________________
४१०
धीवरे दाशकैवंती
२०
।
१ दधाति मत्स्यानिति धीवरः । 'डुधाञ् धारणादौ' (जु.उ. अ.), 'छित्वर [ छत्वर] भीवरपीवरमीवरं- '(उणा२८१) इत्यादिना ट्वरन् (ष्वरन्) प्रत्यये धीवरो निपातितः, तत्र ध्यायति मत्स्यानिति वा अनेनैव सूत्रेण निपातितः । टित्त्वात् (षित्त्वात् ) स्त्रियां ङीषि धीवरी । २ दशति मत्स्यानिति दाश: । 'दंश दशने ' ( भ्वा.प.अ.), 'दंशेष्टटलावात्वं चं' (उणा - ६८८ ) इति टटली नकारस्यात्वं च "[ ] इति स्वामीं । दाश्यते दीयते मत्स्यमूल्यमस्मै इति दाश दाने ' ( वा.उ.से.), १० पत्र वा तालव्यान्तोऽयम् "शालो हुये ( झषे ) धीवर एव दाश: "[]इति शब्दभेदात् । "कैवर्तभृत्ययोर्दास दासी वाणी च चेटिका [] इति दन्त्यान्ते रुद्राद् दन्त्यान्तता च तथा च" ऋत्विज दाशस्तालव्यो धीवर एवाऽन्त्यदन्त्यः "[] इत्यूष्मविवेकात् । ३ के पानीये वर्तो वर्तनं जीविकाऽस्येति केवर्त:। 'हलदन्त्या(न्ता) त्- '६ । ३ ।९ ॥ इत्यलुक्, ततः स्वार्थे प्रज्ञाद्यणि कैवर्त्तः । "के जले वर्तते केवर्तः "[ ] इति तु सर्वानन्दः । वृतु वर्तने' (ध्वा.आ.से.) अच् । त्रीणि धीवरस्य । 'माछी इति भाषा ॥
वडिंशं मत्स्य॑वेधनम् ।
अभिधानचिन्तामणिनाममाला
१ नेन वडिशं, स्त्रीक्लीबलिङ्ग । 'वड आग्रहणे ' ( ), सौत्रः, 'कुलिकनि- '(हैमोणा - ५३४ ) इति इश: । बलिनो मत्स्यान् श्यति तनूकोरति वडिशमिति या डलयोरैक्यात् । "स्त्रियां वडिशा | अपचये वडिशा (वडिशी) [ ] इति माधवी 1 २ मत्स्या विध्यन्तेऽनेन मत्स्यवेधनम् । 'विध विधाने ' (तु.प.से.),
१३
[ मर्त्यकाण्डः-३
स्त्रियामपि " वडिशी
धातूनामनेकार्थत्वाद् विधेर्भेदनार्थता मत्स्यवेधनी तु"["]इति पञ्जिका कौमुद्यादयश्च । द्वे afsशस्य । 'वणसी कांडे' इति भाषा ॥
आनायस्तु मत्स्यजालम्
Jain Education International
१ आनयन्ति मत्स्यादिकमनेनेति आनायः, पुंसि । ३० 'णीञ् प्रापणे' (भ्वा.उ. अ.), 'जालमानायः ३ | ३ | १२४ ॥ इति घञि निपात्यते । जलेन सम्बध्यते जालम् । शेषेऽण् । जलतीति जालं वा । 'जल धान्ये ' ( भ्वा.प.से.), ज्वलादित्वाण्णः | स्त्रीक्लीबलिङ्गोऽयम् । "अनरे जालम् "[] इति माला । " [ आनायः पुंसि ] जालं स्याच्छणसूत्रं पवित्रकम्"[ अमरकोषः २ | १० | १६ || ] इत्यमरः । मत्स्यानां जालं मत्स्यजालम् । द्वे मत्स्यजालस्य
1
कुर्वेणी मत्स्यबन्धनी ॥ ९२९ ॥
