________________
९७६-९८१ ]
२०
व्युत्पत्तिरत्नाकरकलिता
निषेधा तु नलस्य पूः । १ नितरां स्यन्ति कर्माण्यस्यां निषधा। षोऽन्तकर्मणि' (दि.प.अ.), 'नै: स्पतेरधम्' (हैमोणा- २५२ ) इत्यधक् । नलस्य राज्ञः पूं। नलराजनगर्या एकम् ॥ प्राकारो वरण: साले
I
।
१ प्रकुर्वन्ति तमिति प्राकारः । प्रक्रियते वा । पत्रि, 'उपसर्गस्य घञ्यमनुष्ये बहुलम् '६ ॥३ ॥ १२३ ॥ इति दीर्घत्वम् । यद्वा प्रथमं क्रियते प्राकारः "सादकारयोः कृत्रिमे '[ भा. वा. ६ ३ ११२२ ।। ] इति दीर्घः । २ व्रियते वेष्ट्य१० तेऽनेन वरणः । 'वृञ् वरणे' (स्वा.उ.से.), करणे ल्युट् । वृणोतीति वा । सुयुरुवृञो युच्' (उणा - २३२ ) इति युच् । ३ स्यति पर्यन्तं करोति सालः । षोऽन्तकर्मणि' (दि.प.अ.), बाहुलकात् कालं । सल्यत इति वा 'सल (पल) गतौ' (भ्वा.प.से.), घञि, दन्त्यादिरयम् । "सालो वरणसर्जयोः [] इति रभसः । 'शल गतौ ' ( भ्वा.प.से.), ततो घञि शाल: तालव्यादिरपि । तथा च
" तालव्यो नृपझषयोः शालो वृक्षे वृतौ दुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम् ॥ १॥ [] इत्यूष्मविवेकात् । [ तत्र ] । त्रीणि भूमिगढनामानि ॥
सालस्तु नगरपर्यन्ते भवति अतः कोट्टाद् विशेष:, कोट्टस्तु राज्ञो निवसनस्थानपर्यन्ते भवतीति न पुनरुक्तिदोषः । अन्ये तु कोट्टदुर्गाभ्यां सह त्रीनप्यभेदेनाहु: । वप्रोऽपि । "वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रोऽन्वहमन्वकारि " [शिशुपालवधम्, सर्ग: ३, श्लो ३७] इति माघः ॥
चयो वप्रोऽस्य पीठभूः ॥ ९८० ॥ १ अस्य प्राकारस्य पीठभूः मूलभूमिः प्राकारा
Jain Education International
४३५
धारः । चीयते चयः, चवर्गप्रथमादिः । 'चिञ् चयने' (स्वा.उ. अ.), कर्मणि एरच् '३।३५६ ।। । २ उप्यते प्राकारोऽत्र वप्रः, पुंक्ली 'दुवप् बीजतन्तुसन्ताने ' (भ्वा.उ. अ.), 'वृधु ( वृधि ) वपिभ्यां रन् ' ( उणा - १८५ ) इति रन् । द्वे दुर्गनगरे ३० परिखाया उद्धृतमृत्तिकास्तूपस्य त्रिंशद्धस्तप्रमाणस्य मूलबन्धस्य यस्योपरि प्रकारो भवति, तस्य तथा चाऽर्थशास्त्रम्'खातादुद्धृतपींसुना वप्रं कारयेत्, तस्योपरि प्राकारम्"["] इति । तथा च धरणि:-" वप्रश्चावरणे वृन्दे प्राकारमूलबन्धने " [ ]इति ॥ ९८० ॥
१२
प्राकाराग्रं कपिशीर्ष
१ प्राकारस्याऽग्रं प्राकाराग्रम् । २ पर शीर्षमस्य कपिशीर्षम् । द्वे 'कांगरी' इति ख्यातस्य ॥
2
क्षौमा sisट्टालका समाः ।
44
