________________
४८८
अधिकरणे घर्जि । ३ कच्यते बध्यते कच्छः । 'कच बन्धे' (भ्वा.आ.से.), 'कचेश्छ: ' ( दशपा-४ ॥ ६ ॥ ) इति छः | ४ रुणद्धीति रोधः, क्लीबे । 'रुधिर् आवरणे' (रु.उ.अ.), असुन् । रोधसी, रोधांसि इत्यादि । रोध इत्यन्तोऽपि । "रोधः प्रोक्तश्च रोधसि "[ ] इति संसारावर्तात् ॥१०७७॥ ५ तटत्युच्छ्रायं गच्छति तटम्, त्रिषु । ' तट उच्छ्राये' (भ्वा.प.से.), 'आघातें ' ( चु.उ.से.) वा अच् । ६ तीर्यते तरणकर्म समाप्यतेऽनेन, अत्र वा तीरम् । 'पार तीर कर्मसमाप्तौ ' (चु.उ.से.), चुरादिण्यन्ताद् 'एरच् ' ३ ॥३ ॥ ५६ ॥ १० ७ प्रतीरम् इत्यन्योपसर्गनिवृत्त्यर्थम्, दीपप्रदीपवत् । सप्त सामान्येन नद्यादितटस्य ॥
|
अथ तटविशेषानाह
अभिधानचिन्तामणिनाममाला
पुर्लिनं तज्जलोज्झितम् ।
सैकतं च
46
१ तत् तटं जलेन परित्यक्तम्, पोलति महत्त्वं याति पुलिनम्, अस्त्रियाम् । 'पुल महत्त्वे ' (भ्वा.प.से.), 'व्रजेः (वृजेः) किच्च'(उणा - २०५) इति चकारादिनच् "[] इति स्वामी 1 "बहुलमन्यत्रापि' (उणा - २०७ ) इति इन [ च्], २० किच्च''[']इति तु सर्वधरः । 'तलिपुलिभ्यां चे' (उणा२११) इतीनन् वा । त्रिकाण्डशेषे तु- "पुलिनं द्वीपमुच्यते"[]इत्युक्तम् । एकं जलादचिरोत्थितस्य [ तटस्य ] । " जलमध्यस्य उच्छ्रिततटस्य " [] इति तु पञ्जिका । तेन जलेन बद्धा सिता (सिता बद्धा) सिकता । "पृषोदरादित्वाद् वर्णविपर्ययः, ततष्टाप् सिकता "[ धातुप्रदीपः भ्वादि:, धातुसं-५६७]इति धातुप्रदीपः । सिकताः सन्त्यत्रेति सैकतम् । 'सिकताशर्कराभ्यां च '५ । २ । १०४ ॥ इति मत्वर्थीयोऽण् । “तदस्मिन्नस्तीति देशे तन्नाम्नीत्यर्थे 'शङ्क (सङ्क) लादिभ्यश्च '४।२ ७५ ॥ इत्यत्रापि सैकतमिति सिद्ध्य३० ति’[॰]इति कलिङ्गः। ‘“तोयोज्झितं" तत्पुलिनं सैकतं सिकतामयम्''[ अमरकोषः २ । १० १९ ॥ ] इत्यमरो भिनत्ति ॥
Jain Education International
[ तिर्यक्काण्डः -४, अप्कायः
अन्तरीपं तु द्वीपमन्तर्जले तटम् ॥१०७८॥ ३०
१ अन्तर्गता आपोऽस्मिन्निति अन्तरीपम्, क्लीबे । 'ऋक्पूरब्धू:- '५।४।७४ ॥ इत्यादिना समासान्तो ऽप्रत्ययः, 'द्र्यन्तरुपसर्गेभ्योऽप ईत् '६ ॥ ३ ॥ ९७ ॥ 1 २ द्विर्गता आपोऽस्मिन्निति द्वीपम् । 'ऋक्पूरब्धूः - '५।४।७४ ॥ इत्यप्रत्ययः, 'द्व्यन्तरुपसर्गेभ्योऽप ईत् ६ । ३ ।९७ ॥ । " द्वीपोऽस्त्रियाम् " [ अमरकोषः २ । १० ॥८ ॥ ] इत्यमरः । जलस्य अन्तरिति अन्तर्जलम्, तत्र । द्वे जलमध्यगततटस्य ॥१०७८ ॥
