________________
९०४-९०६ ]
कन् । मधुनो विकार:, मधुना कृतो वा माधवकः कुलादित्वाद् वुञ् वा । द्वे मधुमिश्रितस्य ॥
4.
व्युत्पत्तिरत्नाकरकलिता
मैरेये शीधुरासवः । १ मीरायां देशे भवो गौड्याः सुराया विशेषो मैरेयः । ‘स्त्रीभ्यो ढक्’४। १ । १२० । । २ शेरतेऽनेनेति शीधुः । 'शीङो धुक्-'(उणा- ४७८ ) इति धुक् । पुंनपुंसकौ । 'पुंनपुंसकयोर्दारु जीवातुस्थाणुशीधवं : ''[त्रिकाण्डशेषः ३।५।८॥]इति त्रिकाण्डशेषः । ३ आसूयते आसवः । 'पुञ्ं अभिषवे' (स्वा.उ.अ.), 'ऋदोरप् '३।३ । ५७ ॥ इत्यप् । १० पक्वरसोऽपि । सुरा चतुर्द्धा । यदुक्तम्- "गौडी पैष्टी माध्वी फलोत्था च ' [ ] इति । आत्रेयोऽपि "गौडी माध्वी तथा पैष्टी निर्यास्या कथिता परा [ ]इति । तन्मध्ये गुडोत्पन्नायाः सुराया नामानि मैरेय इत्यादित्रीणि । "मैरेयमासवः शीधुः ' [ अमरकोषः २ ।१० । ४१ ॥ ] इत्यमरः । " मीरायां देशे भवो गौंड्याः सुराया विशेषो मैरेयः " [ अम. क्षीर. २ । १० १४१ ॥ ] इति क्षीरस्वामी । "मैरेयो गदितः शीधुः " [ ] इति माला । " शीधुगौंडी च मात्सण्डी गुडेन प्रभवास्त्रयः " [ ]इत्यात्रेयो गुडप्रभवायाः सुरायास्त्रीन् भेदानाह । श्रीलिङ्ग[य] सूरयस्तु'धातकीपुष्पमिश्रगुडसहितधान्याम्बुकृतमद्यनाम मैरेयम्, पक्वे२० क्षुरसकृतमद्यनाम शीधुः, अपक्वेक्षुरसकृतमद्यनाम आसवः " [लिङ्गयसूरिकृता अमरपदविवृत्तिः ( अमरकोशः, भा-१, २ । १० १४१ ॥ ] इति त्रीनपि भिनत्ति ॥
F
जगलो मेदको मद्यपङ्कः
१ भृशं गलति स्रवति जगलः । गलेर्यङ्लु– गन्तादच् । 'जक्ष भक्षहसनयो: ' ( अ.प.से.) इत्यत: वृषादित्वात् कलच्, बाहुलकात् षलोपे जश्त्वे च जगल: "[ ] इति शाब्दिकाः । " जगलो मदनद्रुमे । मेदके पिष्टमद्ये च' [ मेदिनीकोशः, लान्तवर्ग:, श्रो- ९१-९२] इति चवर्गतृतीयादौ मेदिनिः । २ मेद्यति स्निह्यति मेदकः । ' ञिमिदा ३० स्नेहने'(दि.प.से.), ण्वुल् । ३ मद्यस्य पङ्को मद्यपङ्कः ।
मदनपालस्तु
" प्रसन्ना स्यात् सुरामण्ड१स्तस्मात् कादम्बरी घनार । जगलस्तदधः प्रोक्तो३ जगलान्मेदको घनः ४ ॥१॥"
Jain Education International
३९९
बुक्सो ( पक्वशो) ५ जगलः सारः सुराबीजं तु किण्वकम्६ ॥ [मदनपालनिघण्टुः, पानीयादिवर्ग:-८, मद्यभेदनामगुणाः, श्रो१७१ - १७२] इति भिनत्ति । एषां षण्णां गुणांश्च पृथग् ब्रूते । त्रीणि मद्यपङ्कस्य ॥
किण्वं तु नग्नहूः ॥९०४॥
नग्नहुर्मद्यबीजं च
४०
१ किणति (कणति) सुराननेनेति किण्वम्, क्लीबे । 'कण्ं (कण) गतौ ' (भ्वा.प.से.), ततो बाहुलकादुल्वादित्वाद् वः, उपधायाश्चेत्वम् । किणिः सौत्रो वा तत उल्वादित्वाद् वः । “किण्वं पापे सुराबीजे "[विश्वप्रकाशकोशः, वान्तवर्ग:, श्रो- १७ ] इति विश्वः । २ नग्नेन अवस्त्रेण हूयते स्पर्ध्यतेऽनाच्छादनत्वाद् नग्नहूः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ. अ.), क्विप्, ऊठ् । नग्नहौ, नग्नह्नः इत्यादि । अव्युपन्नोऽमित्यन्ये ॥ ९०४ ॥ ३ नग्नहुः पञ्चमस्वरान्तः पुंलिङ्गावेतौ । ४ मद्यस्य बीजं मद्यबीजम् । चत्वारि माषदलन्यादिमद्यबीजस्य ॥
I
मद्यसन्धानमासुतिः । ५०
आसवोऽभिषवः
१ मद्यस्य सन्धानं मद्यसन्धानम् । २ आसूयत इति आसुतिः । 'षुञ् अभिषवे' (स्वा.उ. अ.), 'स्त्रियां क्तिन् ' ३ । ३ । ९४ । । ३ आसवनम् आसवः । 'ऋदोरप् ३ । ३ । ५७ ।। । ४ अभिषूयतें चिरं क्लेद्यते अभिषवः । त्रीणि मद्यसन्धानस्य । 'मद्यनुं अथाणुं"" इति भाषा ॥
मद्यण्डकारोत्तमौ समौ ॥ ९०५ ॥
१ मद्यस्य मण्डो मद्यमण्डः । २ कारण क्रियावशादुत्तमः कारोत्तमः । कारोत्तरोऽपि । “कारोत्तम: (-त्तरः ) सुरामण्डः "[ अमरकोषः २ ११० ४२ ॥] इत्यमरः । " सुरोर्ध्वे ६० स्वच्छो भाग : ''[ ] इति तट्टीका । द्वे मद्यमण्डस्य ॥ ९०५ ॥ गल्वर्कस्तु चर्षकः स्यात् सरकश्चानुतर्षणम् ।
गलन्त्यनेन गल्वर्क: । 'गल अदने ' (भ्वा.
१
१. ४प्रतौं न दृश्यते ॥ २. ' -सीधवः' इति त्रिकाण्डशेषे, पृ. ३८८ ॥ ३. 'पूञ्' इति३ ॥ ४. ' -स्यण्डी' इति २.४ ॥ ५. 'मिदा' इति१.२ ॥ ६. 'किण्' इति२. ३.४ ॥ ७. 'किणेः' इति ॥ ८. 'तत्र' इति३, ४प्रतौ नास्ति ॥ ९ - ति' इति३.४ ॥ १०. ' -नों' इति४ ॥ ११. ' - णुं इतिर, ' - णों' इति४ ॥ १२. 'गल्यन्ते' इति४ ॥
For Private & Personal Use Only
www.jainelibrary.org