________________
४९०
अभिधानचिन्तामणिनाममाला
[ तिर्यक्काण्डः ४, अप्कायः ष्वपि '३।२।१०१ ॥ इति डः । २४ अपां समूह आपम् । त्रिस्त्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः
- । ।
'तस्य समूहः ४ । २ । ३७ ॥ इत्यण् । आपेन गच्छति आपगा । आप जलसमूहस्तद्योगादर्शआद्यचि आपः समुद्रः, तं गच्छतीति वा । 'गम्लु गती' (ध्वा.प.अ.), 'अन्यत्राऽपि ' ( वा३१२१४८ ॥ ) इति गमेर्डः, दीर्घादिरयम् । " शिखरिणामिव सागरमापगाः ''[ रघुवंशम्, सर्गः - ९, श्रो- १७ ] इति रघुः । 'अपगच्छतीति, अन्येभ्योऽपि ( अन्येष्वपि ) - ३ २ १०१ ॥ इति र्ड: अपगा हस्वादिरपि "[] इति सोमनन्दी । " आपः सन्त्यत्रेति भूम्नि अर्शआद्यचि अपः समुद्रस्तं गच्छतीति १० डप्रत्यये अपगा हस्वादिरपि "[] इति पञ्जिका । अत एव "विपुल [ पुलिना] रेत (वेत) स्वत्योऽपगाः कति शीलिता: [] इति योगेश्वरः । तथा च "विन्द्यादगारमागारमपगामापगामपि '[ शब्दभेदप्रकाश, श्री- २ ] इति द्विरूपकोषः । असम्बन्धिना वेगेन गच्छतीति वो आपगा । आ अपगच्छतीति वा । २५ जलधिं गच्छति जलधिगा । २६ कोलति जलैः संस्त्यायति कुल्या । 'कुल संस्त्याने '(भ्वा. प.से.), 'अघ्न्यादयश्च' ( उणा - ५५१ ) इति यक् । कुले प्राणिगणे साधुरिति 'तत्र साधुः '४४ १९८ ॥ इति । यथा-" कुलि । शनिर्वचने कूल (कुल) शातनं: "["] "मेघस्य पर्वतस्य २० वा समुत्थिताः प्रदेशाः कुलानीव, तेषां शातन: "[ ]इत्यु: । मेघस्य पर्वतस्य वा समुत्थिते प्रदेशे कुले भवन्ति । क्षीरस्वामी तु कुलशब्देन पर्वतान् पठति । कुल्याः "पक्षछेदनं तनूकरोतीति कुलिश इत्युक्तत्वात् कुले पर्वते साधुः कुल्या "[ ] इति भाष्यम् । २७ जम्बालोऽस्त्यस्यां जम्बालिनी । 'अत इनिठनौ ५ ।२ ।११५ ॥ इतीनिः । सप्तविंशति: सामान्येन नद्याः ॥१०८० ॥
१३
अथ नदीविशेषानाह
Jain Education International
4
11
गङ्गा त्रिपथगा भागीरथी त्रिदशंदीर्घिका ।
७ 'अ-'
१. 'डे' इति१.२.३ ॥ २. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्री - २५८, पृ. ३०९ ॥ ३ ' - त्यत्र' इति १.२ ॥ ४ ' दे ' इति५ ॥ ५ द्र. टीकासर्वस्वम् भा-१, १।१०।२९ ॥ पृ. १९८ ॥ तत्र 'शीलिताः' इत्यस्य स्थाने 'सेविता:' इति दृश्यते ॥ ६१प्रतौ नास्ति ॥ इति ॥ ८ 'कुल संस्त्याने ('सन्ताने' इति मैत्रेयः) बन्धुषु च' इति क्षीरतरङ्गिण्यादयः ॥ ९ 'ने' इति, सन:' इतिर, शतेन' इति ॥ १०. मूलं मृग्यम् ॥ ११. 'इत्येके' इति ॥ १२. 'तत्क-' इति३, 'करोति' इति४ ॥ १३. 'स्या' इति ॥ १४ द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो- २५८, पृ. ३१० ॥ १५. अन्येष्वपि - '३ ।२ । १०१ ॥ इत्यनेन डप्रत्ययविधानं युक्तम्, 'गमश्च '३ ।२ ।४७ ॥ इत्यनेन खच्प्रत्ययविधानात् ॥ १६. ति' इति५ । १७ द्र टीकासर्वस्वम् भा-१, ११०१३० ॥ पृ. १९८ ॥ पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२५९, पृ.३१० ॥ १८. 'ङीष्' इति२.५ ॥ १९. 'भ-' इति४ ॥ २० ङ्गाः' इति ॥ २१. 'सा-' इति, 'सगरात्मजेना-' इति स्वोपज्ञटीकायाम्, पू.२४० ॥ २२. वाटकं' इति५ ॥ २३. 'यतीयं' इति४.५ ॥ २४ ' -हुतया' इति१.३.४.५ ॥ २५. ङीष्' इति२.४.५ ।।
4
।।१०८१ ।। ३०
10
11
12
13
14
15
सरिद्वरा विष्णुपदी सिद्ध- स्वः स्वर्गि - खापगा । ऋषिकुंल्या हैमवती स्वर्वापी हरशेखरा ।। १०८२ ।।
18
*
१ गच्छति जलधिमिति गङ्गा । 'गम्लृ गतौ' (भ्वा.प.अ.), 'गन् गम्यादेः ( - द्योः ) ' ( उणा - १२० ) इति गन्, गङ्गा । "बह्मलोकात् गां गतेति, 'अन्येभ्योऽपि (अन्येष्वपि ) - ३ ।२।१०१ ॥ इति डप्रत्यये पृषोदरादि: "["]इति पञ्जिका २ प्रीन पथो गच्छति त्रिपथगा । 'गमेश्च (गमश्च) ३ ।२।४७ ॥ इति डः । त्रिपथेन गच्छतीति वा । तथा च भारते
१५
"क्षितौ तारयते मर्त्यान् नागांस्तारयतेऽप्यधः ।
१८
२०
दिवि तारयते" देवांस्तेन त्रिपथगा स्मृता ॥ १ ॥ []इति । त्रिमार्गगाऽपि । ३ भगीरथस्येयं भागीरथी । भगीरथेनेमं लोकमवतारिता । ' शेषे '४ । २ । ९२ ॥ इत्यण्, 'तस्येदम्' ४ | ३ |१२० ॥ इत्यण् वा, 'टिड्डाणञ्- '४ ।१ ॥१५ ॥ इति । ङी । ४ त्रिदशानां देवानां दीर्घिका त्रिदशदीर्घिका ५ त्रिभिः स्त्रोतोभिर्ब्रह्मलोकात् प्रभवतीति त्रिस्रोताः, स्त्रीलिङ्गं । त्रिस्रोतसौ इत्यादि । ६ " जह्नुना सँगरपुत्रेणाऽवतारित्वाद् जह्नोरियं जाह्नवी" [ स्वोपज्ञटीका४ । १०८१] इत्याचार्याः । 'जहना राजर्षिणा यज्ञपार्ट प्लावयन्तीय पीता पश्चादुज्झिता सुतात्वेन प्रतिपन्नेति जतनय जा- ५० ह्नवी [पदचन्द्रिका भा-१, वारिवर्गः श्रो- २५८] इति मिश्राः । जलकन्याऽपि । ७ मन्दमकति गच्छति मन्दाकिनी । 'अक अग कुटिलायां गतौ ' (भ्वा.प.से.), ग्रहादित्वाणिनिः, 'ऋनेभ्यो ङीप् ४ ११५ ॥ मन्दाका औषधिविशेषाः सन्त्यस्यामिति वा । अत इनिठनौ ५ ।२ ११.१५ ॥ इतीनि । 'खजेराक: ' ( उणा - ४५३ ) इत्यत्र बहुलवचनाद्
For Private & Personal Use Only
4
4
४०
www.jainelibrary.org