________________
१११७-११२० ]
३.
क्वौं धोऽन्तादेशः, 'अन्येषामपि - '६ | ३ |१३७ ॥ इति दीर्घः, धराकान्तोऽयम् । यत्कात्य:- "वीरुत् स्वपर्णजटिला प्रतानशतगामिनी " [ ] इति । लता प्रतानिनीत्यखण्डमपि । यदमरः-'लताप्रतानिनी वीरुद्गुल्मिन्युलप: "[ अमरकोषः २०४ १९ ॥ ] इति । हलायुधस्तु "लता प्रतानिनी वल्ली प्रततिव्रततिस्तथा "[ हलायुधकोश२ ॥१८०॥ ] इत्यभेदेनाऽऽह । " पञ्च बल्ल्याम्"[] ] इति तट्टीका । चत्वारि विस्तारवत्या वल्ल्योः ॥
स्यात् प्ररो॑होऽङ्कुरोऽङ्कुरो रोह॑श्च
१ प्ररोहति प्ररोहः । रुह बीजजन्मनि प्रादुर्भावे [च]''(भ्वा.प.अ.), अच् । २ - ३ अङ्क्यते लक्ष्यतेऽनेनेति अङ्कुरः । 'अकि लक्षणे' (ध्वा.आ.से.), 'मन्दिवाशिं- '( उणा - ३८ ) इत्युरच् । खर्जूरादित्वादूरप्रत्यये अङ्करः, पुंस्येतौ । क्लीवेऽपि । वैजयन्ती यदाह "स्यादङ्करोऽङ्कुरोऽस्त्रियाम् (-यौ ) " [ वैजयन्तीकोषः ३ । ३ । १० ॥ ] इति । ४ रोहति रोहः । अच् । चत्वारि अङ्कुरस्य ॥
स तु पर्वणः ॥ १११८ ।। समुत्थितः स्याद् बलिशम्
१ स तु अङ्कुरः पर्वणः ग्रन्थः समुत्थितः, बलति २० प्राणिति बलिशम् । 'बल प्राणने ' (भ्वा.प.से.), 'बलेर्णिद्वा' (हैमोणा - ५३६ ) इतीश: । एकं ग्रन्थ्युत्पन्नाङ्कुरस्य ॥१११८॥ शिखाशांखालताः समाः ।
१०
व्युत्पत्तिरत्नाकरकलिता
१ शेते शिखा । 'शीङ् स्वप्ने' (अ.आ.से.), 'शीङो निद् हस्वश्ध' (दशपाद्युणा- ३५५॥ पञ्चपाद्युणा७०२ ) इति खन् । २ शेतेऽस्यां पक्षी शाखा | पक्षे 'वृक्षावयवे आ च' ( दशापाद्युणा३ । ५५ ॥ ) इति खन्प्रत्ययः, आकारश्चान्तादेशः। शाखति व्याप्नोति वा 'शाख व्याप्तौ ' (भ्वा.प.से.), अच् । शाख्यते वृक्षोऽनयेति, 'गुरुश्च' ३ । ३ ।
Jain Education International
५१३ १०३ ॥ इत्यकारो वा "श्पति शिखा शाखा च 'शो तनूकरणे' (दि.प.अ.), 'श्यतेरिच्चे वा' (हैमोजा - ८५ ) इति खे साधूं" [ अभि-, स्वोपज्ञटीका४ । १११९ ॥ ] इत्याचार्याः । ३ लता प्रागुक्ता [अभि. श्री. १९१७] 'समा:' इति लिङ्गार्थाभ्यां तुल्या इत्यर्थः । त्रीणि शाखायाः । 'डाल' इति भाषा ॥ साला शाला स्कन्धशाखा
१ सीयते साला । 'षोऽन्तकर्मणि' (दि.प.उ.), बाहुलकाल्लः । २ शीयते श्यन्त्येनां वा शाला । 'शीङ् स्वप्ने' (अ.आ.से.), 'शो तनूकरणे ' ( दि.प.अ.) वा, ['शामाश्या ' (हैमोणा - ४६२ ) इति लः ] । शलतीति वा । 'शल गतौ ' (भ्वाप.से.), ज्वलादित्वाण्णः । ३ स्कन्धाद् निःसृता शाखा स्कन्धशाखा । त्रीणि वृद्धशाखायाः ॥
स्कन्धः प्रकाण्डमस्तकम् ॥ १११९ ॥
१३
१ स्कन्द्यते आरुह्यते स्कन्धः । उणादौ स्कन्दिर्धातोः 'स्कन्देरच् स्वाङ्गे ' ( उणा - ६४६ ) इत्यच्प्रत्ययो धश्चान्तादेशः । "कं शिरो दधातीति वा | 'आतोऽनुपसर्गे कः ३ २ १३ ॥ पारस्करादित्वात् सुद्" [ " ] इति 'टीकासारै: । " स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः विष्टतवूनहीन्द्र: "[ शिशुपालवधम् सर्गः ४, श्रो-७] इति माघः । प्रकाण्डस्य वृक्षजङ्घाया मस्तकं शिरः [ प्रकाण्डमस्तकम् ] । " प्रघाणः स्कन्ध उच्यते "[ हलायुधकोशः २ । १८२ ॥ ] इति हलायुधः । " द्वौ समौ " [ ] इति तट्टीका । ५० एकं वृक्षस्कन्धस्य ॥१११९ ॥ मूलाच्छाखावधिर्गण्डिः प्रकाण्ड:
१ मूलतः स्कन्धशाखामवधीकृत्य गण्डि गण्डिका पर्वेत्यर्थः, सा प्रकण्ड इत्यन्वयः । 'प्रकाण्डवरण्डादयश्च' ( ) इति डः, दीर्घत्वं च । प्रकाम्यत इति वा । 'कमु कान्ती' (भ्वा. आ.से.), 'क्वादिभ्यः कित्' (उणा ११२ ) इति डो
१७
१. 'क्वो' इति३.४.५ ॥ २. 'र्णि-' इति३.५ ॥ ३द्र अम क्षीर २४ ।९ ॥ पृ. ८१ ॥ ४ विस्त-' इति४ ॥ ५. 'विस्तारवल्ल्या:' इति१, 'वल्या : ' इति४ ॥ ६ 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः ७ ' - वशि-' इति३. ४.५ ॥ ८ 'न्थे' इति१.४, ‘–न्थिः ' इति५ ॥ ९. 'चा' इति१. २, रच्चो' इति५ ॥ १०. 'खो' इति३.५ ॥ ११. 'धुः' इति३ ॥ १२. 'स्कन्देश्च स्वाङ्गे' (उणा - ६४६, दशपाद्युणा९७) इत्युगादिगणसूत्रम्, स्कन्देर्धातोरन् प्रत्ययो भवति स्वाङ्गेऽभिधेये भवान्तादेश इति तदर्थः ॥ १३. द्र. पदचन्द्रिका भा-२, वनौषधिवर्ग:, श्लो-५६, पृ.७९ ॥ १४. ‘तट्टी -' इति ॥ १५. ' -कार:' इति ॥ १६. प्रकरणे वरण्डादयश्च' इति१.२ ॥ इदं सूत्रमुणादिगणे न दृश्यते, 'प्रकाण्डः ' इत्यत्र 'क्वादिभ्यः कित्' (उणा - ११२, (५।८ ) इत्यनेन, 'वरण्ड: ' इत्यत्र 'अण्डन् कृसृभृवृञः' इत्यनेन च समाधेयम् ॥ १७ १ प्रतौ नास्ति ॥
For Private & Personal Use Only
४०
www.jainelibrary.org