________________
१०
'णर्मु प्रह्वत्वे शब्दे[च]'(भ्वा.प.अ.) अस्य पृषोदरादित्वाद् वा । 'अरिष्टनेमिपृतनाजमाशुम् ' [ ] इति निगमः । 'नेमी' इति नकारान्तोऽपि यथा 'वन्दे सुव्रतनेमिनौ' [ ] इति प्रयोगः । २३ स्पृशति जानाति ज्ञानेन सर्वमिति पार्श्वः । 'स्पृश संस्पर्शने'. ( तु.प.अ.), पृषोदरादिः । गर्भस्थे भगवति जनन्या शय्यास्थया सान्धकाररजन्यां कृष्णसर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तार्थत्वात् पार्श्वः । पार्श्वनामा यक्ष सेवकोऽस्येति वा । 'अर्शआदिभ्योऽच्' ५ २ १२७ ॥ पार्श्वनाथस्यैकदेशः पार्श्वो वा, भीमो भीमसेन इति यथा । २४ विशेषेण ईरयति कम्पयति १० प्रेरयति कर्मशत्रूनिति वीरः । विपूर्वः 'ईर गतिकम्पनयो: ' ( आ. आ.से.), पचाद्यच् । विशिष्टा ई: लक्ष्मीः तपोरूपा, तीर्थकृन्नामकर्मोदयसमुद्भूता वा, तया राजतेऽसौ वीरः । 'राजू दीप्तौ ' (भ्वा.उ.से.), 'अन्येभ्योऽपि - (अन्येष्वपि ) ३ । २ । १०१ ॥ इति डः । यद्वा ईरणमीर:, 'ईर गतौ ' ( अ.आ.से.) भावे घञ् । 'ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्च' [ ]इति वचनाद् विशिष्ट ईरो ज्ञानमस्य वीरः । यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा वाणी यस्येति वा । कर्मशत्रुसेनाजेतृत्वाद् दर्शितपराक्रमो वा वीर इव वीरः । यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वा । यदुक्तम्'विदारणात् कर्मततेर्विभञ्जनात् तपः श्रिया विक्रमतस्तथाद्भुतात् । २० भवत्प्रमोदः किल नाकनायकश्चकार ते 'वीर' इति प्रथाभिधानम् ॥२ ॥ " [ ] इति । अर्हतां वर्तमानानां चतुर्विंशतिः ऋषभादिवीरान्तानां जिनानां नामानीत्यर्थः ॥ २८ ॥
अथ विशेषतो वर्तमानावसर्पिण्यां चतुर्विंशत्यर्हतां मध्ये यस्य यावन्ति नामानि तस्य तावन्त्याहऋषभो वृषभः
१ ऋषति परमपदं गच्छति ऋषभः । २ वृषति सम्यक् संयमभारमुद्रवहति वृषभः । 'ऋषी गतौ ' (तु.प.से.), 'वृष उद्वहने' 'ऋषिवृषिभ्यां कित् ' ( उणा - ४०३ ) इत्यभच् । वृषभचिह्नत्वाद् वा । द्वे श्रीऋषभस्य ॥ श्रेयान् श्रेयांसः
३०
अभिधानचिन्तामणिनाममाला
१ त्रिभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् । २ श्रेयांसौ अंसौ अस्य श्रेयांसः । पृषोदरादिः । द्वे श्रेयांसस्य ॥ स्यादनन्तजिदनन्तः ।
१ अनन्तान् कर्मांशान् जयति अभिभवति अनन्तजित् । 'जि अभिभवे' (भ्वा.प.अ.), 'क्विप्- '३ ।२ १७६ ॥ इति क्विप्, 'हुस्वस्य- '६।१।७१ ॥ इति तुक् । अनन्तैर्ज्ञानादिभिः जयति, सर्वोत्कर्षेण वर्तत इति वा । 'जि जये' (भ्वा.प.अ.),
Jain Education International
