________________
५२४
७।१।६३ ॥ इति नुम् । रमतेऽस्यां वा । 'रमु क्रीडायाम्' (अ.आ.अ.) बाहुलकाद् दृदलिभ्यां भ: ( उणा-४३१) इति भ 1 २ त्वचं मुञ्चति मोचा । 'मुच्लु मोक्षणे' (तु.उ.अ.), पचाद्यच् । ३ केन वायुना दल्यत इति कदली दल विशरणे (ध्वा.प.से.), 'पञर्थे कः ' ( वा३।३।५८॥), गौरादिः । कद्यते वा । 'कद स्थैर्ये' ( ), वृषादित्वात् कलच्, गौरादिः । त्रीणि कदल्याः ॥११३६॥ करवीरो हयमारः
अभिधानचिन्तामणिनाममाला
१ कृणोति हिनस्ति करः । कृञ् हिंसायाम् ' १० (स्वा. उ. अ.) अच् स वीर इव मारकत्वात् करवीरः । । द्वे
२ हयानुपभुक्तो मारवति हयमारः पचाद्यच् ।
'कणयर' इति ख्यातस्य ॥
कुटजो गिरिमल्लिका ।
१ कुटति कुटजः । 'कुट कौटिल्ये ' ( तु.प.से.), 'कुटेरज: '(हैमोणा-१३०), कुटादित्वान्न गुणः । कुटतो जायत इति वा । 'पञ्चम्यामजातौ '३ । २ । ९८ ॥ इति ङः । २ गिरिणा मल्ल्यते धार्यते वा गिरिमल्लिका मल मल्ल धारणे (ध्वा.आ.से.), क्खुन् । गिरौ मल्लीव वा । इवार्थे कन् । द्वे 'कुडठे' इति ख्यातस्य ॥
6
विदुलो वेतसः शीतो वानीरो वञ्जुलो रथः
।।११३७ ।। १ वेत्ति स्वरक्षां जलप्लवेऽपि विद्यते वा विदुलः 'विद ज्ञाने' ( अ.प.से.), बाहुलकादुलच् । २ येति जलप्लवतां गच्छति वेतसः पुंस्त्री । यत् क्षीरस्वामी "वेतसी तु द्वयोः "[ ] इति । 'वी गत्यादी' (अ. प.अ.), 'वेतसवाहसपनसा' (कातन्त्रोणा-३ १४२ ॥ ) इत्यसा[त] निपातनादेव तुक् । अस्मादेव धातोः 'वियस्तुट् चं'
Jain Education International
[ तिर्यक्काण्ड-४, वनस्पतिकायः
(दशपाद्युणा- ९४५ ॥ ) इत्यसच् । ३ शीतलत्वात् शीतः । वीर्येण लेपाद दाहशमनाद् वा । "वेतसे बहुवारे ना गुणे शीतं हिमं त्रिषु" []इति रभसः । शीतं क्लीबलिङ्ग - ३० मपिं। “शीतं तुषारवानीरबहुवारद्रुमेषु च ' [ ] इत्यजयः । ४ वनति भजतेऽम्बु वानीर: । 'वन पण सम्भक्तों" (भ्वा. प.से.), बाहुलकादीरन्दीर्घौ । आवरकत्वाद् विकल्पितं नीरमस्माद् वा वानीरः ५ वजति बञ्चलः । 'वज गतौ' । (भ्वा.प.से.), उलप्रत्यये साधुः । ६ रमन्तेऽत्रेति रथः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), 'हनिकुषिनीरेमि [ काशि] भ्यस्थक् (क्थन्) ' (उणा-१५९) इति थक् (क्थन् ) " रथे (रथ) स्यन्दनवानीरौ "[]इत्यजयः । षट् वेतसस्य ॥ ११३७ ॥
कर्कन्धुः कुवली कोलिबंदरी
१८
