________________
१०
१००४-१००७]
प्रवृत्तः " [ रघुवंशम्, सर्ग: ५, श्लो - ४५ ] इति रघुः । द्वे 'भोगलि' इति ख्यातायाः ॥१००४ ॥
व्युत्पत्तिरत्नाकरक लिता
साऽल्पा त्वर्गलिका सूचिः
१ सा अर्गला अल्पा लघ्वी अर्गलिका । २ सूचयति सूचिः, स्त्रीलिङ्ग: । 'सूची (सूच) पैशुन्ये' (चु. - उ.से.), 'इन् सर्वधातुभ्यः ' ( उणा - ५५७ ) इतीन् । द्वे 'आगली' इति ख्यातायाः ॥
कुञ्चिकायां तु कूचिका ।
साधारण्यङ्कुटश्चासौ
१ कुञ्च्यतेऽनया कुञ्चिका । 'कुञ्च कौटिल्याल्पीभावयो: ' (भ्वा.प.से.), 'क्वन् शिल्पिसंज्ञयो: '(उणा१९० ), तत्र । २ कूचति कूचिका । 'कूच सङ्कोचे ' ( ), ण्वुल् । ३ साधारन्त्यनया साधारणी । करणे ल्युट् । ४ अङ्क्यते अङ्कटः । 'अकि गतौ ' (भ्वा.प.से.), 'नर्कुटकुक्कुट - ' ( हैमोणा - १५५ ) इत्युटे निपात्यते । चत्वारि ''उलाला कुंची' इति ख्यातायाः ॥
द्वारयन्त्रं तु तालेकम् ॥१००५॥
१ द्वारपिधानाय लोहमयं यन्त्रं द्वारयन्त्रम् । २ ताड्यतेऽनेन ताडकं । 'तड आघाते ' ( चु.उ.से.), हेतु - २० मण्णिजन्तः, लत्वे तालकम् । द्वे तालकस्य अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतिताल्यपि ।
॥१००५ ॥
१ अस्य तालकस्य उद्घाटनाय यन्त्रं उद्घाटनयन्त्रम् । ताड्यतेऽनया ताली । 'तड आघाते ' (चु.उ.से.), करणे घञि गौरादिः । २ एवं प्रतिताली । द्वे 'कुंची ' इति ख्यातायाः
||
तिर्यग्द्वारोर्ध्वदारूत्तरङ्गं स्यात्
१ द्वारस्य ऊर्ध्वमुपरि तिर्यग्निहितं दारु, उत्तरमूर्ध्वं गच्छति उत्तरङ्गम् । 'गम्लृ गतौ ' ( भ्वा.प.अ.), 'गमश्च'
Jain Education International
४४९
३ ।२।४७ ॥ इति खच् स च डित् खित्त्वाद् मुम् । " उत्तरङ्गं मतं तिर्यग् द्वारस्योपरि दारु यत्" [ हलायुधकोशः ३० २ । ३०० ॥ ] इति हलायुधः । एकमुत्तरङ्गस्य ॥
अरं
पुनः ॥१००६ ॥
क्लीबे। 'ऋ गतौ ' ( जु.प.अ.),
८
कपाटोऽररिः कुवीटः १ इयर्त्ति अररम्, 'अर्तिकमि - ' ( उणा - ४१२ ) इत्यादिना रन्प्रत्ययः । " स्त्रियामररी "[ ] इति पञ्जिका । तथा च " कपाटश्च कवाटश्च त्रिषु स्यादररं न ना" [ ] इति वाचस्पतिः ॥ १००६ ॥ २ प्रविशतां कं वातं शिरो वा पाटयति वा कपाटम् । 'पट भेदैं ' ( ), णिजन्त:, 'कर्मण्यण् '३ ।२ ।१ ॥ । "जपा (जवा) - दित्वाद् वत्वे कवाटमपि " [] इति भट्टः । स्वामी तु "कं ४० वायुं वटति वेष्टयति, 'वट वेष्टने '(भ्वा.प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥ कवाटम्, कपाटमित्यपि दृश्यते"[] इत्याह । त्रिलिङ्गोऽयम् । स्त्रियां ङीषि ( ङीपि) कपाटी कवाटी च । ३ इयर्ति अररिः, पुंक्ली । पुंसि माला, क्लीबेऽरुणः । "कवाट" सक्थ्यस्थिनी दधि तथाऽररिः स्यात् "[] इति क्लीबे वामनोऽपि । ४ कुत्सितं वट्यतेऽनेन कुवाटः । 'वट वेष्टने' (भ्वा.प.से.) करणे घञ् । चत्वारि कपाटस्य ॥ पक्षद्वारं तु पक्ष: ।
१ पक्षे पार्श्वे द्वारं पक्षद्वारम् । २ पक्ष इव पक्षकः । ‘इवे प्रतिकृतौ '५ ।३ ।९६ ॥ इति कन् । खटक्विकापि, गृहस्य पार्श्वद्वारमेतत् । द्वे गृहपार्श्वद्वारस्य ॥ प्रच्छन्नमन्तद्वरं स्यात्
१ सौधाद प्रकर्षेण छन्नमावृतं प्रच्छन्नम्। अन्तर्मध्ये स्थितं द्वारमन्तर्द्वारम् । "द्वे गृहाभ्यन्तरे प्रकोष्ठकद्वारस्य''["]इति कोक्कर्ट: । "गृहाभ्यन्तकोणकादिद्वारं जालकद्वारं वा प्रच्छन्नादिद्वयेनोच्यते "["] इति स्वामी । कात्यस्तु–'प्रच्छन्नमन्तर्द्वारं यत् पक्षर्द्वारं तदुच्यते "["] इत्येकमेवाऽऽख्यत् । एकं गृहमध्यद्वारस्य ॥
१. 'तस्य' इति५ ॥ २ १. २ प्रत्योर्नास्ति ॥ ३ १.२.४.५ प्रतिषु नास्ति ॥ ४ - रत्य-' इति३ ॥ ५ 'लक्षणे' इति क्षीरतरङ्गिण्यादयः ॥ ६. 'कु-' इति१, 'ऊ -' इति४.५ ॥ ७. 'कूं -' इति४.५ ॥ ८द्र. पदचन्द्रिका, भा-२, पुरवर्गः, श्लो - ३५, पृ. ५२ ॥, रामाश्रमी२ ॥२॥१७॥, पृ१५६ ॥ ९ अनावश्यकोऽयं प्रतिभाति ॥ १०. क्षीरतरङ्गिण्यादौ भेदार्थकपटधातुर्न दृश्यते ॥ ११. 'अपि' इति ४प्रतौ न दृश्यते ॥ १२. १. २ प्रत्योर्नास्ति ॥ १३. 'नेऽपि' इति५ । १४ तुलनीयोऽमरकोषः २ १२ ११४ ॥ १५. 'खट्टिकिकाऽपि' इति३ ॥ १६. धादिप्र-' इति१ ॥
१७ द्र. पदचन्द्रिका, भा-२, पुरवर्ग:, श्लो- ३२, पृ. ४७ ॥ १८ डः' इति ॥ १९ द्र. अम. क्षीर. २।२।१४ ॥, पृ. ७६ ॥ स्वोपज्ञटीका ४।१००७॥, पृ.२२३॥, रामाश्रमी २ ।२।१४ ॥ पृ. १५५ ॥
For Private & Personal Use Only
५०
www.jainelibrary.org