[ देवाधिदेवकाण्डः - १ 'क्विप्- '३ ।२७६ ॥ ह्रस्वस्य - '६ १ ७१ ॥ इति तुक् । २ नास्ति अन्तो अस्य अनन्तः । द्वे अनन्तनाथस्य ॥ सुवि॑धिस्तु पुष्पदन्तः
१ शोभनो विधि: सर्वत्र कौशल्यामस्य सुविधिः । २ पुष्पाणि पुष्पकलिकाः, तद्वद् मनोहरदर्शनत्वात् पुष्पदन्तः । सुविधिनाथस्य ॥
For Private
मुनिसुव्रतसुव्रतौ तुल्यौ ॥२९॥
१ मुनिसुव्रतः प्राग् व्यारख्यातः (अभि-ले-२८ ) । २ मुनिसुव्रतैकदेशः सुव्रतः । यथा सत्यभामा भामेतिवत् । मुनिरपि, भीमो भीमसेन इतिवत् । द्वे मुनिसुव्रतस्य ॥ २९ ॥ अरिष्टनेमिस्तु नेमिः
१ रिष्टं शुभम्, न रिष्टम् अरिष्टं अशुभम् तस्याऽरिष्टस्य प्रध्वंसकत्वाद् नेमिः, चक्रधारे वा अरिष्टनेमिः । यद्वा ५० गर्भस्थे भगवति जनन्या रिष्टरत्नमयो माहनेमिर्दृष्ट इति रिष्टनेमि:, नास्ति रिष्टनेमिरन्योऽस्मादिति अरिष्टनेमिः । अपश्चिमादिशब्दवद् नञ्पूर्वत्वे साधुः । अरिष्टनेमिरिकारान्त इन्नन्तश्च । 'मात्रा तस्यारिष्टनेमिरित्याख्यां तत्पिता व्यधात् '[ ]इति । २ नयति वाञ्छितसौख्यमिति नेमिः । द्वे नेमिनाथस्य ॥
१. 'णम' इति मा - धातुवृत्तौ ॥ २. 'प्रथमाभि-' इति २ ॥ ३. 'परमं' इति ३ ॥ ४. वीरशब्दः पूर्वे व्याख्यातः, अतो द्वतीयो चरमतीर्थकृत् ॥ ५. अभवन्' इति १ ॥
वीरश्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः ॥ ३०॥
२ चरमः अन्तिमः, पश्चिम इति यावत् स चासौ तीर्थकृच्च चरमतीर्थकृत् । ३ महांश्चासौ वीरश्च महावीरः । अन्तरङ्गारिजेतृत्वात् । ४ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धते वर्द्ध- ६० मानः । 'वृधु वृद्धौ' (भ्वा.आ.से.) 'लट: शतृशानचावप्रथमासमानाधिकरणे' ३ । २ । १२४ ॥ इति लट: शानच्, 'आने मुक् ७ । २ । ८२ ॥ इति मुक् । यद्वा गर्भस्थे भगवति सिद्धार्थराजकुलं धनधान्यादिभिर्वर्द्धते इति वर्द्धमानः । ५ आराद् हेयधर्माद् यातः आर्य, देवश्चासावार्यश्च देवार्यः । देवैरर्य्यत अभिगम्यत इति वा । 'ऋ गतौ ' (जु.प.अ.), 'ऋहलोर्ण्यत्३ । १ । १२४ ॥, देवानाम् इन्द्रादीनाम् अर्यः, स्वामीति वा, 'अर्यः स्वामिवैश्ययोः ' ३ ।१ ।१०३ ॥ इत्युक्तत्वात् । ६ ज्ञातकुलोत्पन्नत्वाद् ज्ञातः सिद्धार्थराज:, तस्य नन्दनः ज्ञातनन्दनः । षण्महावीरस्य ॥३०॥ गणा नवाऽस्यर्षिसङ्घाः
अस्य श्रीमहावीरजिनस्य ऋषीणां समूहाः सङ्घाः गणाः नवसंख्याका अभूवन्ं । यद्यपि भगवतः श्रीवीरस्यैकादश गणधराः आसंस्तथापि नवानामेव गणभृतां विभिन्ना वाचना अभूवन्, यतोऽकम्पिताचलभ्रात्रोर्मेतार्यप्रभासयोश्च समाना एव वाचना अभवन् इति नवैव गणाः । यत्त्रिषष्टिशलाकापुरुषचरिते
४०
Personal Use Only
७०
www.jainelibrary.org