. 'च' इति ४प्रतौ न दृश्यते ॥ १८. 'राज-' इति३ ॥ १९. 'कलमाद्याः' इति१ ॥ २०. स्वामिकृतामरकोषटीकायाम्- "शाल्यते शालिः । कल्यते कलमः । आद्यशब्दाद् राजशाल्याद्या जलजाः । षष्टिकाः षष्टिरात्रेण पच्यन्ते । आद्यशब्दात् कक्कोलाद्याः स्थलजाः । अमी इति पुंलिङ्गनिर्देशान्माषाद्याः शाल्यन्ताः पुंसि" इति दृश्यते, २।९।२४ ॥ पृ. २०५ ॥ तथा त्रिवेन्द्रसंस्करणे 'आद्य-' इत्यस्य, 'कक्कोलाद्याः' इत्यस्य च स्थाने क्रमेण 'आदि-' इति, 'कजटाद्या:' इति च दृश्यते, भा-३, २१९ १२४ ॥ पृ.१७० ॥ २१. पचाद्यच्' इति३.४ ॥ २२. 'किंसा-' इति३ ॥ २३. 'यवा-' इति१ ।। २४. 'तुक्य-' इति४ ॥ २५. इतोऽग्रे ५ प्रतौ 'इति' इति दृश्यते ॥ २६. 'नः' इति १ २ ॥, " तुज्यते तोक्मः, तुजिहिंसार्थ: " इति अम.क्षीरस्वामिटीकायाम् २।९।१६ ॥ पृ. २०३ ॥
For Private & Personal Use Only
"
४०
www.jainelibrary.org