________________
९९५-१००० ]
[] प । यद्वाचस्पति: "आथर्वणं शान्तिगृहं शान्ती - गृहकमप्यदः ''[ ]इति । शान्तिगृहस्य ॥
व्युत्पत्तिरत्नाकरकलिता
आस्थानगृहमिन्द्र॑कम् ।
१ आस्थानाय गृहम् आस्थानगृहम् । २ इन्द्रं कायतीव सश्रीकत्वादिति इन्द्रकम् । 'कै शब्दे' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः '३ |२| ३ || | द्वे राजादिआस्थानस्य । "बैसवानुं घर' इति भाषा ||
तैलिशाला यन्त्रगृहम्
१ तैलिनः शाला तैलिशाला । २ तिलनि :१० पीडनयन्त्रस्य गृहं यन्त्रगृहम् । द्वे तैलिगृहस्य ॥ अरिष्टं सूतिकागृहम् ॥९९७॥
१ मन्त्रादिन्यासेन नाऽस्ति रिष्टमत्र अरिष्टम् । न रिष्यते हिंस्रैः कृतरक्षत्वादिति वा २ सूतिका प्रसूता स्त्री, तयोपलक्षितं गृहं सूतिकागृहम् । द्वे 'सूआवडि' गृहस्य ॥९९७॥ सूदशाला रसंवती पाकस्थानं महानसम् ।
१ सूदानां शाला सूदशाला । २ रसाः सन्त्य - स्यां रसवती । रस आस्वादोऽस्त्यस्यां वा । ३ पाकाय पाकस्य वा स्थानं पाकस्थानम् । अनसा उपकरण२० संभारवत्त्वं लक्ष्यते, ततो महच्च तदनश्चेति महान । 'अनोऽश्माय: सरसां जातिसंज्ञयो: '५ ।४ ।९४ ॥ इति टच्समासान्तः । चत्वारि 'रसोडा' इति ख्यातस्य ॥ हस्तिशाला तु चतुरम्
१ हस्तिनां शाला हस्तिशाला । २ चत्यते चतुरम् । 'चते याचनें ' (भ्वा.उ.से.), 'मन्दिवाशिमथिचति-' (उणा-३८) इत्यादिना उरच्ं । द्वे हस्तिशालायाः ॥ ॥९९८॥
वाजशाला तु
१ वाजिनां शाला वाजिशाला । २ मन्दन्ते वाजिनोऽस्यां मन्दुरा । 'मदि स्तुतिमोदमदस्वप्नकान्ति
Jain Education International
गतिषु'(भ्वा.आ.से.) 'मन्दिवाशिमथिचति-'(उणा-३८) ३० इत्यादिना उरच् । द्वे वाजिशालायाः ॥९९८ ॥
सन्दानिनी तु गोशाला
४४५
१ सन्दानं बन्धनरज्जुरस्त्यस्यां सन्दानिनी । 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनि:, 'ऋन्नेभ्यो ङीप् '४॥१॥५ ॥ । २ गवां शाला गोशाला । द्वे गोशालायाः ॥
चित्रशाला तु जालिनी 1
१ चित्राऽलङ्कृता शाला चित्रशाला । २ जालानि सन्त्यस्यां जालिनी । 'अत इनिठनौ '५ ।२ । ११५ ॥ । द्वे चित्रशालायाः ॥
कुम्भशाला पाकेपुटी
१ कुम्भानां घटानां शाला कुम्भशाला । २ पाकेन पुटति संश्लिष्यति पाकपुटी । 'पुट संश्लेषे ' ( तु.प.से.), 'इगुपध - ३ । १ । १३५ ॥ इति कः, गौरादिः । द्वे कुम्भकारशालायाः ॥
तन्तुशाला तु गर्तिका ॥९९९॥
१ तन्तुवानाय शाला तन्तुशाला । २ कुविन्दस्थितये गर्तोऽस्त्यस्यां गर्तिका । 'अत इनिठनौ '५ ।२ ।११५ ॥ इति ठन्, ' 'ठस्येकः ७।३।५० ॥ । द्वे वणकरशालायाः ॥ ९९९॥ नापितशाला वपनी शिल्पा खरकुटी च सा ।
१ नापितस्य शाला नापितशाला । २ वपन्त्यस्यां ५० वपनी । 'टुवप् बीजोप्त्यो:' (भ्वा.उ. अ.), 'करणाधिकरणयोश्च ३ |३ | ११७ ॥ इत्यधिकरणे ल्युट् । ३ शिल्पं विज्ञानमस्त्यस्यां शिल्पा । 'अर्शआदिभ्योऽच् ५ ॥२॥१२७॥, अन्तस्थातृतीयपवर्गाद्यान्तः टाबन्तः । ४ खरस्य कुटी खरकुटी । चत्वारि नापितशालायाः ॥ आवेशनं शिल्पिशाला
१७
१ आविशन्त्यस्मिन् आवेशनम् । 'विश प्रवेशने ' ( तु.प.अ.), अधिकरणे ल्युट् । २ गृहादन्यत् कारूणां कर्मस्थानं शिल्पिशाला । " शिल्पिनां स्वर्णकारादीनां
१. द्र. स्वोपज्ञटीका ४ । ९९७ ॥ पृ. २२० ॥ २. 'बइ-' इति१.२ ॥ ३ 'नो' इति४ ॥ ४ तुलनीयोऽमरकोषः २ ॥२ ॥८ ॥ ५ 'दम-' इति४ ॥ ६ ३.४.५ प्रतिषु नास्ति ॥ ७ 'डां' इति ॥ ८ ' भाषायाः' इति३ ॥ ९ चते चदे च याचने' इति स्वामी, 'चते चदे याचने' इति मैत्रेयः, 'चते याचने च' इति सायणः ॥ १०. ' इत्युरच्' इति१.२ ॥ ११. तुलनीयोऽमरकोषः २२७ ॥ १२. - ऽस्यां वाजिनो' इति१.२ ॥ १२. ' - स्वप्नगतिषु' इति२. ३.४ ॥ १४ ' बन्धनं बन्धान -' इति३.५ ॥ १५. 'ते' इति३ ॥ १६. 'मुंडवलिप्त्यो:' इति१, 'बीजोप्तौ' इति३, 'डुवप् बीजसन्ताने' इति क्षीरतरङ्गिण्यादयः ॥ १७ तुलनीयोऽमरकोषः २ १२७ ॥ १८. न्त्यत्र' इति४ ॥
For Private Personal Use Only
४०
www.jainelibrary.org