________________
४८६
(रु.प.से.) अस्मात् 'स्फायितश्चि- ' (उणा - ११३ ) इत्यादिना रक्, 'अनिदितां हल:- ६ ४ २४ ॥ इति न्लोपः । उक्तं च वायुपुराणे - " आपां चैव समुन्देने स समुद्र इति स्मृतः " [] इति । " मुद्रा मर्यादा, तया सह वर्तते "[]इति तु पञ्जिका । "सम् सम्यग् उद् गतौ रोऽग्निः "[ ]इति तु कौमुदी । मुदं रान्ति ददति तानि मुद्राणि रत्नानि, मुत्पूर्वाद् राते: 'आतोऽनुपसर्गे कः '३ । २ । ३ ॥ तैः सह वर्तत इति वा ॥१०७३ ॥ १७-१८ मकरशब्दाद् रत्नशब्दाच्चाऽग्रे आकरो योज्यः । मकराणामाकर उत्पत्तिस्थानं मकराकरः, १० मकरालयोऽपि । रत्नानामाकरो रत्नाकरः, रत्नराशिरपि । १९-२९ जलशब्दादग्रे निध्यादयो योज्याः, तेन जलनिधिः । जलनिधैश्चान्योपसर्गनिवृत्त्यर्थमुपादानम् । जलधिः, जलराशिः । यौगिकत्वाद् [वारिनिधिः, वारिधि:,] वारिरशिरित्यादयः । एकविंशतिः समुद्रस्य । शेषश्चात्र" समुद्रे तु महाकच्छो दारदो धरणीप्लवः । महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ॥१॥" [शेषनाममाला ४ । १६७ ॥] ॥
द्वीपान्तरा असङ्ख्यास्ते ।
अभिधानचिन्तामणिनाममाला
ते समुद्राः, द्वीपान्यन्तरें येषां ते द्वीपान्तराः, अस२० ङ्ख्याः सङ्ख्यारहिताः ॥
सप्तैवेति तु लौकिकाः ॥१०७४॥
तु पुनः, लौकिका मिथ्यादृष्टयो गतानुगतिकाः सप्तैव समुद्रा इति प्राहुः ॥१०७४॥
तानाह
लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।
लौकिकसप्तसमुद्राणां नामानि, लवणं क्षीरं दधि आज्यं सुरा इक्षुरसं स्वादु च वारि येषां ते तथा, १ लवणवारिः लवर्णसमुद्रः १, २ क्षीरवारिः क्षीरसमुद्रः २,
[ तिर्यक्काण्डः - ४, अप्कायः
३ दधिवारिः दध्युदसमुद्रः ३, ४ आज्यवारिः घृतोदसमुद्रः ४, ५ सुरावारि: सुरोदसमुद्रः ५, ६ इक्षुवारिः ३० इक्षूसमुद्रः ६, ७ स्वादुवारिः स्वादूदसमुद्रः ७ । यदाहुः" लावणो १ रसमयः २ सुरोदक : ३ सार्पिषो ४ दधिजल: ५ पयः पयाः ६ ।
Jain Education International
स्वादुवारि ७रुदधिश्च सप्तमस्तान्
परीत्य त इमे व्यवस्थिताः ॥१ ॥ " [ ]इति ॥ तरङ्गे भेङ्गवच्युयुत्कलिकाः
१ तरति ऊर्ध्वं तिर्यक् प्लवते तरङ्गः । तृ प्लवनतरणयो:'(भ्वा.प.से.), 'त्रादिभ्यश्च' (उणा- ११७ ) इत्युङ्गच् । तरन् गच्छतीति वा, पृषोदरादिः, तत्र । २ भज्यते वायुना भङ्गः । 'भञ्ज आमर्दने' (रु.प.अ.), भावे ४० घञ्, 'चजो : - ७।३५२ ॥ इति कुत्वम् । ३ वाति गच्छतीति वीचिः । ' वा गतिगन्धनयो: ' ( अ.प.अ.), 'वाते: कित्' (उणा- () इतीचिः, 'आतो लोपः - '६ ॥४ ॥६४ ॥ इत्यालोपः । "विस्मयं चिनोतीति पृषोदरादिर्वा । जलैरिति वा । 'वेञ् तन्तुसन्ताने ' (भ्वा.उ. अ.), 'वेजो डित् (डिच्च)' (उणा-५१२ ) इतीचिः, स्त्रियाम् । ४ ऋच्छत्यूर्ध्वं तिर्यक् चेति ऊर्मिः, अस्त्रियाम्, दीर्घादिः । 'ऋ गतौ ' (भ्वा.प.अ.), 'अर्तेरूच्च' (उणा - ४८४ ) इति मिप्रत्ययः । "ऊर्मिः स्त्रीपुंसयो: " [ ] इति गौडः । ५ उत्कलते उत्कलिका । 'कल सङ्ख्याने '(भ्वा.आ.से), क्वुन् । ५० पञ्च तरङ्गस्य ॥
१८
महति त्विह ॥ १०७५ ॥
लहेर्युल्लोलकल्लोलाः
१ इह तरङ्गे महति वृद्धे ॥१०७५ ॥ जलं हरति लहरिः, पृषोदरादित्वात्, 'कृदिकारात्- '( गणसू- ४११ ०४५ ॥ ) इति ङीषि लहरी । २ उद् ऊर्ध्वं लोलति उल्लोलः । 'लुल विलोलनें' ( ), अच् । उल्लोलयति उन्मादयति
१. ' - दिरक्' इति१, 'इति रक्' इति४ ॥ २. ' - दन्ते' इति३, 'सुनन्देन' इति५ ॥ ३. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२२९, पृ.२७१ ॥ ४ 'ददाति' इति३.५ ॥ ५ -धि-' इति२.५ ॥ ६ 'ति' इति१.२.३ ॥ ७ ' - धरः' इति ॥ ८ 'रं' इति१, 'रा' इति ॥ ९. - णोदधिः स- ' इति, ' - णोदस-' इति२ ॥ १०. 'इक्षु-' इति१.५, 'इक्षो-' इति४ ॥ ११. स्वादु-' इति, 'स्वादूदश- इति५ ॥ १२ द्र. स्वोपज्ञटीका ४।१०७५ ॥, पृ. २३९ ॥ १३. 'इञजादिभ्यश्च' इति३, 'तरत्यादिभ्यश्च' इत्युणादिगणसूत्रम् ॥ १४. 'तू' इति३ ॥ १५. ' -चः' इति५ ॥ १६. ' विश्म -' इति१.३ ॥ १७. 'वेति' इति१.३ ॥ १८. भ्वादेरभिहितत्वात् 'शब्दसङ्ख्यानयो:' इति युक्तः ॥ १९. पि' इति३ ॥ २०. मा. धातुवृत्तौ भ्वादौ 'लुट विलोडने' इत्यत्र सायणेनोक्तम्- "भूसूत्रे सुधाकर:- "लुल विलोडने' इति लान्तोऽपि दृश्यते, "लोलद्भुजाकारबृहत्तरङ्गम्" [ शिशुपालवधम्, सर्ग: ३, श्री - ७२] इति माघः । डलयोरेकत्वस्मरणमिति वा प्रतिविधेयम्" इति" इति धातुसं - २११, पृ. १११ ॥
For Private Personal Use Only
www.jainelibrary.org