________________
४३६
तट्टीका । “प्राकारमण्डपस्योपरि शालाया हर्म्यादिपृष्ठे वातकुटिकायाः [] इति स्वामी । "प्राकारधारणार्थोऽभ्यन्तरें क्षौमाख्ये "[] इति भट्टः । " अट्टेति ख्यातस्य गृहस्य "[ ] इति कोक्कर्ट: । "मण्डपस्योपरि हर्म्यपृष्ठस्य " [' ] इति तु पञ्जिका ॥ पूरे गोपुरम्
[ तिर्यक्काण्डः ४, पृथ्वीकायः
अभिधानचिन्तामणिनाममाला नखादखेदैः ''[ शिशुपालवधम्, सर्गः - ३, श्रो- ६८ ] इति ३० माघः । दुर्गद्वारावतरणार्थः क्रमनिम्नो मृत्कूटोऽपसोपानाख्यः । " हस्तिनखः परकूटम् "[ हलायुधकोशः २।२८८॥]इति हलायुधः । "दुर्गद्वारोत्तरणमार्गे द्वौ "[ ] इति तट्टीका । बहिरतटमन्तः सोपानयुक्तं युद्धार्थमित्येके । फिरणी पागेर इत्यादिभाषा । ३ नगरद्वारे प्रतोल्यां कूटो मृत्तिकाराशिः नगरद्वारकूट, स्वार्थे कनि नगरद्वारकूटकः, तत्र । द्वे 'पाज' इति ख्यातायाः
१ पुरो द्वारं पूर्द्वारम्, तत्र । २ गोप्यते गोपुरम् । 'गुपू रक्षणे ' (भ्वा.प.से.), 'मद्गुरादयश्च' (उणा - ४१ ) इति साधुः। यद्वा बाहुलकाद् गुपेरुरच् । “द्वारमात्रेऽपि गोपुरम् " [ अमरकोषः ३ । ३ । १८२ ॥] इत्यनेकार्थः । " गोपुरं च पुरद्वारे १० द्वारमात्रेऽपि मुस्तकें "[विश्वप्रकाशकोशः, रान्तवर्ग:, श्रो१२३ ] इति महेश्वरः । द्वे पूर्द्वारस्य । " कथ्यते गोपुरं पुरद्वारम् ''[ हलायुधकोशः २ । २८८ ॥ ] इति हलायुधः । " प्रतोल्या अन्तराले द्वौ " [ ] इति तट्टीका । 'बारी' इति भाषा ॥ रथ्याप्रतोलीविशिखाः समाः ॥९८१॥
१ रथं वहति रथ्या । तद्वहति रथयुग- ४ ।४। ७६ ॥ इति यत् । "हितार्थे 'खलयवमाष - ५ ११ ॥७ ॥ इत्यत्र चकाराद् यत्" [ ]इति तु स्वामी । २ प्रतोलयन्त्यस्यामिति [ प्रतोली ] । प्रतोलयति परिच्छेदयति परात्मीयानिति वा । ण्यन्तात् 'तुलि छेदने ' ( २) इत्यतः २० 'एरच् ' ३।३।५६ ॥ इत्यच् गौरादिः । प्रतोल्यत इति वा । 'तुल उन्मादे' (चु.उ.से), घञि गौरादिर्वा । ३ विशय्यन्ते प्रकाश्यन्ते द्रव्याण्यस्यामिति । 'शीङः किद् ह्रस्वश्च (उणा७०२ ) इति खन् (ख:) विशिखा । "विगतशिखा मुण्डितेव जनसम्मर्दाद् विशिखा "[ ] इति तु भट्टैः । त्रीणि ''पोलि' इति ख्यातायाः ॥ ९८१ ॥
परिकूटं हस्तिनखो नगरद्वारकूटके ।
१ परितः कूट्यते परिकूटम्, पुंक्ली । 'कूट दाहें ' (चु.उ.से.), घञ् । २ हस्तिनख इव हस्तिनखः । " शनैरनीयन्त रथात् ( रयात्) पतन्तो रथाः क्षितिं हस्ति
Jain Education International
मुखं निःसरणे
