________________
१९५३ - ११५८ ]
१ कृष्णं प्रान्तं लाति कृष्णला । २ गुञ्जति शिब्यां गुञ्जा । 'गुजि [ अव्यक्ते] शब्द ' (भ्वा.प.से.), पचाद्यचि टाप् । चिणोठीलिनाम्नी द्वे ॥
द्राक्षा
गोतनी
तु
व्युत्पत्तिरत्नाकरकलिता
॥११५५॥
मृद्वीका हारहूराच
१ द्राक्ष्यते काङ्क्ष्यते द्राक्षा | 'द्राक्ष प्राक्षि ध्वाक्षिं घोरवासिते च' (भ्वा.प.से.), चात् काङ्क्षायाम्, कर्मणि घञ्, द्राक्षाशब्दस्याऽनुनासिकलोपो यवादिपाठात् । रस्यते द्राक्षा, पृषोदरादिर्वा । द्राक् क्षरर्ति क्षीयते क्षति १० क्षिणोति वा, "डप्रत्यये साधुः । २ गोस्त नाकारत्वात् गोस्तनी ॥ ११५५ ॥ २ मृद्यते मृद्वीका । मृद क्षोदे ' (क्र्या.प.से.), 'मृदेर्वोऽन्तश्च' (हैमोणा - ४९ ) इति किदीकः । ३ हरति पित्तं हारहूरा, पृषोदरादिः । चत्वारि द्राक्षायाः ॥ गोक्षुरस्तु त्रिकण्टकः
1
श्वदंष्ट्रा स्थलशृङ्गाटः
१ गाः क्षु व्यथ" गोक्षुरः । 'क्षुरं छेदनें' (तु. प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥ । २ त्रयः कण्टका अस्य त्रिकण्टकः । 'उरःप्रभृतिभ्यः कप् '५ ।४ । १५१ । । ३ शुनो दंष्ट्रे श्वदंष्ट्रा संज्ञाशब्दत्वात् । 'शुनो दन्तदंष्ट्रा-' ( वा२० इत्यादिना दीर्घः । ४ स्थस्य शृङ्गाट इव स्थलशृङ्गाटः । गोखरूनामानि चत्वारि ॥
>
Jain Education International
गिरिकर्ण्यपराजिता ॥११५६॥
१ गिरिरश्मेव कर्णोऽस्य गिरिकर्णी । गिरिवरमूषिका, तत्कर्णतुल्यपत्त्रात्मकः पर्णोऽस्या वा | 'पाक कर्ण - ४।१।६४ ॥ इत्यादिना ङीष् । २ न पराजिता अपराजिता । गिरिणईनाम्नी द्वे ॥११५६ ॥
व्याघ्री निदिग्धिक कण्टकारिका स्यात्
५३५
१ व्याजिघ्रति उपसर्गबलाद् हिनस्ति कण्टकितत्वात् व्याघ्री । 'घ्रा गन्धोपादाने ' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः ३ ।२।३ ॥, गौरादिः । २ गुणैः कण्टकैर्वा ३० निदिह्यते स्म उपचिता निदिग्धा । 'दिह उपचये' (अ. उ. अ.), निष्ठा, स्वार्थे कनि, 'प्रत्ययस्थात्- '७ । ३ ।४४ ॥ इतीत्वे "निदिग्धिका । ३ कण्टकानियर्त्ति कण्टकारी । कर्मण्यणि, 'टिड्ढाणञ्- '४ । १ । १५ ॥ इति ङीष् ( ङीप् ), ततः कनि, ‘केऽणः '७।४।१३ ॥ इति ह्रस्वत्वे कण्टकारिका । रींगणीनामानि त्रीणि ॥
अमृत ।
वत्सादनी गुडूची च
३ ४०
१ नास्ति मृतं मरणमस्या अमृता, छिन्नप्ररोहित्वात् । २ वत्सैरद्यते वत्सादनी । कर्मणि ल्युट् । गुडति रक्षति रोगादिर्ति गुडूची । 'गुड रक्षणे (तु.प.से.), 'गुडेरू[ट]च् (गुडेरुटच्) ' (हैमोणा - १२० ) इत्यूच् । "गिलोनामानि त्रीणि ॥
विशाला त्चिन्द्रवारिणीं ॥११५७॥
१ विशाला महाफलत्वात् । २ इन्द्रवदक्षिभिवृणोति इन्द्रवारिणी, तृतीयस्वरमध्यः । 'वृञ् वरणे'(स्वा. उ.से.), ग्रहादित्वाणिनिः, 'ऋन्नेभ्यो ङीप् ' ४ । १ १५ ।। । द्वे इन्द्रवारिण्याः ॥११५७॥
उशीरं वीरणीमूले
१ उश्यते उशीरम्, पुंक्ली. । 'वश कान्तौ' ५० ( अ.प.से.), 'वशेः कित् ' ( उणा - ४७१ ) इतीरन् औणादिकः, कित्त्वात् सम्प्रसारणम् । २ वीरणी तृणविशेषः, तस्या मूलं वीरणीमूलम्, तत्र । उशीरनाम्नी द्वे । वीरणजटेत्यर्थः । यदमरः- “मूलेऽस्योशीरमस्त्रियाम् "[ अमर कोषः २ ।४ । १६४ ॥ ] | अभयमपि यद्धन्वन्तरि:
५
१. 'कृष्ण' इति३ ॥ २. 'अव्यक्तशब्दे' इति मैत्रेयः ॥ ३ 'द्राक्ष्यन्ते काक्ष्यते' इति ॥ ४ ३प्रतौ नास्ति ॥ च । ध्वाक्षि चेति दुर्ग:' इति क्षीरतरङ्गिणी, पृ. ९८ ॥, ' द्राक्षि श्राक्षि ध्वाक्षि घोरवासिते च' इति मैत्रेयसायणौ ॥ 'ङ-' इति४ ॥ ८ 'गोः स्त-' इति१.२.४ ॥ ९ 'मृदेविति - ' इति३ ॥ १०. ' क्षरति' इति३. ४.५ ॥ ११. १ प्रतौ १३. 'छुर क्षुर छेदने' इति३.५ ॥ 'क्षुर खुर विलेखने' इति स्वामी, 'क्षुर विलेखने' इति मैत्रेयसायणौ ॥ ' -र्णेस्या' इति४.५ ॥ १६. 'निर्दि-' इति३, मुद्रितमूले स्वोपज्ञटीकायां च 'निर्दिग्धिका' इति दृश्यते ॥ नास्ति ॥ १९. 'रक्षायाम्' इति क्षीरतरङ्गिण्यादयः ॥ २०. 'गिलोइ -' इति३, 'गिलोय -' इति४ ॥ २१. इति३, ' - रुण्यः' इति४ ॥ २३. 'वारु-' इति५ ।। २४ ' क्लीबं' इति४ ॥ २५. 'वीरणी-' इति५ ॥
१७
द्राक्षि प्राक्षि घोरनिवाशिते ६. क्षारति' इति३.४ ॥ ७. नास्ति ॥ १२. 'हुर' इति४ ॥
१४ 'गोखरु-' इति ॥ १५. ' निर्दि-' इति३ ॥ १८ ४प्रतौ ' -रुणी' इतिर. ४ ॥ २६. 'उभ-' इति३.५ ॥
२२. ' - रुण्याः '
For Private Personal Use Only
www.jainelibrary.org