________________
२९-३८ ]
व्युत्पत्तिरत्नाकरकलिता
" श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि ।
द्वयोर्द्वयोर्वाचनयो: साम्यादासन् गणा नव ॥१॥" [ त्रिषष्ठिशलाका - पर्व, १० । श्री - १७५] इति ॥ एकादशगणाधिपाः । इन्द्रभूतिरग्निर्भूतिर्वायुर्भूतिश्च गोतमाः ॥३१॥ व्यक्तः सुधर्मी मण्डितंमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥३२॥
श्रीमहावीरस्य गणाधिपाः गच्छाधिपाः एकादश, तन्नानि । १ इन्द्रोऽस्य भूयादिति इन्द्रभूतिः । क्तिच्तौ च १० संज्ञायाम् '३ | ३ |१७४ ॥ इति क्तिच्, 'तितुत्र- ७ २ १९ ॥ इति इनिषेधः । २ एवम् अग्निरस्य भूयादिति अग्निभूतिः । ३ वायुरस्य भूयादिति वायुभूतिः । एते त्रयोऽपि गोतमस्यापत्यानि गौतमाः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' ४ । १ । ११४ ॥ इत्यण् । बहुत्वे ' तद्राजस्य बहुषु तेनैवास्त्रियाम् ' २ ।४ ।६२ ॥ इत्यणो लुक्, गोतमाः, गोतमवंशजा इत्यर्थः ॥३१॥ ४ व्यज्यते गुणैः कृत्वेति व्यक्तः । विपूर्वः 'अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु' (रु. प. वे), क्तः, 'चोः कुः '८ ।२ ३० ॥ इति जस्य गत्वं, 'खरि च '८ | ४|५५ ॥ चर्वं ककार:, 'अनिदिताम्- '६ १४ १२४ ॥ इति न्लोपः । ५ शोभनो धर्मोऽस्य सुधर्मा ।' धर्मादनिच् केवलात् ५ |४|१२४ ॥ इत्यनिच् । २० सुधर्माणौ, सुधर्माण: इत्यादि । अग्निवैश्यगोत्रजश्च । ६-७ ज्ञानादिगुणैर्मण्ड्यते स्म मण्डितः । 'मडि भूषायाम् ' ( भ्वा.प.से.), क्तः, ‘आर्धधातुकस्येड् वलादे: ' ७ ।२।३५ ॥ इतीट् । मौर्यस्य पुत्रो मौर्यपुत्रः मण्डितमौर्ययोः पुत्रौ इति । मण्डितपुत्रोऽपि । एतौ
Jain Education International
११
१ प्रभवन्ति शास्त्राण्यस्मादिति प्रभवः । प्रकृष्टो ज्ञानादिगुणानां भवः प्राप्तिर्वा यस्य, यस्माद्वा प्रभवः स चासौ प्रभुश्च प्रभवप्रभुः । २ शय्यायां भवति शय्यम्भवः । पृषोदरादिः । ४० ३ यशसा भद्रः कल्याणरूपो यशोभद्रः । ४ सं सम्यग् भूतः प्राप्तो रागादीनां विजयो येन स सम्भूतविजयः ॥ ३३ ॥ ५ भद्रौ बाहू अस्य भद्रबाहुः । ६ स्थूलमुपचितं भद्रं कल्याणमस्य स्थूलभद्रः । एते षडपि श्रुतेन केवलिनः श्रुतकेवलिनः, चतुपूर्वरत्वात् ॥
महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥३४॥
१ प्रसरत्परीषहोपसर्गादिपवनपूरैरकम्प्यमानत्वाद् महागिरिरिव महागिरिः । २ दु: कर्मद्रुमोन्मूलने सुहस्तीव सुहस्ती । महागिरिसुहस्तिनावाद्यौ येषां ते महागिरिसुहस्त्याद्याः । १० परतीर्थिकदर्पाचलदलने वज्र इव वज्रः वज्रस्वामी । सोऽन्ते येषां ५० ते वज्रान्ता: । दशभिः पूर्वैः कृत्वा पूर्विणोः दशपूर्विणः । दश पूर्वाण्येषाम्, सन्तीति वा । 'अत इनिठनौ' ५ ।२ ।११५ ॥ इतीनिः । ततः परं 'देशपूर्वधराणामसम्भवात् ॥३४॥ इक्ष्वाकुकुलसम्भूताः स्याद् द्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भव ॥३५॥