१ गृहादेर्निः स्त्रियते प्रविश्यते च येन तद् मुखमिव मुखम् । खन्यत इति वा मुखम् । 'खनु अवदारणे' ४० (भ्वा.उ.से.), "डित् खनेर्मुट् [स] चोदात्तः '(उणा-६९८) इत्यर्च्, आदेर्मुडागमश्च । मुखति मण्डयति, 'मुख मण्डने ' ( ), इगुपधत्वात् के मुखमित्यन्ये" । २ निः स्त्रियतेऽनेन निःसरणम् । 'सृ गतौ ' ( भ्वा.प.अ.), करणे ल्युट् तत्र । यत् श्रीधरः - " मुखं वक्त्रे निःसरणे "[विश्वलोचनकोशः, खान्तवर्ग:, श्रो- ४] इति । येन गृहादेर्नि:स्त्रियते प्रविश्यते तन्नाम्नी द्वे । स्वामी तु "गृहादिद्वारप्रवेशे मुखादिद्वयम्, तथा च 'मुखं स्वाङ्गम् '६ ।२ ।५६७ ॥ इत्यत्र प्राङ्मुखी शालेत्यत्र न्यासे उक्तं शालाया द्वारप्रवेशो मुखमुच्यते ''[न्यासः ६ ॥२ ॥१६७॥] इत्याह । पञ्जिका - ५० दिरप्येवम् । कोक्कटस्तु - "द्वे हट्टमण्डपादेः प्रवेशनिर्गममार्गस्य" []इत्याहै ॥
वाटे प्राचीनाऽऽवेष्टको वृतिः ॥ ९८२ ॥
१ वट्यतेऽनेनेति वाटः, त्रिषु । 'वट वेष्टने ' (भ्वा.प.से.), करणे घञ् [ तत्र ] । २ प्रागेव प्राचीनम् । ‘विभाषाञ्चेरदिस्त्रियाम् ' ५ ॥४ ॥८ ॥ इति खः । " प्राचीनमित्येके "[ अम. क्षीर. २ । २ । ३ ॥ ] इति भट्टः । प्रआङ्पूर्वाच्चिनोते : 'शुषि (सि) चिमीनां दीर्घश्च' (उणा - १८३ ) इति क्रनि
१. द्र. पदचन्द्रिका, भा-२, पुरवर्गः, श्लो - ३०, पृ. ४४ ॥ २. ' - णाऽभ्य - ' इति४. ५ ॥ ३. ' -र' इति३.४.५ ॥ ४. 'कोकूट:' इति३ ।। ५. 'तु' इत्यमरकोषे ॥
६. 'गोपुरन्तु पुरद्वारि द्वारमात्रे च मुस्तके' इति विश्वप्रकाशकोशे, पृ. १३५ ॥ ७ ' -ल्यां' इति४ ॥ ८. अम.क्षीर. न दृश्यते ॥ ९. इतोऽग्रे ४प्रतौ, 'तु' इति दृश्यते ॥ १०, ‘शीङो हस्वश्च' इत्युणादिगणसूत्रम् ॥ ११. ४प्रतौ नास्ति ॥ १२. क्षीरस्वामिकृतामरकोशटीकायाम्-“विगतशिखा मुण्डितेव सन्मताद् विशीर्यते जनसंमर्देन वा विशिखा।" इति दृश्यते, अम. क्षीर. २२ ॥ ३ ॥ पृ. ७४ ॥ १३. 'पौ-' इति१.३ ॥ १४. 'कूट परिदाहे ' इति मैत्रेयः, 'कूट परितापे' इति सायणः ॥ १५. 'इति' इति३.४ ॥ १६. 'डिति' इति३.४ ॥ १७. ' - चि' इति४ ॥ १८. 'इगुपधलक्षणत्वात्' इति३.४ ॥ १९. ' -त्येके' इति४ ॥ २०. “ मुखशब्देनात्र द्वारप्रदेश: शालाया उच्यते । स्वाङ्गमद्रवलक्षणमिह गृह्यत इति ॥" इति न्यासे, भा-५, ६।२।१६७ ॥ पृ. १५९ ॥ २१. द्र. पदचिन्द्रका, भा- २, पुरवर्गः, श्लो - ३७, पृ. ५४ ॥ २२. अम. क्षीरस्वामिकृतटीकायाम् 'प्राचीर-' इति दृश्यते, २ । २ । ३ ॥, पृ. ७४ ॥
For Private Personal Use Only
www.jainelibrary.org