________________
१०
२०
६
वाचको त्रिपञ्चसप्तादिवाचकौ । यथा त्रीणि नेत्राण्यस्य त्रिनेत्र:, तथा अयुज्ञ्जि नेत्राण्यस्य अयुग्नेत्रः, विषमाणि नेत्राण्यस्य विषमनेत्र: शम्भुः । पञ्च इषवः बाणा अस्य पञ्चेषुः तथा अयुजः पञ्च इषवोऽस्य अयुगिषुः, विषमाः पञ्च इषवोऽस्य विषमेषुः कामः। यथा सप्तपलाश: तथा अयुक्पलाश:, विषमपलाशश्च । सप्तपलाशो वृक्ष:, 'सातवनउ' इति लोकोक्त्या प्रसिद्धः । त्रिपञ्चशब्दादीत्यत्र आदिशब्दाद् नवशक्तिः, अयुग्शक्ति:, विषमशक्तिश्च शम्भुः ॥१५॥ त्रिनेत्रपञ्चेषुसप्तपलाशादिष्वित्यत्र आदिशब्दग्रहणात् त्र्यम्बक-पञ्चशर-सप्तच्छदादिष्वपि बोध्यम् । यथा त्र्यम्बकः तथा अयुगम्बकः, विषमाम्बक इत्यादयोऽपि । यथा पञ्चशरः तथा अयुक्शर: विषमशरश्च कामः । यथा सप्तच्छदः तथा अयुक्छदः, विषमच्छदश्च । एवमन्येषूह्याः ॥ पुनर्व्युत्पत्त्यन्तरमाह
गुणशब्दो विरोध्यर्थं नञादिरितरोत्तर: ॥१६॥ अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।
गुणो नीलपीतादिः, तद्वाची शब्दो गुणशब्दः, 'नञ्’ इत्यव्ययमादिर्यस्य स नञादिः, नञ्पूर्वक इत्यर्थ: । 'इतर' इत्ययं शब्द उत्तर : अग्रे यस्य स इतरोत्तरः, इतरशब्दपरश्चेत्यर्थः । विरोधी विपरीतः अर्थ: विरोध्यर्थः, तं विरोध्यर्थम् ॥ १६ ॥ अभिधत्त अभिपूर्वी दधाति कथनार्थः, कथयतीत्यर्थः । अत्र यथा इति दृष्टान्तार्थेऽव्ययम् । असितः न सितोऽसित:, नञ्पूर्वः सितशब्दः । सितादितर: सितेतरः । अत्रेतरोत्तर: सितशब्द: कृष्णार्थ: स्यात्, द्वेऽपि कृष्णवर्णनाम्नी इत्यर्थः । एवम् अकृशः कृशेतर: स्थूल:, अस्थूलः स्थूलेतरश्च कृश इत्यर्थः ॥ पुनर्व्युत्पत्यन्तरमाह
वार्ध्यादिषु पदे पूर्वे वडवाग्न्यादिषूत्तरे ॥ १७ ॥
३०
वार्ध्यादिषु शब्देषु पूर्वे पूर्वस्मिन्नेव पदे वारित्यादौ पर्यायस्यैकर्थवाचकशब्दस्य परिवर्त्तनं व्यतिहारो भवतीति शेषः । यथा वाः पानीयं धीयतेऽत्र इति वार्धिः । 'कर्मण्यधिकरणे च ' ३ । ३ ।९३ ॥ इति कि:, 'आतो लोप- '६।४।६४ ॥ इत्यालोपः जलधि:, वारिधि:, नीरधि:, अम्बुधिः इत्यादयः । अत्र जलपर्यायाणामेव परावर्त्तो, न तु धीत्यस्य । वार्ध्यादिष्वित्यत्रादिशब्दाद् वार्दोजलदस्तोयद इत्यादय एवमूह्याः । वडवाग्न्यादिषु शब्देषु उत्तरे उत्तरस्मिन्नेव अग्न्यादौ पदे पर्यायस्य परिवर्त्तनं भवति । यथा वडवाग्निः, वडवानलः, वडवावह्निः । अत्र अग्न्यादीनां पर्यायाणां परावर्त:, न तु वडवेत्यस्य । वडवाग्न्यादिष्वित्यत्र आदिशब्दात् सरोजम्, सरोरुहम्, सरोरुट्, सरोजन्म इत्यादय: ॥ १७ ॥ द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।
१.
