________________
१०१०-१०१३]
तट्टीका । सामान्येन कडाप्रमुखछज्जेनामैकं वलभी । वलभीशब्दो मइडीपर्यायोऽपि । " वलभिः गृहोपरि कुटि: पटलाधारश्च वंशपञ्जरः "[ ] इति लिङ्गानुशासनविवरणम् । “यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः " [ शिशुपालवधम्, सर्गः - ३, श्लो - ५३ ] इति माघः । “यस्यां द्वारकायां युवानः वधूभिः समं वलभीरुपरि वसतीर्भेजिरे " [] इति तट्टीका । वरण्डीपर्यायोऽप्ययम् ॥
व्युत्पत्तिरत्नाकरकलिता
नागदन्तास्तु दन्तकाः ॥१०११ ॥ १ नागस्येव दन्ता नागदन्ताः । २ दन्तप्रतिकृतयो १० दन्तकाः । 'इवे प्रतिकृतौ'५|३|९६ ॥ इति कन् । 'खूंटा' नाम्नी द्वे । निर्यूहोऽपि । " द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके "[ अमरकोषः ३ | ३ |२३६ ॥ ] इत्यमरः । " आपीडो गृहादेर्निःसृतं दारु, नागदन्तको भित्तिस्थः कीलकः "[] इति तट्टीका ॥१०११॥ मत्तलम्बोऽपाश्रयः प्रग्रीवो मत्तवारणे । स्यात् १ मत्तैः प्रमादिभिरालम्ब्यते मत्तालम्बः । २ अपाश्रीयते अपाश्रयः । ३ प्रसृता ग्रीवोऽत्र प्रग्रीवः, पुंक्लीबलिङ्गः । ४ मत्तान् वारयति मत्तवारणः । नन्द्यादित्वाल्ल्युः । जनानामुपवेशनार्थस्थानम्, तत्र । मत्त२० वारणानामानि चत्वारि ॥
वातायनो गवाक्षश्च जालके
१ वातस्याऽयनं गमनमनेनेति वातायनः, पुंक्लीबलिङ्गः। पुंसि वामनः, क्लीबे माला । २ गवां नयनरश्मीनाक्षीव, यथा अक्ष्णो नयनाद् रश्मयः प्रसरन्ति तथाऽत्राऽपीति भावः । ' अक्ष्णोऽदर्शनात् '५ ४ ॥७६ ॥ इत्यच्समासान्तः, 'अवङ् स्फोटायनस्य ६ । १ । १२३ ॥ इति व्यवस्थितविभाषया जालके नित्यमवङ् गवाक्षः, पुंसि । प्राणिनि तु गोऽक्षः । " वधूदृगयनं गवाक्षो जालकं वा "[ ] इत्यन्ये । ३ जलति जालम् । 'जल घात्ये' (भ्वा.प.से.), ज्वलादित्वाण्णः, ३० के जालकः, तत्र । 'गउख 'नामानि त्रीणि ॥
अथाऽन्नकोष्ठकः ॥१०१२॥
Jain Education International
४५३
१ कुष्णाति कोष्ठः, पुंसि । 'कुष निष्कर्षे ' (क्र्या.प.से.), 'उषिकुषि - ' ( उणा - १६१ ) इति थन्, स्वार्थे कनि कोष्ठकः । अन्नस्य कोष्ठकः अन्नकोष्ठकः ॥१०१२ ॥ २ कुर्ति धान्येनेति कुसूलः । 'कुस श्लेषे ' (दि.प.से.), 'कुसेरूल: ' ( ) इत्यूलः । "कुसीदं च कुसूलं च मध्यदन्त्यमुदाहृतम् "[ ] इति शब्दप्रभेदः । तालव्यमध्योऽपि । धान्यगृहस्य द्वे । 'कोठार' इति भाषा ॥
कुसूल:
इति३ ॥ ४ 'कः' इति१. २ ॥ ५. 'निसृतं' इति१. २.३ ॥ ६.
१. छज-' इति३.४ ॥ २. ४प्रतौ नास्ति ॥ ३ 'मइड्डी' इति१, 'मै-' 'पुंक्लीबः' इति४ ॥ ७ नां नामा' इति१ ॥ ८. 'पुंक्लीबः' इति५ ॥ ९. धान्ये' इति मैत्रेयः, 'घातने' इति सायणः ॥ १०. 'घञ्' इति३.५ ॥ ११. 'ते' इति ॥ १२. 'शब्दप्रकरणे' इति३ ॥ १३. 'अणिति' नास्ति ॥ १६. द्र. पदचन्द्रिका, भा-२, पुरवर्ग:, श्रो-३६, पृ. ५३ ॥ १७
इति१ ॥ १४ ' - तञ्चि-' इति १ २ ३ प्रतिषु नास्ति ॥ १५. १ प्रतौ -डा' इति ॥
For Private
अश्रिस्तु कोणोऽणिः कौटिः पाल्यत्रंइत्यपि । ४०
१ आश्रीयत इति अश्रिः । आङ्पूर्वात् 'श्रिञ् सेवायाम् ' (भ्वा.उ.से.) इत्यस्मात् 'आङि श्रिहनिभ्यां ह्रस्वश्च' (उणा - ५७७ ) इति सूत्रेण इण्प्रत्ययः, स च डित्, आङो ह्रस्वत्वं च । अश्नुत इति वा अश्रिः । 'वङ्क्यादयश्च'(उणा५०६) इति साधुः, स्त्रीलिङ्गः । २ कुणति कोणः । 'कुण शब्दोपकरणयो:' (तु.प.से.), पचाद्यच् । ३ अणर्ति अणिः, पुंस्त्रीलिङ्ग: । 'अण शब्दे' (भ्वा.प.से.), 'इन्' (उणा-५५७) इतीन्प्रत्ययः । ४ कुटति कोटिः, स्त्रीलिङ्गः । 'कुट कौटिल्ये' (तु.प.से.), इन् । ५ पलति पालि: । 'पल गतौ ' (भ्वा. प.से.), ‘कॄहृ(शृ)कुटि-'(हैमोणा - ६१९) इति णिदिः, ङ्यां ५० पाली । ६ अस्यतेऽस्मिन्निति अस्त्रः । ' असु क्षेपणे' (दि. प.से.), 'स्फायितञ्चि- '(उणा - १७० ) इति [ बाहुलकाद्] रक्। दन्त्यरेफाद्यस्वरान्तः । 'खूणा 'नामानि षट् ॥
T
आरोहणं तु सोपानम्
१ आरुह्यतेऽनेनेति आरोहणम् । करणे ल्युट् । २ उपपूर्वादनितेर्भावे घञ, धातूनामनेकार्थत्वादुपमानमाधिक्येन प्रापणम्, तेन सह वर्तत इति सोपानम् । " सह उपानेन ऊर्ध्वगमनेन वर्तते इति सोपानम् "["] इत्यन्ये । " सोपानपथमुत्सृज्य वायुवेग [:] समुद्धतः ( समुद्धृतः ) " [काव्यालङ्कारः २।१।२२ ॥ ] "स वायुवेगसमुद्धतोऽपानपथ - ६० मुत्सृज्य''[ ] इति पदभङ्गेऽश्लीलत्वाद् भेदे दन्त्यादित्वम्, “सौपानसिन्धुसाध्याः सम्बाधसमूहसत्त्राणि "[" ] इति दन्त्यादावूष्मविवेकाच्च । पाषाणेष्टकादिकृतारोहणमार्गनाम्नी द्वे । 'पाउड साला' इति भाषा ||
Personal Use Only
www.jainelibrary.org