________________
४१६
।
अपचयं गच्छन्त्यत्र पदार्था इति च क्षिणन्ति(क्षिण्वन्ति) हिंस्यन्तेऽस्यां पापकृतो वा, [ क्ष्मायते] प्राणिजातरूपं भारं विधूनयति वा प्राणिनः स्वकं च काले इति वा क्ष्मां 'क्षि क्षये' (ध्वा.प.अ.), भूवादि:, क्षि निवासगत्योः ' (तु.प.अ.) तुदादिः, क्षि हिंसायाम्' (स्वा.प.अ.), क्र्यादिः (स्वादिः), 'क्षै जैसै क्षये' (भ्वा.प.अ.), 'क्षमूष् सहने ' (भ्वा.आ. वे.), 'क्ष्मायी विधूनने ' (भ्वा.आ.से.), एभ्य औणादिके मनिनि बाहुलकाद् रूपसिद्धिः । २६ गन्धस्य मातेव गन्धमाता, भुवो गन्धगुणवत्त्वात् । २७ न चलति १० अचला। 'चल चलने ' (भ्वा.प.से.), अच् । २८ प्रजा, अव्यते वा भूपैः अवनिः 'अब रक्षणादी' (भ्वा.प.से.), धात्वर्थेषु यो योग्यः, स सर्वोऽर्थो बोद्धव्यं, * अत्तिंसुधृधम्यश्य (म्य) वित्तरि (तु) भ्योऽनि ' ( उणा - २५९ ) इत्यर्निप्रत्ययः ॥ ९३६ ॥ २९ सर्वं सहते सर्वसहा। सर्वपूर्वात् षह मर्षणे (भ्वा.आ.से.), अस्मात् 'पूः सर्वयोर्दारिसहो: '३ ।२।४१ ॥ इति खच्, 'अरुर्द्विषदजन्तस्य '६ | ३ |६७ ॥ इति मुम् । ३० रत्नाति गर्भेऽस्या रत्नगर्भा । "रत्नवती" [] इति भागुरिः । ३ गच्छन्ति जना वृद्धिक्षयावस्यामिति जगती । 'गम्लृ गतौ ' (भ्वा.प.अ.), २० वर्तमाने पृषत् बृहन्मह जगच्छतृवच्च' (उणा- २४१ ) इत्यनेन सूत्रेणाऽतिप्रत्ययो द्वित्वं टिलोपश्चेति निपात्यते शत्रुवदित्यतिदेशाद्, 'उगितश्च '४ ११ १६ ॥ इति ङी । ३२ मेद्यत्यवश्यं मेदिनी । 'ञिमिदा स्नेहने' (दि.प.से.), आवश्यके णिनिः, 'ऋनेभ्यो ङीप् ४ ॥१५ ॥ | "दैत्यमेदोयोगाद् ॥ । मेदिनी "[ ] इत्यन्ये ।
८
अभिधानचिन्तामणिनाममाला
१२.
" मधुकैटभयोरासीन्मेदसा सम्परिप्लुता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवेदिभिः ॥ १ ॥ " ["] इति निरुक्तम् । 'अदन्ताद् मेदशब्दाद् अत इनिठनौ ५ २ ११५ ॥ इतीनि [वा]। पृषोदरादित्वात् सलोपः "["]इति तु स्वामी । ३३
44
4
[ तिर्यक्काण्डः ४, पृथ्वीकायः
।
"
रस्ते आस्वाद्यते सा । 'रस [आ] स्वादै ' (चु.उ.से.), ३० घर्थे कः । रसाः सन्त्यस्यामिति अर्श आदित्वादचि वा । ३४ कश्यपस्येयं काश्यपी । ' तस्येदम् ' ४ | ३ | १२० ॥ इत्यण, ‘टिड्ढाणञ्- '४।१।१५ ॥ इति ङीष् । " भार्गवेण हि पृथिवी जित्वा काश्यपाय दत्ता [] इति प्रसिद्धिः । ३५ पर्वता आधारोऽस्याः पर्वताधारा । ३६ तिष्ठति स्थिरा । 'ष्ठा गतिनिवृत्त' (वा. प. अ.), 'अजिरशिशिर शिथिलस्थिरस्फिरस्थविरखदिरा: ' ( उणा - ५३ ) इति निपातितः । ३७ इंड्यते स्तूयते ईलते वा यजमानो देवान् इन्धे दीप्यतेऽस्यां श्रीर्वा इला । 