१ कर्कस्य अन्धुरिव कर्कन्धुः, पुंस्त्रीलिङ्गः, ४० ह्रस्वान्तः । [ कर्कन्धूरपि], कर्क लोहितवर्णं धत्ते कर्कन् । कर्कपूर्वाद् धाञः अन्धूर्हन्भूर्जम्यूः कफेलू: कर्कन्धूदिधिपूर्निपात्य' (उणा - ९३ ) इति सूत्रेण कृप्रत्यये साधुः । "कर्क कर्कशं कठोरं कण्टकं धत्ते "[" ]इत्यन्ये । "कर्क
२०
न्धूफलमुच्चिनोति शबरी "[ ]इति भवभूतिप्रयोगः । २ कुवली, त्रिषु । 'को' (हैमोणा ४६९ ) इति किदलः । कौ भूमौ वलतीति वा । ३ कुलति ( कोलति) संस्त्या
घनीभवति कोलिः । 'कुल संस्त्याने ' (भ्वा.प.से.), —-इन् '(उणा-५५७) इतीन् । कु ( को ) लति पक्षिभिर्वा घनीभवतीति व्युत्पत्तिर्वा । स्त्रियामयं ङीषि कोली । ५० बदरीणां फले अलुक 'लुक्तद्धितलुकि '१ २ २४९ ॥ इति स्त्रीप्रत्ययस्य लुकि कुवलं कोलं बदरमिति । बदति स्थिरीभवति छिन्नस्याऽपि प्ररोहणादिति बदरी, पुंस्त्री । 'बद स्थैर्ये' (भ्वा.प.से.), 'दिविभ्रमिवासि ( ) इत्यादिनाऽरः । “बाहुलकादरन्’[मा. धातुवृत्तिः, भ्वादि:, धातुसं - ४३] इति माधवः । गौरादित्वाद ङीष् । चत्वारि बदर्याः ॥
ति' इति ॥ ६.
७ 'वा' इति३.४.५ ॥
१. 'मल्यते' इति१.३ ॥ २. 'जउ' इति४.५, 'जो' इति३ ॥ ३ ऽति' इति५ ॥ ४ 'स्वामी' इति४ ॥ ५. अम.क्षीरस्वामिटीकायाम्- "वेत्यम्यो ( वेत्यम्भो ? ) ऽनुवर्तते वितस्यते वा वेतसः ।" इति दृश्यते, २।४।२९ ॥ पृ. ८७ ॥ ८ द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रो- ७६, पृ. १०६ ॥ रामाश्रमी २ ।४ ॥३०॥ पृ. १७६ ॥ ९ बमपि' इति१.४ ॥ १०. द्र. टीकासर्वस्वम्, भा-२, २४३० ॥ पृ. ८४ ॥ ११. 'ति' इति५ ॥ १२. 'न' इति४.५ ॥ १३. 'भक्तौ' इति स्वामी । १४ १. ३प्रत्योर्नास्ति ॥ १५. - णीञ्' इति१.२.४.५ ॥ १६. न्धूः' इति४ ॥ १७ 'पुंस्त्री' इति४ ॥ १८. ' -न्धुः' इति ॥ १९. ' अन्दूहन्भूजम्बूक फेलूकर्कन्धूदिधिषूः ' इत्युणादिगणसूत्रम् ॥ २०. द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्री - ८२, पृ, ११४ ॥ २१. 'ते' इति२.३ ॥ २२. 'कुल संस्त्याने ('सन्ताने' इति मैत्रेयः) बन्धुषु च' इति क्षीरतरङ्गिण्यादयः ॥ २३. 'पक्षिर्वा' इति १ ३.४.५ ।। २४ 'अणुणु-' इति, 'अण-' इति२.३ ॥
4
२५. 'अवयवे
व प्राण्योषधिवृक्षेभ्यः ४ १३ | १३५ ॥ इत्यण्, 'फले लुक् '४ । ३ । १६३ ॥ इति लुक् ॥ २६. ' -त्ययलु-' इति३ ॥
२३
For Private & Personal Use Only
www.jainelibrary.org