________________
९३८- ९४०]
" अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥१॥ देहिनी केलिनी मौलिर्महास्थाल्यम्बरस्थल ॥" [शेषनाममाला ४ । १५७ - १५८ ॥] || द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥९३८ ॥ दिवस्पृथिव्यौ रोदस्यो रोदसी रोदसी च ते ।
१ द्यौश्च पृथिवी च द्यावापृथिव्यौ । दिवो द्यावा ६ ३ २९ ॥ इति सूत्रेण दिवो द्यावादेशः । २-३ एवं द्यावाभूमी द्यावाक्षमे ॥९३८ ॥ ४ दिवस्पृथिव्यौ १० इति दन्त्यपवर्गाद्यसप्तमस्वरमध्यः, 'दिवसश्च पृथिव्याम्' ६ | ३ | ३० ॥ इति सूत्रेण पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसादेशः स्यात्, द्यावा च । दिवः पृथिव्याविति सविसर्गोऽपि । ५ रुदन्त्यनयोः रोदस्यो, स्त्रीलिङ्गो द्विवचनान्त: । 'रुदिर् अश्रुविमोचने ' ( अ.प.से.), असुन्, गौरादित्वाद् ङीष्, नदीशब्दवद् रूपाणि । ६ अग्रेऽपि रोदसी इत्ययं क्लीबलिङ्गो द्विवचनान्तः । तृतीयाचतुर्थीपञ्चमीद्विवचने रोदोभ्यामिति । स्पष्टार्थमत्रो भयो निर्देश: । ७ तृतीयो 'रोदसी' इत्ययं तृतीयस्वरान्तः तस्माद् द्विवचनम्, तृतीयाचतुर्थीपञ्चमीद्विवचने रोदसिभ्याम्, षष्ठी२० सप्तम्योर्द्विवचने रोदस्योः । यदुत्पल:-"द्यावापृथिव्योद्विवचने रोदसिशब्द इवर्णान्तादेशः पृषोदरादित्वात् "[]इति । रोदसीत्यव्ययमपि । सप्त भूमिस्वर्गयोरेकोक्त्या नामानि ॥
३०
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
४१७
१ ऋच्छत्यर्यते वा इरिणम्, हस्वादिः । 'ऋ गतौ ' (भ्वा.प.अ.), 'अर्ते: किदिच्च' (उणा - २०९) इतीनन्, धातोश्वेदादेशः, रपरत्वम् । २ उषस्य निवास उषरम्, पञ्चमस्वरादिः । 'रोऽश्मादेः '६ । २ ७९ ॥ इति चातुरर्थिको रः । यद्वा ऊषणमूषः । ऊष रूजायाम् ' (भ्वा.प.से.), दीर्घादिरदन्तः, ततो घञि ऊषस्य निवास ऊषरः (ऊषरम् ) । चातुरार्थिक एव रः । ऊषोऽस्यास्तीति [वा]। 'ऊषशुषि (सुषि) मुष्कमधो रः ५। २ । १०७ ॥ इति रः । 'भवेदूषरमूषरम् ''[ ] इति महेश्वरः । द्वे क्षारमृद्भुवः
॥९३९॥
स्थलं स्थली
44
१ स्थल्यते स्थीयतेऽत्र स्थलम् । 'स्थल (ष्ठल) स्थाने' (भ्वा.प.से.) अस्मादधिकरणे 'घञर्थे" कविधानम्' (वा - ३ । ३ । ५८ ॥ ) इति घञर्थे कः I 'न्यासकृता तु 'कपिष्ठलो गोत्रे '८ । ३ ।९१ ॥ इत्यत्र " पचाद्यच्"[न्यासयुक्तकाशिका८ । ३ ।९१ ॥ ] इत्युक्तम्, स तु व्युत्पत्तिमात्रम् ["] इति स्वामी । स्थलयति स्थलम् । 'स्थल संवरणें । ( ), अच् । २ स्थली भवेदकृत्रिमा चेदिति, 'जानपदकुण्ड- '४।१ । ४२ ॥ इत्यादिना ङीषि स्थली । कृत्रिमे तु टाबेव स्थलेति । स्पष्टार्थमुभयलिङ्गनिर्देशः । द्वे सहजोन्नतभुवः ॥
उर्वरा सर्वसस्य भूः
१ उर्वति हिनस्ति सर्वं दुःखमिति उर्वरा, ह्रस्वादिः । 'उर्वी हिंसायाम् (भ्वा.प.से.), बाहुलकादरन्प्रत्ययः । उरून् महतो वृणोतीति पृषोदरादिर्वा । "उर्वति रक्षति, उरुमियतीति वा [] इति भट्टः । सर्वं सस्यमस्यामिति सर्वसस्या । भूमात्रेऽप्ययम् । एकं सर्वधान्योत्पत्तियोग्यभुवः ॥
इरिणं पुनरुष॑रम् ॥९३९॥
१. -स्थली' इति शेषनाममालास्वोपज्ञटीकयोः ॥ २ 'वा' इति४ ॥ ३. द्र. स्वोपज्ञटीका ४ । ९३९ ॥ पृ.२०८ ॥ ४ 'सर्व' इति३ ॥ ५. 'ऊ' इति१.५ ॥ ६ अम. क्षीरस्वामिकृतटीकायाम् "उर्वति क्षुधमुर्वमियर्ति वा (उर्वरा ) " । इति दृश्यते, २।११५ ॥ पृ.७० ॥ द्र. पदचन्द्रिका, भूमिवर्गः, श्रो-४, पृ.३ ॥ ७ 'ऊषरम्' इत्यभिधाननाममालायाम्, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ८ 'ऋ गतिप्रापणयोः ' इति क्षीरतरङ्गिण्यादयः ॥ ९ ऊषशब्दव्युत्पत्त्यनन्तरमेवाऽयं ग्रन्थो युक्तः ॥ १०. तुलनीयोऽमरकोषः २ ११५ ॥ ११. ' - ञ्यर्थे' इति३ ॥ १२. अम. क्षीरस्वामिकृतटीकायां न दृश्यते ॥ १३. क्षीरतरङ्गिण्यादौ संवरणार्थकस्थलधातुर्न दृश्यते ॥ १४. ' -यते' इति३.४ ॥ 'धन्यते' इति, 'धन्वते' इति४ ॥ १६ धन्वौ' इति५ ॥
१५.
४०
मरुधन्वा
धन्वा ।
१ म्रियन्ते तृषा कृत्वाऽत्र, म्रियन्तेऽक्रूरप्राणिनोऽत्रेति वा मरुः । ‘मृङ् प्राणत्यागे’(तु.आ.प.अ.), 'भृमृशीतृचरित्सरि[ त ]नि [ धनि] मिमस्जिभ्य उ: '(उणा-७) इत्यु: । २ धन्व्य गम्यते स्थानान्तरमस्मादिति धन्विर्गत्यर्थः सौत्रो धातुः, 'कनिन् युवृषिक्षिराजिधन्विप्रतिदिव: ' ( उणा - १५४ ) इति सूत्रेण साधुः । पुंस्येतौ । यदमर:-" समानौ मरुधन्वानौ "[ अमरकोषः २ ।१ १५ ॥ ] इति । धन्वानौ, धन्वानः इत्यादिरूपाणि । द्वे निर्जलभूमेः ॥
क्षेत्राद्यप्रहतं खिलम् । ६०
For Private & Personal Use Only
५०
www.jainelibrary.org