तत्परं पार॑म्
१ समुद्रस्य तत् तटं परं परत्र स्थितं तन्नामैकं पारम् इति । पार्यते समाप्यते क्रियाऽत्रेति पारमस्त्रियाम् । ४० 'पार तीर कर्मसमाप्तौ ' ( चु.उ.से.) चुरादिण्यन्ताद् 'एरच्' ३।३।५६॥ । ‘“पारं परतटे प्रान्ते "[ विश्वप्रकाशकोशः, रान्तवर्ग:, श्रो- १६] इति महेश्वरः ॥
अवारं त्वर्वाक्
१९
१ समुद्रादेरर्वाक् पार्श्वे तटम् उखार नाम एकम् अवारम् इति । अवार्यते गम्यत इदमिति, अवपूर्वादर्त्तेर्घञ् । 'अर्धर्चादित्वाद् द्वयमप्यस्त्रियाम् "[ ]इति स्वामी । "न वार् विद्यतेऽस्येत्यवारम् " [ अम. क्षीर. १ १९ १८ ॥ स्वोपज्ञटीका४ । १०७९ ॥ ] इत्यन्ये || पात्रं तदन्तरम् ।
५०
१ तयोः पारावारयोरन्तरं मध्यं मध्यप्रवाहस्तन्नामैकं पात्रम् इति । पिबन्त्यनेन पात्रम्, त्रिलिङ्गम् । 'पा पाने' (भ्वा.प.अ.), 'सर्वधातुभ्य [ : ] ष्ट्रन्' (उणा-५९८) इति ष्ट्रन्, 'दीर्घादाचार्याणाम् ८ ।४ । ५२ ॥ इति द्वित्वनिषेधः ॥ नदी हिरण्यवर्णा स्याद् रोधोवक्रा तरङ्गिणी
॥१०७९ ॥
१. ' ञ्' इति१ ॥ २. ' बन्धने' इति क्षीरतरङ्गिण्यादयः ॥ ३. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो- २३५, पृ. २८० ॥ रामाश्रमी १ । १०७ ॥ पृ.१२२ । ४ ' - यां' इति५ ॥ ५. क्षीरतरङ्गिण्यां चुरादौ 'तड आघाते' (पृ. २९५, धातुसं - ३८ ) इत्यत्र स्वामिनोक्तम्- "तट इत्येके तात ताडय ताटकाम्, ताटकः " इति ॥ ६ 'दिः' इति३ ॥ ७ इतोऽग्रे ५ प्रतौ, 'ति:' इति दृश्यते ॥ ८ द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्लो-२३७, पृ.२८१॥ ९, 'वा' इति४ ॥ १०. त्रिकाण्डशेषे वचनमिदं नोपलभ्यते ॥ ११. ' -ज्झि-' इति ॥ १२. २प्रतौ नास्ति ॥ १३. द्र टीकासर्वस्वम्, भा-१, १1१०९ ॥, पृ. १८१ ॥, धातुप्रदीपे- "पृषोदरादित्वात् सिकताः " इत्येव दृश्यते, पृ. ६२ ॥ १४ '-' इति१, 'र्थ' इतिर ॥ १५. त्थितं इत्यमरकोषे ॥ १६ -तायामयम्' इति३ ॥ १७ -ऽप-' इति३.४.५ ॥ १८ दिः' इति३ ॥ १९. अम.क्षीरस्वामिकृतटीकायां न दृश्यते ॥ द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२३६, पृ. २८० ॥ २०. ' अन्ये' इति ३तौ नास्ति ॥ २१. तुलनीयोऽमरकोषः २ । १०४८ ॥ २२. -र-' इति१.४ ॥ २३ 'ङ्गः' इति३ ॥
For Private Personal Use Only
www.jainelibrary.org