१ प्रविश्य निर्गमाभावात् कुत्सितं वेणन्ते मत्स्या अस्यामिति कुवेणी । 'वेणं निशामनवादित्रा - ४० दानगमनज्ञानचिन्तासुं' (भ्वा.उ.से.), अच्, गौरादित्वाद् ङीष्, कृष्यादित्वादिकारे 'कृदिकारात्- ' ( गणसू-४। १ ।४५ ।। ) इति ङीष वा । २ मत्स्या बध्यन्तेऽस्यां मत्स्यबन्धनी। 'बन्ध बन्धने' (क्या.प.अ.) अधिकरणे ल्युट् गौरादिः । मत्स्यकरण्डिका च । " मत्स्याधानी कुवेणी स्यात् "[ अमरकोषः १ | १० | १६ || ] इत्यमरः । " मत्स्या आधीयन्ते स्थाप्यन्तेऽस्यां मत्स्याधानी "[ ] इति क्षीरस्वामी । द्वे मत्स्यबन्धनविशेषस्य ॥ ९२९ ॥
१९
जीवन्तकः शाकुनिकैः
१. 'मीवर' इति ३. ४ प्रत्योर्नास्ति ॥ २. 'दंसेष्टटनौ न आ च' (उणा - ६८८) इत्युणादिगणसूत्रम्, वस्तुतस्तु - 'दंशेश्च' (उणा - ६८९) इत्यनेनैव साधुः ॥ ३. नौ' इति३ ॥ ४. स्वामिकृतामरकोशटीकायाम्- "द्यति दशति दाश्नोति वा मत्स्यान् दाशः" इत्येव दृश्यते १।९।१५ ॥ पृ. ६४ ॥, द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्लो - २४२, पृ. २८९ ॥ तत्र - "दशति मत्स्यान् इति "दंशेष्टटनौ न आ च' (उ- ५1१० ) इति टटनौ नकारस्यात्वं । 'दाश:' इति स्वामी" इति दृश्यते ॥ ५. द्र टीकासर्वस्वम् भा-१, ११० । १५ ॥ पृ. १८५ ॥ पदचन्द्रिका, भा-१, वारिवर्गः, श्लो - २४२, पृ. २८९ ॥ रामाश्रमी १।१०।१५ ॥ पृ. १२६ ॥ ६. 'भेदात्' इति२ ॥ ७. 'दाशो' इति३ ॥ ८. द्र टीकासर्वस्वम्, भा-१, १।१०।१५ ॥, पृ.१८५॥, तत्र - "कैवर्तभृत्ययोर्दासो दासी वाशा च चेटिका" इति दृश्यते, पदचन्द्रिका, भा-१, वारिवर्गः, श्लो- २४२, पृ. २८९ ॥, तत्र-"कैवर्तभृत्ययोर्दासो दासी बाला च चेटका" इति दृश्यते, रामाश्रमी १।१०।१५ ॥ तत्र - " कैवर्तभृत्ययोर्दासो दासो बाणा च चेटिका " इति दृश्यते ॥ ९. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्लो - २४२, पृ. २८९ ॥ १०. सर्वानन्दकृतटीकायां तु- "कस्य जलस्य ई लक्ष्मीः, तया वर्तो वर्तनमस्येति कैवर्तः । स्वार्थिकोऽण् ।" इति दृश्यते, भा-१, १।१०।१५ ॥ पृ. १८५ ॥ ११. 'माछीगर' इति३ ॥ १२. तुलनीयोऽमरकोषः १ | १० | १६ ॥ १३. ३प्रतौ नास्ति ॥ १४. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्लो- २४४, पृ. २९० ॥ १५. ' - टो' इति३, 'टौ' इति४ ॥ १६. 'वेणते' इति१. २ ।। १७. 'वेणा' इति३, 'वेणु' इति४ ॥ १८. वेणू गतिज्ञानचिन्तानिशामनवादिग्रहणेषु इति सोरतरङ्गिण्यादयः ।। १९ अम. क्षीरस्वामीकृतटीकार्य न दृश्यते ॥ २०. 'स्वामी' इति४ ॥ २१. तुलयनीयोऽमरकोषः २ ॥१० ॥ १४ ॥
For Private & Personal Use Only
"
www.jainelibrary.org