________________
१०
८
भ्वादि:, धातु सं- ३६६ ] इति । 'इसिजि (सिञ्जि) भ्यो नक् ( उणा - २८२ ) इति नक् । यद्वा जयति सर्वोत्कर्षेण वर्तत इति । अनेनैव सूत्रेण नक् । ३ संसारसमुद्रस्य प्रयोजनजातस्य वा पारं पर्यन्तं गतः प्राप्तः पारगतः । 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः २ ।१ ।२४ ॥ इति समासः । ४ अतीतानागतवर्त्तमानरूपत्रीन् कालान् वेत्ति त्रिकालवित् । 'विद ज्ञाने' (अ.प.से.), 'क्विप् '३ ।२७६ ॥ इति क्विप् । ५ क्षीणान्यष्टौ ज्ञानावरणीयादिकर्माण्यस्य क्षीणाष्टकर्मा, नकारान्तः । ६ परमे पदे स्थाने तिष्ठति परमेष्ठी । 'ष्ठा गतिनिवृत्तौ ' (भ्वा.प.अ.), 'परमे स्थः कित्' (उणा - ४५० ) इतीनि:, ' आतो लोप इटि च ' ६ ॥४॥६४॥ इत्यालोप:, 'तत्पुरुषे कृति बहुलम् ' ६ ॥ ३ ॥ १४ ॥ इति सप्तम्यलुक् 'स्थास्थिनस्थ (स्था) नां षत्वं वक्तव्यम् ' ( वा-८१३ ।९७ ॥ ) इति पत्वम् । परमेष्ठिनौ, परमेष्ठिनः इत्यादि । ७ जगतामधीष्ट इत्येवंशील: अधीश्वरः । 'ईश ऐश्चर्ये '(अ.आ.से), 'स्थेशभासपिसकसो वरच्३ ।२ । १७५ ॥ इति वरच् । ८ शं कल्याणरूपता भवते प्राप्नोति शम्भुः । 'भूङ् प्राप्तौ ' ( चु.आ.से.), आत्मनेपदी, 'आ घृषाद्वा' (गणसूत्र :) इति न णिच्, मितद्र्वादित्वात् (वा - ३ ।२ । १८० ॥ ) डुः । शं शाश्वतसुखम्, तत्र भवतीति वा । 'भू सत्तायाम्' (भ्वा.प.से.), मितद्र्वादिः । शमयति क्लेशमिति वा । 'शमु उपशमे ' (दि.प.से.), हेतुमण्णिजन्त:, 'शमेर्भुन् ' ( ) इति भुन् वा । " शं सुखं भवत्यस्मादिति व्युत्पत्तिस्त्वपादाने डुप्रत्ययाभावच्चिन्त्या ''[मा. धातुवृत्तिः, भ्यादिः, धातुसं - १] इति माधवः । ९ स्वयमित्येतदव्ययमात्मनेत्येतदर्थे, तेन स्वयमात्मना तथा भव्यत्वादिसामग्रीपरिपाकवशात्, न तु परोपदेशात् भवतीति स्वयम्भूः । क्विप् । १० भगः त्रैलोक्याधिराजत्वम्, परज्ञानं वा अतिशयेनाऽस्यास्तीति भगवान् । 'तदस्यास्त्यस्मिन्- '५ ।२ ।९४ ॥ इत्यतिशयेऽर्थे मतुप्, 'मादुपघायाश्च मतोर्वोऽयवादिभ्यः' ८।२ ।९ ॥ इति मस्य वत्वम्, 'उगिदचाम्- '७।१ ॥७०॥ इति नुम्, 'हल्ङ्याब्भ्य:-'६।१।६८॥ इति सुलोप:, 'संयोगान्तस्य ३० लोप: ८ | २ | २३ | | ११ जगतां प्रभुः जगत्प्रभुः । १२ तीर्यते संसारार्णवोऽनेनेति तीर्थम् । 'तृ प्लवनतरणयो:' (भ्वा.प.से), 'पातृतुदिवचिरिचिसिचिभ्यस्थक्' (उणा-१६४), 'ऋत इद्धतो : ' ७।१।१०० ॥, ‘उरण् रपरः ' १ । १ ५१ ॥, 'हलि च८ ॥ २ ॥ ७७ ॥
इति दीर्घत्वम् । तीर्थं ' चतुर्विधः सङ्घः, प्रथमगणभृद् वा, तं करोति तीर्थङ्करः । ‘डुकृञ् करणे ' (त.उ. अ.) 'अभयादौ च' ( ) इति खच्, 'अरुर्द्विषदजन्तस्य - १६ | ३ |६७ ॥ इति नुम् (मुम्) । १३ तीर्थकर इत्यत्र 'कृञो हेतुताच्छील्यानुलोम्येषु '३ ।२।२० ॥ इति टः । १४ जिना: सामान्यकेवलिनस्तेषामीश्वरो जिनेश्वरः ॥ २४ ॥ १५ स्याद् अनेकान्तं वदतीत्येवंशीलः स्याद्वादी । १. इतोऽग्रे 'च' इति १ प्रतौ दृश्यते ॥ २. 'इगुपधेति कः' इति २.३.४ ' इति २ ॥ ६. ऋषिवृषिभ्यां कित्' (उणा-४०३ ) इत्युणादिगणे ॥