१ क्षुवन्ति शब्दायन्ते योधा अत्रेति क्षौमम्, पुंक्ली. । ४० 'क्षौममस्त्रियाम् "[ अमरकोषः २ १२ ११२ ॥ ] इत्यमरः । दुक्षु शब्दे ' ( अ.प.से), 'अर्तिस्तुमुहु सृधृक्षिक्षुभाया [ वा ] पदियक्षिनीभ्यो मन्' (उणा १३७ ) इति मन्, बाहुलकाद् वृद्धिः । 'क्षोमोऽवृद्ध्यादिः "[ ] इति मिश्राः । २ अट्टन्तेऽत्र अट्टः, पुंक्ली. । 'अट्ट हिंसातिक्रमयो: (भ्वा.आ.से.) अस्माच्चुरादिण्यन्ताद एरच् ३।३५६ ।। । 'गुरोक्ष- '३1३११०३ इत्यकारः ''[ मा. धातुवृत्तिः, भ्वादि:, धातुसं - १५९ ] इति माधवः । ३ बाहुलकादालप्रत्यये अट्टालः, स्वार्थे कनि अट्टालकः । भुरजनामानि त्रीणि । " प्राकाराग्रे रणगृहम् " ["] इति कौटिल्यः । " प्राकारेणाऽग्निवर्णेन साट्टालेनोन्नतेन ५० च''[ ] इति भागवतम् । "प्राकारेण सौवर्णेन अट्टाला: प्राकारोपरि रचितान्युन्नतानि युद्धस्थानानि तत्सहितेन [ ] इति
44
44
९. इतोऽग्रे ४.५ प्रत्योः 'नलस्य पू:' इति दृश्यते ॥ २. 'स्याद-' इति२.५ ॥ ३. 'कानन्' इति ॥ ४. द्र. पदचन्द्रिका, भा-२, पुरवर्ग:, श्लो - २१, पृ. ३० ॥ रामाश्रमी २।२।३ ॥ पृ. १५० ॥ ५. कः' इति४ ॥ ६ 'राज्ञा' इति३ ॥ ७. क्त' इति३.४ ॥ ८ इतोऽग्रे ४प्रतौ 'भेदेनेति' इति दृश्यते ॥ ९. 'बीजसन्ताने' इति क्षीरतरङ्गिण्यादयः ॥ १०. 'पांशु-' इति१.३ ॥ ११. कौटिलीये अर्थशास्त्रे - " (१) चतुर्दण्डावकृष्टं परिखायाः षड्दण्डोच्छ्रितमवरुद्धं तद्विगुणविष्कम्भं खाताद् वप्रं कारयेत्, ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम् । पांसुशेषेण वास्तुच्छिद्रं वा पूरयेत् । (२) वप्रस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्तादूर्ध्वमोजं युग्मं वा आचतुर्विंशतिहस्तादिति कारयेत् । रथचर्यासञ्चारं तालमूलमुरजकैः कपिशीर्षकैश्चाचिताग्रं पृथुशिलासहितं वा शैलं कारयेत् न त्वेव काष्ठमयम् । अग्निरवहितो हि तस्मिन् वसति । " इति दृश्यते, कौटिलीयम् अर्थशास्त्रम् अधि - २ प्रक- १९, अध्या- ३, पृ. ८६ ॥ १२ द्र. पदचन्द्रिका, भा-२, पुरवर्ग:, श्लो- २१, पृ. २९ ॥ १३. 'कपे-' इति१. २ । १४ गुरा' इति३ ॥ १५. 'क्षोम-' इति पदचन्द्रिका रामाश्रमीसम्मतपाठः ॥ १६. 'क्षौ-' इति१.३.४ ॥ १७. 'अत्ट अतिक्रमहिंसनयो:' इति स्वामी, 'अट्ट अतिक्रमणहिंसयो:' इति मैत्रेयसायणौ ॥ १८. 'बु-' इति१.२ ॥ १९. ' - ग्रेण गृहम्' इति१.३.५ ॥ २० द्र अम. क्षीर. २।२।१२ ॥ पृ. ७६ ॥ पदचन्द्रिका, भा-२, पुरवर्गः, श्लो - ३०, पृ. ४४, तत्र - ' प्राकाराग्रस्थितस्य रणगृहस्य' इति दृश्यते ॥
For Private & Personal Use Only
www.jainelibrary.org