________________
१०९४ १०९६ ]
'अल
अस्त्रियाम् । अमरस्तु स्यादालवालम् [ अमरकोषः १।१०। २९ ॥ ] इति क्लीवं प्राह । 'लूज् छेदने ' ( क्या.उ.से.), आङ्पूर्वः 'स्थाचतिसृजो (मृजे) रालज्वालञानीयरः (-लीयचः) '(उणा - ११३) इति बाहुलकादतोऽप्यालञ् (च्)। “आ समन्ताज्जललवमालाति इति मूलविभुजादित्वात् कः "[] इति स्वामी' । 'आलिं सेतुं वलते धत्ते, कर्मण्यणि पृषो - दरादि: "[] इति पञ्जिका । दीर्घादिरेवायम् । "शाखा दिशो जलधिमण्डलमालकालम् "[] इति प्रयोगः । वालगोधिषु ( -रोधिपु ?) पयः सु बिभ्रतः सपलाशिराशिमिव १० मूलसन्ततिम् "[]इति माघे ह्रस्वादिश्च । अपशब्द एवायमित्येके । २ आवलते बहिरनियमादम्भोऽत्रेति आवालम्, क्लीबे । व्याडिस्तु - " आवालो जलपिण्डलः ''[]इति पुंस्यप्याह । 'वल वल्ल संवरणे' (भ्वा.आ.से.), आङ्पूर्वः, 'हलश्च ३ |३ | १२१ ॥ इति घञ् । ३ आ उप्यतेऽम्भोऽत्रेति आवापः । " आङ्पूर्वी वपिर्न्यासार्थ: "[]इति कलिङ्गः, घञ् । वृक्षसेकार्थं द्रवतोऽम्भसो यत् स्थानकं स्थानं स आलवाल इत्यन्वयः । यदुक्तम्- "आलवालं विदुर्धीरा धारणं द्रवतोऽम्भसः "[ ] इति । " आवाल आलवालः स्यादावापः स्थानकं तथा" [ हलायुधकोशः २ । १८५ ॥ ] इति हला२० युधः । त्रीणि 'थाणुं' इति ख्यातस्यै ॥ १०९५ ॥
व्युत्पत्तिरत्नाकरकलिता
आधारस्त्वम्भसां बन्धः
१ आध्रियते जलादिकमन्त्रेति आधारः । धृव् धारणे' (भ्या. उ. अ.), अधिकरणे पत्र 'आ (अ) ध्यायन्याय- '३।३।१२२ ॥ इत्यादिना आङ्पूर्वात् 'धृं अनवस्थाने ( अवस्थाने) इत्यस्य घ िनिपातनाद् वा । "आधार
Jain Education International
"
श्चाधिकरणेऽआ (प्या) लवालेऽम्बुधारणे " [विश्वप्रकाशकोशः, रान्तवर्ग:, - १६७ ] इति महेश्वरः । यथा-"समुद्रः प्रलयोन्मुद्रः किमाधारेण धार्यते "["]इति । क्षेत्रादिसेकार्थं यत्राम्भः सञ्चीयते सोऽम्भसां बन्धः । एकं जलबन्धस्य ॥ झरः सरिः । ३०
निर्झरस्तु
उत्सः स्त्रवः प्रणम्
I
-
१ निर्झर्ति जलमंत्र निर्झरः । 'इय् वयोहानी' (दि.प.से.), अच् । अन्योपसर्गनिवृत्त्यर्थं "निर उपादानम् । निर्झरन्त्यनेनेति, 'ऋदोरप् '३ ॥३ ॥५७॥ । २ एवं झरः "षित्त्वादङि झरा, अच इ: ' ( उणा ५७८) झरि:, ततो ङीषि झरी च[]इति स्वाम्यादयः । निरभावे झरः । ३ सरति सरिः स्त्रीलिङ्गः । सृ गतौ ' (भ्वा.प.अ.), 'अच इ: ' ( उणा - ५७८) इति इ: । ४ उनत्ति उत्सः पुंसि । " उत्सस्त्वस्त्री "["] इति वाचस्पतिः । उन्दी क्लेदने ' (रु.प.से.), 'उद्यमि- (उन्दिगुधि-) (उणा - ३४८) ' इति सः । ५ स्रवति ४० स्रवः । 'स्रु गतौ ' (भ्वा.प.अ.) अच् । ६ प्रखवन्त्यनेन गिरयः प्रस्त्रवणम् । करणे ल्युट् । षट् निर्झरस्य ॥ जलधारा जलाशयाः ॥१०९६ ॥
