________________
४५२
कपोतपाली विटङ्कः
१ कपोतान् पक्षिणः पालयति कपोतपाली, स्त्रीलिङ्गः । 'पाल रक्षणे ' ( चु.प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥ गौरादिः । २ विशिष्टं टक्यत इति विटङ्कः । 'टकि छेदने ), कर्मणि घञ्, पुंक्लीबलिङ्गः । द्वे 'कइवाली' इति ख्यातायाः । " वलभ्यधोभागे कृत्रिमं पक्षिस्थानम् ' [ ] इति हलायुधटीका । "पक्षिविश्रामार्थं बहिनिर्गतं दारु वक्रदार्वाधारः, पक्षिपङ्क्तिर्हि तत्रोत्कीर्यते” [ अभि-, स्वोपज्ञ- टीका ४।१०१० ॥ ] इति मूलटीका । १० “चिक्रंसया कृत्रिमपक्षिपतेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥" [ शिशुपालवधम्, सर्गः - ३, श्लो-५१] इति माघः || पटेलच्छर्दिषी समे ॥१०१०॥
अभिधानचिन्तामणिनाममाला
१ पट्यते पटतं गमयति स्थगयत्युदकं वा पटलः, त्रिषु । 'पट गतौ ' ( भ्वा.प.से.), वृषादित्वात् कलच् । “पटं लातीति पटल: "[ अम.क्षीर. २ । २ । १५ ॥ ] इति भट्टः । २ 'छाद्यतेऽनेनेति' छदिः । 'छद अपवारणे' (चु.उ.से.), चुरादिण्यन्तः, 'अर्चिरुचिशुचिहुसृपिछादिछृदि (छर्दि ) भ्य: इस् (इसि:) '(उणा-२६५)इतीस् (-सिः), 'इस्मन्त्रिन्क्विषु च ' २० ६ १४ ।९७ ॥ इति ह्रस्वः । छदिषी, छदींषि इत्यादि क्लीबे | छादिरिति द्वितीयस्वरादिरपि । छादिः, छादिषी, छादींषि इत्यादि । द्वे 'छाजी' इति ख्यातस्य । 'पडाल' इति भाषा
॥ १०१० ॥
नीव्रं वलीकं तत्प्रान्तः
१ निश्चयेन व्रियते संक्रियतेऽनेन, नीयते जलमनेन व नीम् । निपूर्वाद् 'वृञ् वरणे' (स्वा.उ.से.) इत्यस्माद् मूलविभुजादित्वात् कः, पृषोदरादित्वाद् दीर्घः । ' णीञ् प्रापणे' (भ्वा.उ. अ.) इत्यस्य वा, 'खुरक्षुर - ' (हैमोणा-३२६) इति निपात्यते वा । २ वलते संवृणोति वलीकम्,
[ तिर्यक्काण्डः-४, पृथ्वीकायः
पुंक्ली. । 'वल वल्ल संवरण' (भ्वा.आ.से.), 'अलीका- ३० दयश्च' (उणा - ४६५ ) इति साधुः । वलत्यावृणोति कुड्यादिकं वा, अनेनैव साधुः, वलीनि संवलितानि कानि तोयानि यत्र तद् वलीकम् । 'अन्येषामपि - '६ |३ | १३७ ॥ इति दीर्घः । द्वे 'नेव' इति ख्यातस्य । तस्य छदिषः प्रान्तस्तत्प्रान्तः । “नीव्रं वलीकं पटलान्तमाहुः "[ हलायुधकोशः २ । ३०३ ।।] इति हलायुधः ॥
Jain Education International
इन्द्रकोशस्तमङ्गकः ।
१ इन्द्रेण कुश्यतीव इन्द्रकोशः । 'कुश श्लेषे ' (दि.प.से.), अच् । २ ताम्यन्ति काङ्क्षन्त्येनं तमङ्गः । 'तमु काङ्क्षायाम् ' (दि.प.से.), 'वि (बि) डादिभ्यः कित्' ४० (उणा - ११८) इत्यङ्गच् स च कित् । द्वे 'घोडला' इति ख्यातस्य । निर्यूहोऽपि । “निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके ''[ विश्वप्रकाशकोशः, हान्तवर्ग:, श्लो- १८] इति महेश्वरः । शेखरो गृहादेर्बहिर्निर्गतं दारु । " रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीड: "[शिशुपालवधम्, सर्गः - ३, श्लो - ५५ ] इति माघः | नागदन्तको भित्तिनिखातकीलकः । यथा - " निर्यूहकोल्लम्बिततारहारै: "[] ॥ वलभी छदिराधारः
२०
१ वडति वडभी । 'वड आग्रहणे ' ( ), सौत्रो धातुः, 'कृशलिगर्दिभ्योऽभच्' (उणा - ४०२ ) इति बाहुल - ५० कादभच्, लत्वे च वलभी। " 'वल संवरणे (भ्वा.आ.से.), बाहुलकादर्भाचि पिष्पला (पिप्पल्या ) दिदर्शनाद् ङीष् ''[ मा. धातुवृत्तिः, भ्वादि:, धातुसं - ३२२] इति माधवः । अमिकारान्तोऽपि । छदिषो गृहाच्छादनस्य आधारः छदिराधारः । क्वचित् सुधा क्वचित् तृणानि क्वचिन्मृत्तिका तदाधारभूतवंशपञ्जरादिः । " आच्छादनं स्याद् वलभी गृहाणाम् ''[हलायुधकोशः २ । ३०३ ॥ ] इति हलायुधः । " वर - ण्डिकायां" गृहोपरिस्थितभूमिकायां वा वलभी "[ ]इति
१. ' बन्धने' इति क्षीरतरङ्गिण्यादयः ॥ २. 'कवाली' इति५ ॥ ३' दार्वाधः' इति३ ॥ ४ पत्त्रि-' इति शिशुपालवधे, पृ. ८० ॥ ५ ' क्तिः ' इति ॥ ६ -ङ्गां' इति३ ॥ ७ 'ते' इति३ ॥ ८. 'पटं लाति पटलं' इति अम.क्षीर, पृ.७६ ॥ ९ १.२प्रत्योर्नास्ति ॥ १०. दिर्ण्य' इति१.३ । ११ इतोऽग्रे ४प्रतौ 'क्लीबे' इति दृश्यते ॥ १२. 'छाज' इति१.२ ॥ १३. 'इत्या-' इति५ ॥ १४ इतोऽग्रे ५ प्रतौ 'पुंक्ली' इति दृश्यते ॥ १५. ' - दे:' इति४ ॥ १६. 'वल संवरणे' इति स्वामी, 'वल वल्ल संवरणे' इति मैत्रेयः. 'वल वल्ल संवरणे सञ्चरणे च' इति सायणः ॥ १७ ' इत्या-' इति३ ॥ १८. ' - लात - ' इति४.५ ॥ १९. दुर्गसम्मतोऽयं धातुः द्र. क्षीर, दिवादिः, धातुसं- ११२, पृ. २२९ ॥, मा. धातुवृत्तिः, दिवादिः, धातुसं - ११७, पृ. ४३८ ॥ २०. प्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३७५९ ॥ पृ. ३१२ ॥ २१. 'कृशृशलि - ' इत्युणादिगणे ॥ २२. १.२.३प्रतिषु नास्ति ॥ २३. स्वामिसम्मतोऽयं धातुपाठः ॥ २४. 'वल्लभी' इति५ ॥ २५. ' - या:' इति४.५ ॥
For Private Personal Use Only
www.jainelibrary.org