२०
अभिधानचिन्तामणिनाममाला
Jain Education International
For Private
[ देवाधिदेवकाण्डः - १ 'स्यात्' इत्यव्ययमनेकान्तवाचकम् । 'वद व्यक्तायां वाचि' ४० (भ्वा.प.से.) 'सुप्यजातौ-'३ ।२ ७८ ॥ इति णिनिः, 'अत उपाधायाः ' ७२ । ११६ ॥ इति वृद्धिः । स्याद्वादिनौ स्याद्वादिनः इत्यादि । स्याद्वादनं स्याद्वादः स्याद्वादोऽस्यास्तीति वा । 'अत इनि ठनौ '५।२।११५ ॥ इतीनिः । यौगिकत्वाद् अनेकान्तवाद्य १६ अभयं मोक्षः, तं ददाति अभयदः, भयम् इहपरलोकादानादि सप्तधा, एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं ददाति वा, निरुपधिपरदुःखहानेच्छत्वात् । 'डुदाञ् दाने ' (जु.उ.अ.) 'सुपि ' ३ ।२।८ ॥ इति योगविभागात् क:, ' आतो लोप इटि च' ६ । ४ । ६४ ॥ इत्यालोपः । १७ सर्वेभ्यः प्राणिभ्यो हितः सार्वः । शैषिकोऽण् । ' तस्मै हितम् ५ १ ५ ॥ इति छप्रत्यये सर्वीयोऽपि । ५० 'जयन्ति ते सदा सन्तः सर्वीया यैरुपमार्जितम् [ ] इत्यादिप्रयोगाः । १८ सर्वम् अतीतानागतवर्तमानादिकं जानाति सर्वज्ञः । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'आतोऽनुपसर्गे के' ३ ।२।३ ॥, 'आतो लोप इटि च '६ ४ ६४ ॥ १९ सर्वं पश्यतीत्येवंशीलः सर्वदर्शी । 'दृशिर् प्रेक्षणे' (भ्या.प.अ.), 'सुप्यजातौ णिनिस्ताच्छील्ये '३ ।२७८ ॥, 'पुगन्तलघूपधस्य- '७।३।८६ ॥ इति गुणः । २० सर्वथाऽऽवरणविलये चेतनास्वरूपाऽऽविर्भाव:, केवलम्, तदस्यास्ति केवली । २१ देवानामप्यधिदेवः देवाधिदेवः । २२ बोधिरर्हत्प्रणीतधर्मप्राप्तिः, तां ददाति बोधिदः । " बोधिर्बोधसमाधौ (बौद्धसमाधौ ) चार्हद्धर्माप्तौ च पिप्पले ''[ अनेकार्थ- ६० सङ्ग्रहः २।२४० ]इत्यनेकार्थः । २३ पुरुषाणामुत्तम: पुरुषोत्तमः । पुरुषेभ्य उत्तमः पुरुषोत्तम इति पञ्चमीयोगविभागात् समासो वा । २४ विशेषेण इतो गतो रागो अस्मादिति वीतरागः । २५ यथाभूतार्थोपदेष्टृत्वाद् आप्तः । पञ्चविंशति: सामान्यतस्तीर्थङ्करैनाम्नाम् ॥२५॥ एतस्यामवसर्पिण्यामृषभो ऽजितशम्भवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥२६॥ सुपार्श्वश्चन्द्रप्रभश्च सुर्विधिश्चाथ शीतलः । श्रेयांसी वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥२७॥ धर्मः शान्तिः कुन्थुररोमँल्लिश्च मुनिसुव्रतः । नमिनेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् ॥२८॥
एतस्याम् इति वर्तमानायां दशकोटाकोटीसागरोपमप्रमाणायाम्, अवसर्पिण्याम् कालविशेषे । १ ऋषति गच्छति परमं पदमिति ऋषभः । 'ऋषी गतौ ' ( तु.प.से.), 'ऋषिवृषिभ्यां किदभच्' (उणा- ४०३)इत्यभच् । यद्वा ऊर्वोर्वृषभचिह्नं भगवतोऽ॥ ३. 'सामान्यती-' इति १ ॥ ४. -तीर्थकर इति २.४ ॥ ५. परम
Personal Use Only
७०
www.jainelibrary.org