________________
९२४ - ९२८]
कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् ॥९२६॥ १ कुत्सितं तूलयति कुतूहलम् । 'तूल निष्कर्षे' (चु.उ.से.), अच्, पृषोदरादित्वाद् हकारागम:, प्रज्ञाद्यणि कौतूहलम् । २ कुर्भूस्तुद्यतेऽनेन कुत्सितं तन्यते वा कुतुकम् । 'निष्कतुरुष्क- ' (हैमोणा - २६ ) इति के साधुः । कुं तुञ्जति (तोजति) वा कुतुकम् । 'तुज हिंसायाम्' (भ्वा.प.से.), मूलविभुजादित्वात् कः, न्यङ्क्वादित्वात् कुत्वम् । ३ प्रज्ञाद्यणि कौतुकम् । ४ कुत्सितं तूलयति । अच्, पृषोदरादित्वाद् हकारागमः कुतूहलम् । १० विनोदोऽपि । चत्वारि 'कौतिग' इति ख्यातस्य
॥९२६ ॥
२०
व्युत्पत्तिरत्नाकरकलिता
व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः 1 १ विध्यति व्याधः । 'व्यध ताडने ' (दि. - प.अ.), 'श्याद्व्यध - '३ ।५ ।१४१ ॥ इत्यादिना णः । २ मृगवधेन आजीवति मृगवधाजीवी । ग्रहादित्वाणिनिः । ३ लुभ्यति स्म लुब्धः । 'लुभ गार्थ्ये' (दि.प.से.), 'निष्ठा'३ । २ । १०२ ॥ इति क्तः, 'लुभो विमोहने '७।२ ।५४ ॥ इतीनिषेध:, ततः स्वार्थे कर्नि लुब्धकः । ४ मृगान् याति मृगयुः । ' या प्रापणे' ( अ.प.अ.), 'मृगय्वादयश्च' ( उणा - ३७ ) इति कुः । चत्वारि 'आहेडी' इति ख्यातस्य ॥ पापर्द्धिर्मृगयाऽऽखेटो मृगव्याऽऽच्छोदने अपि
-
4
॥९२७॥ १ पापानि ऋध्नुवन्त्यस्यां पापर्द्धिः । 'ऋधु वृद्धौ' (स्वा.प.से.), क्तिन् २ मृग्यन्तेऽन्विष्यन्ते प्राणिनोऽस्यां मृगया । मृगणं अन्वेषणे ' (चु.आ.से.), 'परिचर्यापरिसर्यामृगयाटाट्यादयश्चे' (वा - ३ | ३ |१०१ ॥ ) इति साधुः । ३ आखेट्यन्ते उत्त्रास्यन्ते प्राणिनोऽस्मिन्निति आखेटः । खिट उत्त्रासे' (भ्वा.प.से.), अधिकरणे घञ् । ४ मृगान् व्ययत्याच्छादयति मृगव्यम् । 'व्येञ् संवरणे' (भ्वा.उ. अ.), 'आतोऽनुपसर्गे कः '३ । २ । ३ । । ५ आचोद्यन्ते प्रेर्यन्ते ३० प्राणिनोऽस्मिन्निति आच्छोदनम् । 'चुद प्रेरणें' (चु.उ.से.),
Jain Education International
४०९
पृषोदरादित्वात् [ चस्य छत्वम् ], स्त्रीक्लीबलिङ्गावेतौ । पञ्च 'आहेडु' इति ख्यातस्य जालिकस्तु वागुरिक:
॥९२७॥
१ जालेन जीवित जालिकः । तेन जीवतिं ' ४ । ४ । १२ ।। इति ठक् । २ वागुरया चरति वागुरिकः । 'तेन चरतिं '४।४।८ ॥ इति ठक् । द्वे "वागुरी' इति ख्यातस्य ॥ वारा मृगजालिका ।
१ वान्ति पतन्ति मृगा अस्यां वागुरा । 'वा गतिगन्धनयो: ' (अ.प.अ.), 'मद्गुरादयश्च' (उणा-४१ ) इत्युरचि साधुः । २ मृगाणां ग्रहणायै जालिका मृगजालिका । द्वे मृगबन्धनपाशस्य ।