४९९
१ जलान्याध्रियन्तेऽत्र जलाधाराः । 'अध्यायन्याय-'३।३।१२२ ॥ इत्यादिना घञन्तेः । यद्वा जलानामाधारा जलाधारा: । सामान्येन वाप्यादयः 1 २ जलमाशयो हृदयमेषां जलाशयाः । जलमाशेते एषु वा । 'पुंसि संज्ञायाम्- '३ । ३ । ११८ ॥ इति घः । द्वे सामान्येन सर्ववाप्यादिजलस्थानस्य ॥१०९६ ॥
॥ समाप्तोऽप्कायः ॥
STNT:
५.
१. द्र. पदचन्द्रिका, भा-१, वारिवर्गः श्रो- २५७, पृ. ३०८ ॥ २. अम. क्षीरस्वामिकृतटीकायाम्-" (आधारः) क्षेत्रादिसेकार्थं यत्र संचीयतेउम्भ वृक्षसेकार्थ तले द्रवतोम्भसः स्थानं यदाहू आलवालं विदुधौरा धारणं द्रवतोऽम्भस, मुनि अपां धारणमाधारस्तदल्य चालवालकम्, आलूयते खन्यते - आलवालम् ।" इति दृश्यते, १९२९ ॥ पृ. ६६ ॥ ३ - रात्' इति३ ॥ ४. द्र टीकासर्वस्वम्, भा-१, १।१०।२८ ॥ पृ.१९७॥ तत्र- "मूलं फणाः फणिपतेर्गहनं च मध्यं शाखा दिशो जलधिमण्डलमालवालम्" इति दृश्यते मायकृतशिशुपालवधकाव्ये "विपुलालबालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः । यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥" इति दृश्यते, सर्गः १३, श्रो-५७, पृ. ३२८ ॥ ६ द्र. स्वोपज्ञटीका४ । १०९५ ॥ पृ. २४३ ॥ तत्र - ' - पिण्डलः' इत्यस्य स्थाने 'पिण्डिलः' इति दृश्यते ॥ ७ '-वन्तोऽ-' इति१.५ ॥ ८द्र. अम. क्षीर. १ १९ ॥ २९ ॥, पृ. ६६ ॥ स्वोपज्ञटीका४ । १०९५ ॥ पृ. २४४ ॥ ९. ' - णु' इति३ ॥ १०. 'भाषा' इति२ ॥ ११. 'धृञ्' इति१.५ ॥ १२. धृञ् धारणे अनवस्थाने वा' इति४ ॥, ' स्थाने' इति क्षीरतरङ्गिणी ॥ १३. 'घजिति' इति ॥ १४ द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३५१५ ॥ पृ. २२१ ॥ १५. ' - ते' इति१.४ ॥ १६. 'निरु-' इति३ ॥ १७ - रत्य-' इति४ ॥ १८द्र. पदचन्द्रिका, भा-२, शैलवर्ग:, श्रो-४३, पृ. ६४ ॥ १९ द्र. स्वोपज्ञटीका४ ॥१०९६ ॥ पृ. २४४ ॥ 'नेति' इति ॥ टि' इति१.२.५ ॥ २२. 'घप्रत्यये' इति४ ॥
२०.
२१.
For Private & Personal Use Only
11
www.jainelibrary.org