'ईड स्तुतौ ' (अ.आ.से.), 'ञिइन्धी दीप्तौ ' (रु. आ.से.), अनयोः 'अकर्तरि च कारके संज्ञायाम् ४० ३ । ३ । १९ ॥ इति घञ्, पृषोदरादित्वादीडो ह्रस्वत्वम् इन्धेर्नकारलोप' धकारस्य डकारों गुणाभावश्च यद्वा 'इण् गतौ' (अ.प.अ.), 'क्वादिभ्यः कित्' (उणा - ११२ ) इति सूत्रे अमन्तादपि भवतीति वचनाद् उप्रत्ययः कित्त्वाद गुणाभावः । गवा समानार्थम् । यद्वा 'इड क्षेपे ( ), 'इल स्वप्नक्षेषणयो: ' ( तु.प.से.) आभ्याम् 'इगुपधज्ञाप्रीकिरः कः '३ । १ । १३५ ॥ इति कः, 'कृत्यल्युटो बहुलम्' ३ ३ ११३ ॥ इत्यधिकरणे भवति, क्षिप्यन्तेऽस्यां भावाः, इलन्तिं स्वपन्यस्यामिति वा डलयोरेकत्वस्मरणाल्लत्वम् । यद्वा इलेत्यत्र नाम गोनाम वा, इलान्नं गौर्वाऽस्यामस्तीति, ५० अर्शआदित्वादच् । ३८-३९ रत्नबीजसूः, रत्नबीजशब्दाभ्याम सूः तेन रत्नानि सूते रत्नसू बीजानि सूते बीजसूः । षूङ् (षुञ्) प्राणिगर्भविमोचने' (अ.आ. वे.), 'सत्सूद्विष- ३ ।२ ६१ ॥ इति क्विप् ॥ ९३७ ॥ ४० विपुला विशालत्वात् । ४१-४३ सागरादिति सागरशब्दाद् नेमीमेखलाम्बराः स्युः, तेन सागरो नेमिर्मेखला अम्बरं चाउस्याः सागरनेमी, सागरमेखला, सागराम्बरा । यौगिकत्वात् समुद्ररशनों, समुद्रकाशिः, समुद्रवसनादयोऽपि । चतुश्चत्वारिंशत् सामान्येन पृथिव्याः । शेषश्चात्र
।
,
Jain Education International
५.
१. १.३.४.५ प्रतिषु नास्ति ॥ २. क्षितिशब्दस्य व्युत्पत्तिस्तुलनीया ॥ ३. 'भु-' इति ॥ ४. 'कम्पने' इति क्षीरतरङ्गिण्यादयः ॥ 'बोद्धयः' इति३ ॥ ६, 'निः' इति४ ॥ ७ 'सर्वं' इति५ ॥ ८. द्र. स्वोपज्ञटीका ४१९३७ ॥ पृ.२०७ ॥ ९ ङीष्' इति२. ३.४ ॥ १०. द्र. अम. क्षीर. २।१।३ ॥ पृ.७० ॥ स्वोपज्ञटीका ४ । ९३७ ॥ पृ.२०७ ॥ ११. सां' इति ॥ १२ द्र टीकासर्वस्वम्, भा-२, २।१।३ ॥ पृ.४ ॥ पदचन्द्रिका भा-२, भूमिवर्गः श्रो-३ पृ.४ ॥ तत्र मेदमांसपरिप्लुता' इति ब्रह्मवादिभिः' इति च दृश्यते ॥ १३. अम. क्षीरस्वामिकृतटीकायां न दृश्यते द्र. पदचन्द्रिका भा-२, भूमिवर्गः श्रशे-२, पृ.५ ॥ १४. श्रीरस्वामी' इति ॥ १५. 'आस्वादने' इति४ ।। १६. 'भ्योऽचि' इति३ ॥ १७. 'ङीषि' इति५ ॥ १८. 'क-' इति१. २.३ ॥ १९. ' - पे' इति४ ॥ २०. 'धस्य डो' इति४, 'धकारस्य डकारो' इति तत्रैव टिप्पणी ॥ २१. 'ते' इति३, १प्रतौ नास्ति ॥ २२. ' -न्ते' इति१.२.३.४ ॥ २३. ' विस्तीर्णत्वात्' इति४, 'विशालत्वात् ' इति तत्रैव टिप्पणी ॥ २४. ४५ प्रत्योर्नास्ति ॥ २५ - रसना' इति१.३.४.५ ॥
For Private & Personal Use Only
www.jainelibrary.org