SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३९२ अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ योजनं क्रोशचतुष्टयेन''[लीलावती, परिभाषा, श्रो- ६ ] इति र्व: । गोदुहोऽपि मूलविभुजादित्वात् कै" । “गोपगोदु - ३० भास्कराचार्यः । एकं [ योजनस्य ] । हवल्लवाः''[”]इति त्रिकाण्डशेषः । षड् गोपालस्य ॥ गोवि॑न्दोऽधिकृतो गोषु वाणिज्यमुक्त्वाऽथ पाशुपाल्यमाह १ गां वन्दिति गोविन्दः । 'विद्लृ लाभे' (तु. - उ. अ.), 'गवादिषु विदेः (विन्देः) संज्ञायाम् ' (वा-३।१।१३८ ॥ ) इति खच् खित्वान्मुम् । " गोविन्द इन्द्रावरजे गवाध्यक्षे च गीष्पतौ " [विश्वलोचनकोशः, दान्तवर्ग:, - २४] इति श्रीधरः । गोषु अधिकृतः, गोष्वधिकारीत्यर्थः । एकं गवामधिकारिणः ॥ पाशुपाल्यं जीवंवृत्तिः १ पशुपालस्य भावः कर्म वा पाशुपाल्यम् । २ जीवपालनाद् वर्तनं जीववृत्तिः । 'स्त्रियां क्तिन् '३ । ३ । ९४ ॥ ॥ द्वे जीवपालनाजीविकायाः ॥ गोमान् गोमी गवीश्वरे ॥८८८॥ १ गावः सन्त्यस्य गोमान् । 'तदस्यास्त्यस्मिन्निति १० मतुप् '५ ।२ ।९४ ॥ उगिदचाम्- '७।१।३० ॥ इति नुम् । २ गाव: सन्त्यस्य गोमी । 'ज्योत्स्नातमिस्रा - ५ २ ११४ ॥ इति निपातः । गोमिनौ, गोमिनः इत्यादि । ३ गवामीश्वरो गवीश्वरः, तत्र । गवेश्वरोऽपि । त्रीणि गोमतः ॥८८८ ॥ गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः १ गाः पालयति गोपालः । 'पाल रक्षणे ' ( चु.उ.से.), ‘कर्मण्यण्’३।२।१॥, तत्र । २ गाः दोग्धिं गोधुक् । 'दुह प्रपूरणे'(अ.उ.अ.), 'सत्सूद्विष- '३ ।२ ६१ ॥ इत्यादिना क्विप्, 'एकाचो बशो - १८ १२ । ३७ ॥ इति भष्भावः, 'दादेर्धातोर्घः '८ ।२।३२ ॥ जश्त्वम् । ३ आ समन्ताद् भियं रात्यादत्ते २० आभीरः । 'रा दाने ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२ । ३॥, ' आतो लोप इटि च ६ ४ ६४ ॥ इत्यालोपः । आ समन्ताद् अभि अभिमुखमीरयति प्रेरयति आभीर: "[ अम. क्षीर. २९ ५७ ॥ ] इति स्वामी । ४ गां पाति रक्षति गोपः । 'पा रक्षणे ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२।३ ॥ ॥ ५ गोः सङ्ख्याति गोसङ्ख्यः । सम्पूर्वः 'ख्या प्रकथने' ( अ.प.अ.), 'प्रे दाज्ञः कर्मणि '३ ।२ ६ ॥ इति कः । ६ वल्लते संवृणोति वल्लवः । 'वल वल्ल संवरणे ' (भ्वा.आ.से.), वल्लिः सौत्रो वा, ततो बाहुलकादच् । यद्वा वल्लनं वल्लः, भावे घञ्, तद्योगाद् 'अन्येष्वपि - ' ( वा - ५ । २ । १०९ ॥ इति जावालस्त्वजजीविकः रुः ॥८८९ ॥ १ अजाः पालयति जावालः, पृषोदरादिः । जव - ४० मलति जवाल: छागः, तस्याऽयमिति वा । २ अजेभ्यो जीविकाऽस्य अजजीविकः । 'गोस्त्रियोः - ११ १२ १४८ ॥ इति ह्रस्वत्वम् । द्वे 'एवाल' इति ख्यातस्य ॥८८९ ॥ कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षकौ । कृषीवलोऽपि Jain Education International १ कुटुम्बमस्त्यस्य कुटुम्बी । 'अत इनिठनौ ५ १२ ।११५ ॥ । २ कर्षति भुवं कर्षकः । 'कृष विलेखने' (भ्वा.प.अ.), ण्वुल् । ३ क्षेत्रमस्त्यस्य क्षेत्री । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । ४ हलमस्त्यस्यै हली । 'अ इनिठनौ'५।२।११५ ॥ । ५ कर्षति भुवं कृषिकः । 'कृष ५० विलेखने' (भ्वा.प.अ.), 'वृश्चिकृषो: (-कृष्योः) किकन्' (उणा१९८) । ६ ‘कृषेर्वृद्धिश्चोदीचाम् ' ( उणा - १९६ ) इति क्वुनि कार्षकः । वृद्ध्यभावपक्षे "कृषकोऽपि । ७ कर्षणं कृषिः । 'इक्कृष्यादिभ्यः '(वा-३ १३ ।१०८ ॥ ) इतीक्, ततो मत्वर्थे 'रज:कृष्यासुतिपरिषदो वलच् '५ ।२ ।१२२ ॥, 'वले '६ |३ | ११८ ॥ इति दीर्घः [कृषीवलः ] । सप्त 'करसणी' इति ख्यातस्य ॥ जित्या तु हेलि १. ' - र्याः ' इति३ ॥ २. 'गां दोग्धीति' इति३ ॥ ३. 'इटि च' इति २.३. ४प्रतिषु नास्ति ॥ ४. अम. क्षीरस्वामिटीकायाम् - "आ-अभित ईरयति आभीरः" इत्येव दृश्यते, २९ ५७ ॥ पृ. २१३ ॥ ५. 'गां' इति३ ॥ ६. ' -र्वस्य' इति३ ॥ ७ 'प्रे दाज्ञः' इत्येवाष्टाध्याय्याम् ॥ ८. मैत्रेयसम्मतोऽयं धातुपाठः, 'वल संवरणे' इति स्वामी, 'वल वल्ल संवरणे सञ्चरणे च' इति सायणः ॥ ९. ' - दुरच्' इति‍ ॥ १०. 'माधवः' इति१, 'क' इति२, ‘ड:' इति४॥ ११. 'कः' इति२ ॥ १२ द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो- ६३०, पृ. ७२१ ॥, रामाश्रमी २१९५७ ॥ पृ.४२७ ॥ १३. त्रिकाण्डशेषे नेदमुद्धरणं दृश्यते ॥ १४. - स्यास्तीति' इति४ ॥ १५. 'कृषि' इति३ ॥ १६. 'कृषि - ' इति‍ ॥ For Private Personal Use Only 4 www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy