________________
व्युत्पत्तिरत्नाकरकलिता
११९७ ११००]
आङि शुचिः ( उणा - २६० ) इत्येव तत्र पाठः, आशुशोचयिषा आदीपयितुमिच्छा, तस्याः कर्ता आशुशुक्षणिः आदिदीपयिषु रित्यर्थः " [ ] इति भाष्यम् । १२ छागो रथोऽस्य छागरथः । १३ तन्न पातयति देहधर्तृत्वात् तनूनपात् । 'नभ्राण्नपात् ६३७५ ॥ इति सूत्रे निपातितः । अत इन्धनं विना क्षणमपि तन्वाः शरीरस्य नपात् तति रक्षणमस्य (न रक्षणमस्य ) "[] इति कलिङ्गः तकारान्तोऽयम् । यन्महेश्वर:-''तनूनपात् तकारान्तोऽयं न तवर्गतृतीयभाक् "[ ] इति । तनूनपालौ, तनूनपातः इत्यादि । शत्रन्तोऽयमि १० त्येके । तनूनपान् तनूनपन्तौ इत्यादि । नित्यत्वाद् मुगभावः (नुमभावः) "[ ] इत्येके "तनुं न पातयति देहवर्तित्वात् "[ अम. क्षीर. १ ११ १५३ ॥ ] इति तु स्वामी । “तन्वा ऊनं पातीति वा । "तनूं न पद्यतीति दान्तः ' []इति तु रामदासटीका ॥१०९७॥ १४ कृश्यति दाह्याभावे कृशानुः । 'कृश तनूकरणे ' ( दि.प.से.), दिवादि:, (ऋतन्यञ्जिवन्ययपिमद्यत्यङ्गिकुयुकृशिभ्यः कलिग्यतु
44
आगमशासना
५०१
जलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः) " ( उणा-४४२) इत्यानुकू । “कृशोऽप्यनिति वर्धते कृशानुः "[ अम. क्षीर. १ १ ५४ ॥ ] इति स्वामी "वैश्यः किंशारूदश्वित् कुशलं कृशानुक्ष"[ ]इति मध्यतालव्यवान् । १५ विश्वानरस्यापत्यं वैश्वानरः। विदादित्वादव्। बहुत्वे लुकि विश्वा नराः । १६ वीतयोऽश्वा होत्रं हव्यमस्य वीतिहोत्रः । 'वी गत्यादी' ( अ.प.अ.), कर्मणि क्तिन् । "वीतयोऽश्वा होत्रं हवनमस्येत्यागमः " [ अम. क्षीर. १ । १ । ५३ ॥ ] इति तु स्वामी । १७ वृषेण धर्मेणाऽकति वृषाकपिः । पृषोदरादिः । वृषेण तेजसा आकम्पत इति वा । 'इन् सर्वधातुभ्यः ' (उणा-५५७) । १८ पुनाति पावकः | 'पूज् पवने (क्र्या.उ.से.), १९ चित्रा नानारूपा भानव ण्वुल् । कान्तयोऽत्र चित्रभानुः । २० अपां पित्तं सारम् अप्पि - तम् । बाहुलकात् षष्ठ्यलुकि अपांपित्तमित्यपि । “सोऽ- ३० ङ्घ्रिपाङ्गैरपां पित्तं मेघातः सर्वरी नयेत्" []इति । २१ धूमो ध्वजोऽस्य धूमध्वजः । २२ कृष्णो धूम्रः वर्त्म
१. शुचि - ' इति १.२ ॥ २. " निरुक्तकारस्तु 'आ इत्याकार उपसर्गः पुरस्तात् । चिकीर्षितज उत्तरः, आशुशोचयिषुरिति ' [ ६ । १ ] इत्यादिना आङ्पूर्वाच्छुचेर्निरवोचत् । नारायणश्वेतवनवासिनावपि पञ्चपाद्यां 'शुच' धातुमेवाधीयाते । देवराजस्तु आशुशुक्षणिशब्दव्याख्याने 'आङि शुषेः सनः ' इति विहितोऽनिः प्रत्ययो बाहुलकाच्छुचेरपि भवति । 'आडि शुचे" इत्येव वा तत्र पाठ:' इत्याह (पृ.४२६) शुचेरिति पाठे शुचधातोरुदात्तत्वादिद् प्राप्तः स बाहुलकात् प्रतिविधातव्यः" इति दशाधुणादिवृत्तिसंग्रह टिप्पणी पू.५, टि-३ "आशुशुक्षणः ॥१॥ " त्वमग्ने भिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचि: " । (ऋ०२ ।१ । १ ) । त्वमग्ने द्युभिरहोभिस्त्वमाशुशुक्षणिः। आशु इति च शु इति च क्षिप्रनामनी भवतः । क्षणिरुत्तरः क्षणोतेः आशु शुचा क्षणोतीति वा सनोती ति वा ।
Jain Education International
शुक् शोचते । पञ्चम्यर्थे वा प्रथमा : । तथाहि वाक्य - संयोगः आ इति आकार उपसर्गः पुरस्ताच्चिकीर्षितज उत्तर: आशु शोचयिधुरिति शुचिः शोचतेति कर्मणः । अयमपीतरः शुचिरेतस्मादेव निष्चितमस्मात्पापकमिति नैरुक्ताः ।
आशुशुक्षणि:- अनवगतमेतत् । आशु शुचा सनिता, क्षणिता वा इत्यवगमः । तथा च निगम:- त्वमग्ने ! ..शुचिः । गृत्समदस्येयमार्षम् । जगती । हे भगवन् अग्ने ! त्वं द्युभिः - अहोभि: । आशुशुक्षणिः- आशु शुचा क्षणिः क्षमोतेः हिंसार्थात् । सनोतेर्वा सम्भजनार्थात् । मध्यमं 'शु' इत्येतदक्षरं शुचेः दीप्त्यर्थस्य । आशु-क्षिप्रं शुचा दीप्त्या, क्षणोति - हिनस्ति इति आशुशुक्षणिः अथवा आशु शुचा सनोति सम्भजतीति वा । शुक् कस्मात् ? शोचतेः । अयमेको निर्वचनविधिः । अथापरः पञ्चम्याः अर्थे प्रथमा वा । तथा हि पञ्चमीत्वेन विपरिणतस्यास्य शब्दस्य वाक्ये संगतिर्भवति । त्वमद्भ्यः त्वमश्मनस्परि त्वं वनेभ्यः इत्यादीनि बहूनि पदानि पञ्चम्यन्तान्येव एव । तस्मानदनेनापि पञ्चम्यन्तेन भवितव्यमित्यभिप्रायः । पुरस्तात् 'आ' इत्याकारः एषः उपसर्गः । उत्तर:- अनन्तरः शुशुक्षुणिरिति चतुरक्षरः शब्दः, चिकीर्षितजः चिकीर्षितादर्थाज्जातः सन्नन्तात् धातोरित्यर्थः । यः आ शुशोचयिषुः- आदिदीपयिषुः भवति स आ शुशुक्षणिः- यजमान इत्यर्थः । तस्मात् त्वमग्ने जायसे । अद्भ्यः वैद्युतात्मना जायसे। अश्मनः परि परस्पराभिघाताज्जायसे । वनेभ्यः - दारुभ्यः । ओषधीभ्यःशरादिभ्यः । नृणां मनुष्याणां पते जायसे- अभिव्यज्यसे । शुचिः दीप्तः ।
शुचिः कस्मात् ? ज्वलत्यर्थात् शोचतेः । अयमपीतरः शुचिः लौकिकः शब्दः एतस्मादेव शोचतेः सम्पद्यते इति वैयाकरणाः मन्यन्ते । नैरुक्ताश्च निःपूर्वात् सिञ्चतेर्मन्यन्ते । यस्मात् पापमस्मात् निष्षिक्तं भवति । अन्यस्मिन् सिक्तमित्यर्थः । " इति निरुक्तम्, ६ ॥१ ॥ पृ. २५३ ॥ ३. 'तनून्' इति३ ॥ ४ द्र पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ४८, पृ. ७३ ॥ ५. 'पातौ' इति१.३ ॥ ६ 'धर्तृ ' इति३ ॥ ७ ३.४प्रत्योर्नास्ति ॥ ८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-४८-४९, पृ.७३-७४ ॥ ९ पातय-' इति३ ॥ १०. इतोऽग्रे १प्रतौ 'तु' इति दृश्यते ॥ ११. हस्तप्रतिस्थस्योणादिगणमुत्रस्य पाठोऽतीवाशुद्धत्वात् कोष्ठान्तर्गतपाठः शुद्धः स्थापितः ॥ १२. इति नुक्' इति४ ॥ १३ इतोऽग्रे प्रती 'हि' इति दृश्यते ॥ १४. इतोऽग्रे ३प्रतौ 'अधूः' इति दृश्यते ॥ १५. द्र. टीकासर्वस्वम्, भा-१, ११५६ ॥ पृ. ४२ ॥ पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ५१, पृ. ७६ ॥ तयोः 'मेघातः' इत्यस्य स्थाने क्रमशः 'मिन्धानः' इति, 'मिन्धयन्' इति दृश्यते ॥
For Private & Personal Use Only
-
-
www.jainelibrary.org