________________
३९४
१९०) इति क्वुन् । स्त्रियां कृषिका । ३ कुष्णाति भूमिं कुशिकः । 'कुष निष्कोषणे' (क्र्या.प.से.), किकनि प्रत्यये साधुः । ४ फलति विदारयति भुवं फलम् । 'त्रिफला विशरणे' (भ्वा.प.से.), अच् । चत्वारि 'लोहकुशी' इति ख्यातार्याः ॥८९१॥
अभिधानचिन्तामणिनाममाला
दात्रं लवित्रम्
१ द्यन्ति (दान्ति) लुनन्त्यनेन दात्रम् । 'दैप् शोधने' (भ्वा.प.अ.), 'दाप् लवने ' ( अ.प.अ.), 'दाम्नी-' ३ । २ । १८२ ॥ इति ष्ट्रन् । २ लूयतेऽनेन लवित्रम् । 'लूञ् १० छेदने ' (क्र्या.उ.से.), 'अर्त्तिलूधूसूखनसहचर इत्र : '३।२ ।१८४ ॥ । द्वे 'दात्र' इति ख्यातस्य ॥ तन्मुष्टौ वट:
१ तस्य दात्रस्य मुष्टिर्ग्रहणस्थानं तन्मुष्टिः, तत्र । वट्यते "विभाज्यते वण्ट: । 'वटि विभाजने ' (चु.उ.से.), कर्मणि घञ् । एकं दात्रमुष्टेः ॥
त्यं समीकृतौ । १ मतस्य करणं मत्यम् । मतशब्दः साम्यार्थः । 'मतजनहलात् करणे (ण - ) ४ ४ १९७ ॥ इति यत् । असमस्य समीकरणं समीकृतिः, तत्र । एकं 'समार' इति ख्यातस्य ॥
२० गोदारणं तु कुद्दालः
१ गौर्दार्यतेऽनेन गोदारणम् । 'दं विदारणे' (क्र्या.प.से.), अतो णिजन्तात् करणे ल्युट् । कुं भुवमुद्दालयति कुर्दल्यतेऽनेनेति वा कुद्दालः । 'दल विशरणे' (भ्वा.प.से.), पृषोदरादिः । पुंस्ययम् । वैजयन्ती तु " गोदारणं तु कुद्दालम् " [वैजयन्तीकोषः ३ ॥८ ॥ २९ ॥ ] इति क्लीबेऽप्याह । द्वे कुद्दालस्य ॥
खनि॑त्रं त्ववदारणम् ॥८९२॥
१ खन्यतेऽनेन खनित्रम् । 'खनु 'अवदारणें' (भ्वा.उ.से.), 'अर्त्तिलूधू- '३ ।२ । १८४ ॥ इतीत्रः । २ अव३० दार्यतेऽनेन अवदारणम् । 'द् विदारणे' (क्र्या.प.से.), णिजन्तात् करणे ल्युट् । सामान्येन द्वे कुद्दालादेः ॥ ८९२ ॥
Jain Education International
[ मर्त्यकाण्डः-३
प्रतोदस्तु प्रवेयणं प्राजनं तत्रतोदने ।
१ प्रतुद्यन्ते वोढारोऽनेन प्रतोदः । 'तुद व्यथने ' ( तु. उ. अ.), 'हलश्च ३ । ३ । १२१ ॥ इति संज्ञायां करणे घञ् । २-३ प्राज्यन्ते प्रेर्यन्तेऽनेन प्रवयणम् । 'अज गतौ क्षेपणे च' (भ्वा.प.से.), ल्युर्टि, 'वा यो: (यौ) '२।४।५७ ॥ इति पक्षे वीभावः । व्यभावपक्षे करणे ल्युटि प्राजनम् । ४ तुद्यन्तेऽनेन तोत्रम् । 'तुद व्यथने ' ( तु.उ. अ.), 'दाम्नीशसु (शस) युज- '३ । २ । १८२ ॥ इत्यादिना ष्ट्रन् । ५ तुद्यतेऽनेन तोदनम् । करणाधिकरणयोः (-योश्च ) ३।३ । - ४० ११७॥इति ल्युट् । पञ्च 'पराणा' इति ख्यातस्य ॥
योमाबन्धः
तु
१ - २ यूयतेऽनेन योत्रम् । युज्यतेऽनेन योक्त्रम् । 'युञ् बन्धने' (क्र्या.उ.अ.), 'युजिर् योगे' (रु.उ. अ.) च, आभ्यां 'दाम्नीशसु (शस) युयुज- '३।२।१८२ ॥ इति ष्ट्रन् । ३ आबध्यतेऽनेन आबन्धः, चर्मरज्जुः । 'बन्ध बन्धने' (क्र्या. - प.अ.) करणे घञ् । त्रीणि 'जोत्र' इति ख्यातस्य ॥ कोटिशो लोष्टभेदनः ॥८९३॥
१ कोटिमग्रभागं श्यति तनूकरोति कोटिशः । ' शो तनूकरणे' (दि.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२।३ ॥ । ५० कोटिरग्रभागः, साऽतिशयिताऽस्तीति लोमादित्वात् शे कोटिश इति वा । 'कृदिकारात् - ' ( गणसू-४।१।४५ ॥ ) इति ङीषि कोटीशी दीर्घमध्योऽपि । २ लोष्टान् भिनत्ति लोष्टभेदनः । 'भिदिर् विदारणे' (रु.उ. अ.), नन्द्यादित्वाद् ल्युः । भिद्यतेऽनेन भेदन, लोष्टानां भेदनो लोष्टभेदन इति वा । द्वे 'मोगरी' इति ख्यातायाः ॥८९३ ॥ मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।
१ मेधन्ते सङ्गच्छन्ते गावोऽस्यां मेधिः । 'मेधृ सङ्गमे' (भ्वा.उ.से.), ‘- इन् ' ( उणा - ५५७ ) इतीन् । २ मेथतें TM हिनस्ति मेथिः । ‘मेशृङ् (मेथ्) मेधाहिंसयो:' (भ्वा.उ.से.), ६०
१. 'ख्यातस्य' इति ॥ २. 'द्यति' इति३.४ ॥ ३. 'लुनाति' इति४, 'लुनाति अनेनेति' इति३ ॥ ४. ' इत्यत्र:' इति३ ॥ ५. 'विभ' इति ॥ ६. 'ष्टौ' इति३ ॥ ७. 'माहार' इति ॥ ८. 'गौ दा-' इति१.३ । ९. 'दृ' इति१.२.३ । १०. १प्रतौ नास्ति ॥ ११. 'अवि-' इति३ ।। १२. 'धारणे' इति४ ॥ १३. 'अवदी-' इति४ ॥ १४. '-लादे:' इति१.२ ॥ १५. 'तोत्र-' इति३.४ ॥ १६. ४प्रतौ नास्ति ॥ १७. 'व' इति१.३.४ ॥ १८. 'पितराणी' इति३, 'पिराणी' इति४ ॥ १९. तुलनीयोऽमरकोषः २ ।९ ॥ १२ ॥ २०. ' - ति' इति ३.४ ॥ २१. ' - ञ्' इति१ ॥ २२. ' -हिंसनयो:' इति३. 'मिथ् मेथ् मेधाहिंसनयो:' इति स्वामी, 'मिह मेह मेधाहिंसयो: ('-हिंसनयो:' इति सायणः ) ' इति मैत्रेयसायणौ ॥
For Private Personal Use Only
www.jainelibrary.org