________________
४५०
बहिर्द्वारं तु तोरणम् ॥१००७॥ १ द्वाराद् बहिरिति बहिर्द्वारम् । २ स्तुवन्तो रणन्ति शब्दायन्तेऽत्रेति तोरणम् । "पृषोदरादिः "[ ] इति स्वामीँ । “मङ्गलार्थं तुरन्ति त्वरयन्त्यत्रेति, अधिकरणे ल्युटि तोरण:''[`]इति तु भट्टेः । ' 'तुरी त्वरणहिंसयः'
(
), द्वे मूलद्वाराद् बहिर्द्वारस्य "[ ]इति कोक्कटः । " द्वाराग्रनिखातस्तम्भयोरुपनिबद्धनानारत्नवस्त्रादिमयतोरणस्य " [] इति सर्वधरः । तथा च "दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन''[मेघदूतम्, उत्तरमेघ:, श्लो- १२] इति मेघः । अत १० एव - "द्वाराद् बहि: कल्पनाद् बहिर्द्वारं वन्दनमालेति (ख्यातस्य "[]इति) केचित् । द्वाराग्रे स्तम्भोपरि निबद्ध ' बहिर्द्वारम् तस्य द्वे । " द्वाराग्रे स्तम्भोपरि रचितं सिंहद्वाराख्यम्''[]इति स्वामीं'। 'बाहिरली बारणा' इति भाषा ॥ "तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।
१०
कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम् ॥ १ ॥ [ ] इति हरिवंशः ॥ १००७ ॥
अभिधानचिन्तामणिनाममाला
तोरणोर्ध्वे तु मङ्गल्यं दाम वन्दनमालिका ।
१ तोरणस्योपरि मङ्गलार्थं सहकारादिपल्लवनिर्मितं दाम माला । वन्दनाय माला वन्दनमालिका । एकं वनर२० (वन्दन)मालायाः । तोरणोर्ध्वे बहिर्द्वारस्योपरि मङ्गलार्थं सहकारादिपल्लवनिर्मितं दामबन्धनं वन्दनमालिकेत्यन्वयः । तोरणमपि यद् हलायुधः - "बुधैर्वन्दनमाला च (तु) तोरणं परिकीर्त्यते ' [ हलायुधकोशः २ । ३०१ ॥ ] इति । " द्वाराग्रबद्धमाल्यमालायां द्वौ [ ] इति तट्टीका ।
स्तम्भादेः स्यादधोदारौ शिला
१ " स्तम्भस्याऽधस्तात् स्तम्भाधारदारुणि शिला" [ ] इति भट्टादयः । शिलति शिला । 'शिल उच्छे ' ( तु.प.से.), 'इगुपध- '३ । १ । १३५ ॥ इति कः, टाप्, तालव्यादिरयम् । "शिल उच्छे स्त्रियां ग्रावद्वाराधः स्थित
[ तिर्यक्काण्डः - ४, पृथ्वीकायः दारुणो:''[”]इति तालव्यादौ रभसात् । कप्रत्ययान्ताद् ३० गौरादित्वाद् ङीषि 'शिली' इत्यपि ।"
नासा दारूर्ध्वमस्य यत्"["]इति वोपालितः । कुम्भीनामैकं शिला [इति ] । वास्तुशास्त्रविदो हि- पूर्व अङ्गणसमानं 'तलगटा' इति शिलाकुट्टप्रसिद्धभाषाकं स्थापयन्ति, तदुपरि कुम्भी, तदुपरि स्तम्भमिति क्रमः अत्र तु सामान्येन ' स्तम्भादेरधः' इति कथनात् 'तलगटाकुम्भी' इत्युभयं शिलाशब्देन ज्ञेयम् । गौडास्तु - " स्तम्भो दार्वन्तरस्थापनार्थं यदासज्यते सा शिला" ["] इत्याहुः । तदा भरणा तदुपरि सिरा, तयोर्नाम शिलेति बोध्यम् ॥ नासोर्ध्वदारुणि ॥ १००८ ॥ ४०