इक्ष्वाकुसंज्ञं कुलं वंश इक्ष्वाकुकुलं, तत्र सम्भूताः उत्पान्नाः अर्हताम् ऋषभादीनां द्वाविंशतिः । तुशब्दोऽत्र विशेषे । मुनिसुव्रतनेमी एतौ हरिवंशसंज्ञके कुले समुद्भवौ जातौ ॥३५॥ नाभिश्च जिंतशत्रुश्च जितारिरथ सर्वरः । मेघो धरः प्रतिष्ठश्च महसेननरेश्वरः ॥३६॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् ॥३७॥ सूरः सुदर्शन: कुम्भ: सुमित्रो विजयस्तथा । समुद्रविजयश्चाऽश्वसेनः सिद्धार्थ एव च ॥३८॥
१ नह्यत्यऽन्यायकारिणो हाकारादिभिर्नीतिभिरिति नाभिः, चरमकुलकर: । ' णह बन्धने ' ( दि. उ. अ.), 'नहो भश्च' (उणा-५६५) इतीन्, स च णिद् भोन्तादेश । २ जिताः पराभूताः शत्रवोऽनेनेति जितशत्रुः । ३ एवं जिता अरयोऽनेन जितारिः । ४ संवृणोतीन्द्रियाणि संवरः । 'वृञ् वरणे' (स्वा.उ.से.), पचाद्यच् । ५ निखिलजनमनोदुःखसन्तापहरणाद् मेघ इव मेघः । ७० ६ धरति पृथिवीभारमिति धरः । 'धृञ् धारणे' (भ्वा.उ. अ.), पचाद्यच् । शत्रुप्रचण्डपवनैरकम्प्यत्वाद् धर इव अद्रिरिव धरः । ७ प्रकर्षेण तिष्ठति धर्मकार्ये इति प्रतिष्ठः । ८ महापूज्या सेनाऽस्य
वाशिष्ठकाश्यपगोत्रौ । ८ न कम्पितवान् इति अकम्पितः । 'कपि चलने'(भ्वा.आ.से), क्तः, ‘आर्धधातुकस्य - '७।२।३५ ॥ इतीट् । गौतमगोत्रः । ९ अचलस्य भ्राता अचलभ्राता । हारितगोत्र: । १० मां लक्ष्मीम् इतः प्राप्तः मेत:, स चासौ आर्यश्च मेतार्यः । ११ प्रभासते प्रभासः। ‘भासृ दीप्तौ’(अ.आ.से.), पचाद्यच् । एतौ कोण्डिन्यौ । पृथग् विभिन्नानि कुलानि येषां ते पृथक्कुलाः ॥३२॥ ३० केवली चरमो जम्बूस्वामी
१ चरमः अन्तिमः केवली केवलज्ञानवान्, न तु तीर्थङ्करैः । ततः परस्यामवसर्पिण्यां केवलिनामसम्भवात् सद्गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बूः, स चासौ स्वामी जम्बूस्वामी ॥ अथ प्रभवप्रभुः । शय्यम्भवो यशोभद्र सम्भूतविजयस्तथा ॥ ३३॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । १. 'एतन्नामा-' इति २ ॥ २. 'हरितगोत्र: ' इति २ ॥ ३. 'तीर्थकर:' इति १.४ ॥ ४. 'ततः ' इति २ ॥ ५. १ महागिरिः, २ सुहस्ती, ३ श्रीगुणसुन्दरः, ४ श्यामार्यः, ५ स्कन्दिलार्यः, ६ रेवतीमित्रः, ७ श्रीधर्मा, ८ भद्रगुप्तः ९ श्रीगुप्तः, १० वज्रस्वामीति दशपूर्वधराः ॥ ६. महासेन -' इति मुद्रिते ॥
For Private & Personal Use Only
६०
www.jainelibrary.org