४०
शुम्बं वटोरको रज्जुः शुल्वं तन्त्री वटी गुणः ॥९२८ ॥
१ शुनति शुम्बम् स्त्रीक्लीबम् । 'शुन गतौ ' (तु.प.से.) । २ वट्यते वेष्ट्यते वटार: | 'वट वेष्टने ' (भ्वा.प.से.), आरन्, स्वार्थे कनि वटारकः । ३ सृज्यते रज्जुः, स्त्रीलिङ्गः । 'सृज विसर्गे ' ( तु.आ.अ.), 'सृजेरसुम् च' (उणा - १५ ) इत्यु:, स च कित्, सकारलोपश्च, 'इको यणचि '६ ॥१ ॥७७॥, 'झलां जश् झशि'८ ॥ ४ ॥ ५३ ॥ इति जश्त्वे दः, 'स्तोः श्रुना - '८ ४ ४० ॥ इति चुत्वे जैः । ४ शलति शुल्वम् । 'शल गतौ ' (भ्वा.प.से.), 'उल्वादयश्च' ५० ( उणा - ५३५ ) इति साधुः । ५ तन्त्रयति धारयति तन्त्रिः । 'तत्रि कुटुम्बधारणे' (चु.उ.से.), 'इन् सर्वधातुभ्यः '(उणा५५७ ) इतीन्, तर्त: 'कृदिकारात्- ' ( गणसू- ४ ११ ॥ ४५ ॥ ) इति ङी तन्त्री । ६ वटति वेष्टयति मृगानिति वटी, त्रि(स्त्री) लिङ्ग: । 'वट वेष्टने ' (भ्वा.प.से.), अच्, ( "गौरादित्वाद् ङीष् ) । ७ गुण्यते अभ्यस्यते गुणः । 'गुणण् अभ्यासै—' (चु.उ.से.), घञर्थे कः । सप्त 'रां मूंजडी ' इति ख्यातायाः ॥ ९२८ ॥
१. ४प्रतौ नास्ति ॥ २. वस्तुतस्त्विदं चिन्त्यम्, कुत्वे आन्तरतम्याज्जस्य गत्वप्रसङ्गात् ॥ ३. 'कुतिग' इति१.२, 'कौतग' इति४ ॥ ४. 'कन्' इति ॥ ५ णकारानुबन्धोऽनावश्यकः, 'मृगणि' इति हैममते ॥ ६. टाट्यानामुपसङ्ख्यानम्' इति वार्तिकस्वरूपं दृश्यते, 'टाट्याजागर्याजागराणाम्' इति भाषावृत्तौ पृ. १३२ ॥ ७ 'सञ्चोदने' इति क्षीरतरङ्गिण्यादयः ॥ ८. 'डो' इति३. 'डूं' इति४ ॥ ९. 'वेतनादिभ्यो जीवति ४१४ ॥ १२ ॥ इति सूत्रस्वरूपम्, वेतनादिगणे जालशब्दस्योल्लेखः ॥ १०. 'चरति' इत्येवाऽष्टाध्याय्याम् ॥ ११. 'वाग' इति१.२ ॥ १२. ‘हरणाय' इति४॥ १३. त्रिपाद्यामपि पूर्वं प्रति परशास्त्रस्याऽसिद्धत्वात् सस्य चुत्वेन शः, तस्य जश्त्वेन जः रज्जुरिति सरणी चारुतरा ॥ १४. ४प्रतौ नास्ति ॥ १५. 'ङीष्' इति४ ॥ १६. कोष्ठागन्तर्गतपाठस्थाने ४प्रतौ 'गौरादिः' इत्येव दृश्यते ॥ १७. णकारानुबन्धोऽनावश्यकः ॥ १८. 'कुण गुण चामन्त्रणे' इति क्षीरतरङ्गिणी, 'केत ग्राम कुण गुण चामन्त्रणे' इति धातुप्रदीपः, 'सङ्केत ग्राम कुण गुण चामन्त्रणे' इति मा. धातुवृत्तिः, 'कुण गुण केतण् आमन्त्रणे' इति हेमः ॥ १९. 'रादु' इति३ ॥ २०. ' इत्यादि' इति १.२ ॥
For Private Personal Use Only
www.jainelibrary.org