Jain Education International
१ स्तम्भादेरुपरि स्थितं दारु नासा । 'णासृ शब्दे' (भ्वा.आ.से.), 'गुरोश्च - ३ | ३ |१०३ ॥ इत्यकारः, टाप् । " विज्ञेया नासिका नासा नासा दारूर्ध्व (द्वारोर्ध्व) दारु च "
१४
["] इति दन्त्यान्तेषु रभसात् । "नासादाविति चतुरक्षरं नाम "[ ] इत्येके । एकं स्तम्भादीनामुपरि स्थितकाष्ठस्य नासेति । स्तम्भोपरि भरणा, भरणोपरि च शिर इति सूत्रधाराणां क्रमैः । सामान्येनोक्तत्वात् तयोर्नाम नासेत्यर्थः । यदुक्तं वास्तुशास्त्रे राजवल्लभमण्डने
" गेहोदयं तु विभजेन्नवधा षडंश: स्तम्भोर्ध्वभागसमकं भरणं शिरश्च । कुम्भी ह्युदुम्बरसमैकविभागतुल्या पट्टिश्च तन्त्रिवयुतोंऽशसमान एव ॥१॥" [] गृहांशान् कृत्वा स्तम्भादीनामप्यंशाः " [ ] इति । "नासा दारूपरि द्वारस्याऽधो दारुशिला स्त्रियाम्" []इति माला भिनत्ति, तदा नाशाशब्द उत्तरङ्गपर्यायः, शिलाशब्दो देहलीपर्याय: । स्तम्भादीनामुपरिस्थदारुणिं द्वारशाखोर्ध्वदारुणि च यथा - "नासो निवेशितसितासितरक्तपीतबिम्बा विशन्ति वसतीर्विहितातिथेया''[]इति ॥१००८ ॥
१. 'स्तुवतो' इति ॥ २. द्र. पदचन्द्रिका, भा-२, पुरवर्गः, श्लो- ३४, पृ. ५१ ॥ ३ अम. क्षीरस्वामिकृतटीकायां न दृश्यते ॥ ४ ४प्रतौ नास्ति ॥ ५ अम. क्षीरस्वामिकृतटीकायाम् - " मङ्गलार्थं तुरन्त्यत्र तोरणं द्वाराग्रे स्तम्भोपरि रचितं सिंहद्वाराख्यं मङ्गलस्स्रक् तोरणो भवेद् वन्दनमालिका " इति दृश्यते, पृ.७७ ॥ ६. सनयो:' इति ॥ ७ ३प्रतौ नास्ति ॥ ८ 'माघः' इति१.४ ॥ ९. कोष्ठान्तर्गतपाठः ४प्रतौ नास्ति । १०. 'रचितं' इति ॥ ११. क्षीरस्वामी' इति१.२ ॥ १२. ' - रिला' इति१.२ ॥ १३. 'ग्य-' इति ॥ १४ द्र. पदचन्द्रिका, भा- २, पुरवर्गः, श्लो - ३१, पृ. ४६ ॥ १५. अम. क्षीरस्वामिकृतटीकायाम् " स्तम्भादीनामाधारदारु शिलाख्यं" इति दृश्यते, २।२।१४ ॥ १६. द्र. रामाश्रमी २ २ । १३ ॥ पृ. १५५ ॥ १७ 'गौरादिङीषि' इति१.२ ॥ १८. 'तत्र - ' इति३.४ ॥ १९ द्र अम. क्षीर. २।२।१४ ॥ स्वोपज्ञटीका४ ११००८ ॥ पृ. २२३ ॥ २०. 'नाशि-' इति५ ॥ २१. णाक्रमः' इति ॥ अम. क्षीर. २।२।१४ ॥ स्वोपज्ञटीका ४ ११००८ ॥, पृ. २२३ ॥, पदचन्द्रिका, भाग-२, पुरवर्गः, श्लो- ३१, पृ. ४६ ॥ इतिर ॥ २४ 'नाशा' २५. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, २५७१ ॥, पृ. ३२५ ॥
पृ. ७६ ॥
२२.
द्र.
पृ. ७६ ॥, पृ.७६ ॥, इति४.५ ।।
२३
'रूणि'
For Private Personal Use Only
५०
www.jainelibrary.org