' विनी' इति ४ ॥ २. 'विनेय' इति १ ॥
अभिधानचिन्तामणिनाममाला
Jain Education International
[ देवाधिदेवकाण्डः- १ भूभृदादिषु शब्देषु द्वयेऽपि पूर्वस्मिन् पदे, उत्तरस्मिंश्च पदे पर्यायपरिवर्तनं भवति । यथा भूभृत्, उर्वीभृत्, भूधरः, उर्वीधरः ४० पर्वत: । अत्र पूर्वोत्तरयोः पदयोः परिवर्तनम् । भूभृदाद्येष्वित्यत्र आद्यशब्दात् सुरपतिः, देवस्वामी, सुरराजः, देवराजः, सुरेश इत्यादयो ज्ञेयाः ॥
For Private
एवं परावृत्तिसहा योगात् स्युरिति यौगिकाः ॥१८॥ एवम् अमुना प्रकारेण पूर्वस्मिन् पदे, उत्तरस्मिन् पदे च पर्यायपरिवर्तनं सहन्ति परावृत्तिसहाः । वार्धिवडवाग्न्यादयः शब्दाः योगाद् अन्वयात् स्युः भवेयुः इति यौगिकाः ॥१८॥ मिश्रशब्दानाह
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः । प्रवक्ष्यन्तेऽत्र
परावृत्तिं पर्यायाणां परावर्तनं न सहन्ते न क्षमन्त इति परावृत्त्यसहाः । पूर्वपदे उत्तरपदे च उभयत्र पदे च पर्यायाणां परावृत्तिमसहमाना मिश्राः, प्रोच्यन्त इति शेषः । ते परावृत्त्यसहाः के ?, गीर्वाणसन्निभाः । गीरेव बाणौ यस्य स गीर्वाणः । अत्र वाग्बाण इति पूर्वपदपरावृत्तिर्न भवति, तथा गी : शर इत्युत्तरपदपरावृत्तिरपि न भवति, तथा वाक्शर इत्युभयपदपरावृत्तिरपि न भवति । सन्निभा इति, सन्निभग्रहणाद् दशरथकृतान्तप्रभृतयो ज्ञेयाः । मिश्रा योगयुक्ता रूढिमन्तश्च । अत्र अभिधानचिन्तामणी, प्रवक्ष्यन्ते कथयिष्यन्ते ॥
५०
लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥१९॥ ६० लिङ्गम् इति सामान्यपदग्रहणात् पुंल्लिङ्गं स्त्रीलिङ्ग नपुंसकलिङ्गं मिश्रलिङ्गं च । लिङ्गानुशासनात् श्रीहेमचन्द्राचार्यविरचिताद् ज्ञेयम् । अत एव आचार्यैः अमरकोषवैजयन्त्याद्यभिधानमालास्विव अत्र लिङ्गनिर्णयो नोक्तः, तथापीह संविनेयजानुग्रहार्थं सन्दिग्धलिङ्गानां च नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥ १९ ॥
इह मुक्तगतिः, सुरगतिः, मनुजगतिः, तिर्यग्गति:, नारकगतिरिति जीवानां पञ्च गतयो भवन्तीति । गतिभेदाद् जीवा अपि पञ्चधा भवन्ति । तद्यथा मुक्ताः सुपर्वाणो मनुजास्तिर्यञ्चो नारकाश्चेति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागं ७० त्यक्त्वा प्रथमादिकाण्डेषु अभिधास्यमानमुक्तादिनामानुक्रमनिर्देशमाह
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके । नरास्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥२०॥
Personal Use Only
www.jainelibrary.org