________________
११३३-१९३६ ]
"बकुलः शीधुगन्धश्च मद्यगन्धो विशारदः । मधुगन्ध गूढपुष्प: शिम्बी केसरकस्तथा ॥” [ धन्वन्तरिनिघण्टुः, आम्रादिः पञ्चमो वर्गः, श्रो- १४२ ] इति ॥ अशॊकः कङ्केल्लिः
व्युत्पत्तिरत्नाकरकलिता
१ एतद्वने तपस्यन्ती गौरी मनोरथप्राप्त्या नष्टशोका बभूवेत्यागमः । नास्ति शोकोऽस्मादिति अशोकः । अश्नुत इति वा । पृषोदरादिः । २ कं जलं केलति गच्छति कङ्केल्लिः । ‘केलृ गतौ ' (भ्वा.प.से), पृषोदरादिः ! "स्त्रियां त्वशोके कङ्केल्लि : "[ ]इत्यमरः १० ( अमरशेषः) । द्वे अशोकतरोः ॥
ककुभोऽर्जुनः ।
१ ककत इति ककुभः । 'कक लौल्ये' (भ्वा. आ.से.), बाहुलकादुभः । ककुभो व्यापकत्वादस्य सन्तीति, अर्श आदित्वादचि वा । कं पत्त्रगतं जलं क्षुभ्नाति विस्तारयति, क्षुभेः सौत्रादिगुपधः कः, पृषोदरादित्वात् षकारलोपे ककुभ इति वा । २ अ अर्जुनः । 'अर्ज सर्ज अर्जने' (भ्वा.प.से.), उनन् । शौक्ल्याद् वा । द्वे अर्जुनवृक्षस्य ॥ मालूरः श्रीफैलो बिल्वः
१ मलते भक्षणार्थं जनोऽमुमिति मालूरः । 'मल २० मल्लै धारणे'(भ्वा.आ.से.), 'खैर्जिपिञ्जिभ्यामूरोलचौ' (उणा५३०) इति बाहुलकादूर:, ह्रस्वस्य दीर्घता चेति । मां लक्ष्मीं लातीति वा । पूर्ववदूरच् आकारलोपः । २ श्रीदार्नि फलान्यस्य, श्रीयुक्तानि फलान्यस्येति वा श्रीफलः । ३ कण्टकितत्वाद् बिलति भिनत्ति बिल्वः । 'बिल भेदने ' (तु.प.से.), उल्वादित्वाद् वः । त्रीणि बिल्वस्य ॥ किङ्किरातः कुरण्टकः ॥११३५॥
१ किं कुत्सितं किरति किङ्किरातः । 'कृ
Jain Education International
५२३
१७.
विक्षेपे’(तु.प.से.), ‘कृवृकालि - ' (हैमोणा - २०९) इत्यातक् । २ कुर्यते" छिद्य कुर् । 'कुर छेदने (तु.प.से.), क्वि - बन्तः, बाहुलकादण्ट: कुरण्टकः, निरुकारमध्यः "["]इति ३० मधुमाधवी । 'रुटि स्तेये' (भ्वा.प.से.), कुपूर्व:, क्वुनि कुरुण्टकः, सोकारमध्योऽपि । सामान्य म्लानकमात्रेऽपि कुरण्टकः । “वर्णपुष्पमलिनान्तकस्तथा किङ्किरातमुदितं कुरण्टकम् [ हलायुधकोशः २ ॥ २०७ ॥ ] इति हलायुधः । कुरण्टकः पीतपुष्पः । यदमरः - " तत्र शोणे कुरवकस्तत्र पीते कुरण्टकै:''[ अमरकोषः २ ।४ । ७४ ॥ ] इति । ‘पीतकोंटसेलीउ' तस्य द्वे ॥ ११३५॥
त्रिपत्त्रकः पलाशः स्यात् किंशुको ब्रह्मपादपः ।
For Private
१ त्रीणि पत्त्राण्यस्य त्रिपत्त्रकः । २ विस्तृतत्वात् पवित्रत्वाच्च प्रशस्तानि पलाशानि पर्णान्यस्य ४० पलाश: । अर्शआदित्वादच् । ३ शुकतुण्डाभपुष्पत्वात् किमस्य पुष्पं शुक इति वितर्कात् किंशुकः । किञ्चित् शुको नील इति वा । ४ ब्रह्मणः पादपो ब्रह्मपादपैः । चत्वारि 'खाखर' इति ख्यातस्य ||
तृणराजस्तैलस्तालः
१ तृणानां राजा तृणराजः । 'राजाह : सखिभ्यष्टच्’५।४।९१ ॥, 'नस्तिद्धिते ६ |४ | १४४ ॥ । तृणद्रुमध्ये मुख्यत्वात् तृणराजत्वम् । २ तलति प्रतिबिम्बति प्रतिष्ठतै तलः । 'तल प्रतिष्ठायाम् ' ( चु.उ.से.), अच् । ३ प्रज्ञाद्यणि तालः । त्रीणि ताडस्य
रम्भा मोचा कदल्यपि ॥ ११३६ ॥
दृश्यते ॥ १२.
१. 'लाः' इति४.५ ॥ २ ' - गाधश्च' इति४ ॥ ३ 'केश-' इति३.४ ॥ ४ 'शीर्षकेशरकस्तथा' इति धन्वन्तरिनिघण्टौ, पृ. २६५ ॥ ५. 'मोऽस्ति' इति४ ॥ ६ 'मलं' इति४.५ ॥ ७ क्षीरतरङ्गिण्यादौ 'वेलृ चेलृ ' इत्यादिदण्डकोऽयं धातुश्चलनेऽर्थे दृश्यते ॥ ८ स्वोपज्ञटीका, ४।११३५ ॥ पृ. २५३ ॥ ९ - धकः' इति२.३ ॥ १०. 'षर्ज' इति मैत्रेयसायणौ ॥ ११. १. २.३.५ प्रतिषु न 'खर्जिपिञ्चादिभ्य- ' ( उणा - ५३० ) इत्युणादिगणे ॥ १३. श्रीपदानि इति३ ॥ १४ 'इति' इति ४प्रतौ नास्ति ॥ १५. 'कुर्' इति१. ३.५ ॥ १७ 'शब्दे' इति क्षीरतरङ्गिण्यादयः ॥ १८. १२०, पृ. १६४ ॥ २०. पृ२५ ॥ २३. कुरु 'खाख' इति२ ॥ २९. 'अभि रभि शब्दे'
'कु' इतिर, 'क्रु' इति४ ॥ २१. 'न्येन' इति३.५ ॥ २४ 'कम्' इति१.३ ॥ २५. 'तृणमध्ये द्रु-' इति४ ॥ ३०. 'न्ति' इति३ ॥ इति दुर्गसम्मतपाठः, तस्य 'रम्भते' इति रूपम्
ति' इति३ ॥ १६. डः' इति४ ॥ १९ द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रोइति१. २.४.५ ।। २२. 'वर्णपुष्पममलानकं तथा' इति हलायुधकोशे, कं' इति३.५ ॥ २६. यौ' इति३ ॥ २७. 'पादः' इति२ ॥ २८. ३१. 'ते' इति ॥ ३२. १ प्रतौ नास्ति ॥ ३३ 'रम्भ-' इति३.४.५ ॥,
11
१ रभतेऽनया रम्भा | 'रभ राभस्ये' (भ्वा. आ.अ.), 'घञर्थे कः ' (वा - ३ | ३ १५८ ॥), 'रभेरशब्लिटो: '
Personal Use Only
५०
www.jainelibrary.org