________________
४६८
(उणा-३६३)इत्यान(ण)कः, पृषोदरादित्वात् कलोपः । "शिङ्खानं पृषोदरादिः "[]इति स्वामी । २ धूर्वति हिनस्ति धूर्तम् । 'धूर्वी (धुर्वी) हिंसायाम् ' (भ्वा.प.से.), 'हसिमृग्रिण्वाऽमिदमितमिंलूपूधूर्विभ्य(धुर्वि )भ्यस्तन्'(उणा-३६६) । ३ मण्डयति कामलादिरोगखण्डनात् पुरुषमिति मण्डूरम् । 'मडि भूषायाम् ' (चु.उ.से.), खर्जूरादित्वादूरच् । ४ सरत्यनेन सरणम् । 'सृ गतौ ' (भ्वा.प.अ.), 'करणाधिकरणयोः - ३ | ३ | ११७ ॥ इति करणे ल्युट् । चत्वारि 'लोह - किट्टी' इति ख्यातायाः ॥ १०३८ ॥
१० सर्वं च तैजसं लोहम्
१ तेजोऽस्त्यस्य तैजसम् । ज्योत्स्नादित्वादण् । तेजसो विकार इति वा । तस्य विकारः '४ । ३ । १३४ ॥ इत्यण् वा । रोहति लोहम् अस्त्रियाम् । 'रुह प्ररोहे ' (भ्वा.प.अ.) । सुवर्णादीनां तैजसां धाम्नां (धातूनां) विकाराणामेकोक्त्या नामैकं लोहमिति । यदाहुः"सुवर्ण रजतं ताम्रं रीतिः काश्यं तथा त्रपुः ।
सीसं च धीवरं चैव ह्यष्टौ लोहानि चक्षते ॥१ ॥ [] इति । शस्त्रं तु विशेषाल्लोहमिति ।
"लोहस्तु शस्त्रके लोहं जोङ्गके सर्वतैजसे "[विश्वप्रकाश२० कोश:, हान्तवर्ग:, श्रो- ६ ] इति महेश्वरः ॥
विकारस्त्वयसः कु
अभिधानचिन्तामणिनाममाला
।
।
१ अयसो लोहस्य विकारः फालाख्यः कुशी कुं भूमिं श्यति तनूकरोति कुशी । 'शो तनूकरणे' (दि. प.अ.), 'अन्येभ्योऽपि - ' ( वा - ३।२।१०१ ) इति डः, 'जानपदकुण्ड- '४ ।१ ।४२ ॥ इत्यादिना ङीष् । " कुशों" दर्भः कुशी फाल: ''[ शाश्वतकोशः, श्रो- ३३७] इति शाश्वतः कुश्यतिष्यति वा । 'कुश शेषे ' ( दि.प.से.), 'इगुपध- ' ३ । १ । १३५ ॥ इति कः, 'जानपद- '४ ११ । ४२ ॥ इत्यादिना ङीष् । एकं कुश्या: । 'फल' इति भ
॥
Jain Education International
[ तिर्यक्काण्डः-४, पृथ्वीकायः
३०
ताम्रं म्लेच्छेमुखं शुल्वं रक्तं द्वयष्टमुदुम्बरम् ॥१०३९ । म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् । ब्रह्मवर्धनं वरिष्ठम्
१ ताम्यतेऽग्निनी ताम्रम् । 'तमु ग्लान' ( ), 'अमितम्योर्दीर्घश्च' (उणा - १७३ ) इति रक्। 'तमु काङ्क्षायाम्' ( दि.प.से.) इत्यस्य वा । ताम्रं वर्णेन वा । २ म्लेच्छदेशें मुखमुत्पत्तिरस्य म्लेच्छमुखम्, समुदितं नाम । ३ शलति द्रवति शुल्वम् । 'शल गतौ ' (भ्वा.प.से.), 'उल्वादयश्च' (उणा - ५३५) इति वनि साधुः । ४ रक्तं वर्णेन । ५ द्वे हेमरूप्ये अश्नुते व्याप्नोति, ततोऽपि तद्भवनादिति द्व्यष्टम् । द्विपूर्वाद् 'अशू व्याप्तौ (स्वा.आ.से.), अस्माद् गत्यर्थाद- ४० कर्मकाच्चेत्यादौ ('गत्यर्थाकर्मक- '३।४।७२ ॥ इत्यादौ ), चकारात् कर्तरि क्तः, 'व्रश्च - '३ । २ । ३६ ॥ इति षत्वम्, ष्टुत्वम् । ६ उल्लङ्घितमम्बरमनेनें उदुम्बरम् । पृषोदरादिः । मेदिन्यादौ तु टवर्गतृतीयमध्योऽयम् । “वृक्षभेदे टवर्गतृतीयमध्य एव''[“]इति सुभूतिसर्वधरादयः । "उदुम्बरं ( औदम्बरं) भवेत् ताम्रे फलादौ यज्ञशाखिनः "["] इत्यजयादौ त्वौदुम्बरमौकारादिवत्, उदुम्बर इति प्रकृते । " ताम्रे तु स्यान्नपुंसकम् "[मेदिनीकोशः, रान्तवर्गः श्ले - २५० ] इति मेदिन्यादिः ॥१०३९॥ ७-८ म्लेच्छ शावर भेदेन आख्यानामाऽस्येति म्लेच्छशावर भेदाख्यम्, तेन म्लेच्छम् ५० शावरम् चेत्यर्थः । ९ मर्कटास्यवर्णत्वाद् मर्कटास्यम् । १० कनति दीप्यते कनीयसम् । 'कन दीप्तौ (भ्वा. प.से.), बाहुलकादनीयसः । १९ ब्रह्मज्ञानं वर्धयति पवित्र - त्वादिति ब्रह्मवर्धनम् । 'वृधुं वृद्धौ' (भ्वा.आ.से.), नन्द्यादित्वाल्ल्युः । १२ अतिशयेन वरं वरिष्ठम् । अतिशायने इष्ठन् । कालिकनिवृत्तं तत्स्वर्णमेव । द्वादश ताम्रस्य । " पवित्रं कांस्य च "[ शेषनाममाला४ ॥ १६० ॥ ] इति शैषिके ॥
॥
१४
१. अम. क्षीरस्वामिकृतटीकायाम् - " हिनस्ति सिंहानं ध्मायमानस्यायसो मलः" इति दृश्यते, २ ९ ९८ ॥, पृ. २२२ ॥ २. ' तंः' इति४ ॥ ३ ४ प्रतौ तथा उणादिगणसूत्रे नास्ति ॥ ४ अधिकोऽयं प्रतिभाति ॥ ५. 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः, 'रुह बीजजन्मनि प्रादुर्भावे च' इति सायणः ॥ ६ इतोऽग्रे १ प्रतौ ' हलायुधः' इति दृश्यते ॥ ७ 'काश्यं' इति१. २, 'काश्यं' इति४, 'कांश्या' इति३ ॥ ८ 'त्रपुं' इति१, 'त्रपु' इति२ ॥ ९ 'वक्ष्यते' इति५ ॥ १०. द्र. अम. क्षीर. २ ।९ १९९ ॥ पृ. २२२ स्वोपज्ञटीका ४ । १०३९ ॥ पृ. २३१ ॥ ११. ' - तेजसे' इति३ ॥ १२. 'कुसी' इति१. २.५ ॥ तुलनीयोऽमरकोषः २ ।९ १९९ ॥ १३. 'फ-' इति४.५ ॥ ' - पि' इति३ ॥ १५.४प्रतौ नास्ति ॥ १६. 'ते' इति५ ॥ १७. दुर्गसम्मतोऽयं धातुः, क्षीरतरङ्गिणी, दिवादिः, धातुसं - ११२, पृ. २२९ ॥ १८. 'ङीप् ' इति२.४.५ ॥ १९. इतोऽग्रे ५ प्रतौ 'वा' इति दृश्यते ॥ २०. क्षीरतरङ्गिण्यादौ ग्लानार्थकतमुधातुर्न दृश्यते ॥ २१. 'शो' इति१. २.४ ॥ २२. क्षीरतरङ्गिण्यादौ ङकारो न दृश्यते ॥ २३. 'अशू व्याप्तौ संघाते च ' मैत्रेयसायणौ ॥ २४. ' - तमनेन' इति ॥ २५. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, - ६६९, पृ७५९ ॥ २६. द्र रामाश्रमी २९ ९७ पृ. ४४४ ॥ २७ 'शाम्ब - ' इति १.४.५ ॥ २८. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादयः ॥ २९. 'वृध' इति३ ॥ ३०. ' शयेन' इति१, शायिने' इति३ ॥ ३१. क-' इति ॥ ३२. 'काश्यं' इति१. २, 'कास्यां' इति३ ॥
॥
For Private
Personal Use Only
www.jainelibrary.org