________________
८८२-८८४]
द्रुवेयं कुडवादिभिः ।
१ कुडवप्रमुखैर्यन्मीयते तद् द्रुवयम् उच्यते, परिमाणमित्यर्थः । कुडवशब्देन 'पाउलर्ड' इति प्रसिद्धः । द्रुः वृक्षस्तद्विकारो द्रुवयम् । 'द्रोश्च ४ | ३ | १६१ ॥ इत्यनुवृत्तौ ' माने वय: ४ । ३ । १६२ ॥ इति वयः । एकं सामान्येन कुडवादिपरिमाणस्य ॥
व्युत्पत्तिरत्नाकरकलिता
पाय्यं हस्तादिभिः
१ पीयते (मीयते ) ऽनेन पाय्यम् । 'पाय्यसांनाय्य- ' ३ । १ । १२९ ॥ इति साधुः । हस्तादिभिः हस्तप्रभृति१० भिर्यन्मीयते, तस्यैकम् प्रमाणाख्यमेतत् । यदमरः - "मानं तुलाङ्गुलिप्रस्थैः''[अमरकोषः २ ।९ १८५ ॥ ] इति । " माति मानम्, मीयतेऽनेनेति वा, तत्र तुलादि उन्मानम् अङ्गुल्यादि प्रमाणम्, प्रस्थादि परिमाणम् । यदाहु:"ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्थं प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥ १ ॥ [ अम. क्षीर. २।९।८५ ॥ ] इति क्षीरस्वामी ॥
अथ पौतवमानमाह
५-२
तत्र स्याद् गुञ्जाः पञ्च माषकः ॥८८३॥
१ तत्रेति पौतवे माने गुञ्जाः कृष्णलाः पञ्च २० सङ्ख्या: माषकः उच्यते । 'जष [झष शष] वष मष(भ्वा.प.से.) इति मूर्धन्यान्तेषु पठ्यते, ततो घञि माष:, ततः कनि माषकः, पुंक्ली । धान्यकणा दशमाषकः तथा'द्वे कृष्णले रूप्यमाषे ' [ ] इत्यादिदर्शनात् ॥८८३ ॥
तु षोडश कर्षोऽक्षः
१ ते माषाः षोडश सङ्ख्याः कर्षः स्यात् । कर्षति माषकादाधिक्यं कर्ष:, पुंक्ली. । 'कृष विलेखने' (भ्वा.प.अ.), अच् । २ अक्ष्णोति अक्षः | 'अक्ष (अक्षू) व्याप्तौ' (भ्वा.प.वे.), अच् । टेङ्कगणनायां चत्वारः टङ्काः कर्ष: । द्वे कर्षस्य । 'तोला' इति भाषा ॥
Jain Education International
३८९
पलं कर्षचतुष्टयं । ३०
१ पलति पलम्, पुंक्ली." । 'पल रक्षण' (चु.उ.से.), अच् । कर्षाणां चतुष्टयं कर्षचतुष्टयम्, चतुर्भिः कर्षैः पलमित्यर्थः । टेङ्कगणनायां षोडश टङ्काः पलः I माषकादीनां शास्त्रान्तरोक्त भेदो नेश्रिककदेशप्रसिद्धः शास्त्रान्तरादवधार्यः । एकं पलस्य ॥
For Private
विस्तः सुवर्णो हेम्नोऽक्षे
१ विस्यति विस्यते वा विस्तः । 'विस उत्सर्गे (दि.प.से.), 'विस प्रेरणे' ( )वी, अतो बाहुलकात् 'हसिमृग्रिण्- '(उणा - ३६६ ) इत्यादिना तन्, 'तितुत्र- '७।२।९ ॥ इतीनिषेधः, अगुणत्वं च । २ सुवर्णमस्त्यस्यै सुवर्णः । ४० 'अर्शआदिभ्योऽच् '५ ।२ ।१२७ ॥ पुंस्ययम् । रुद्रस्तु - " सुवर्णं स्वर्णरि (वि)स्तयो: "[ ]इति क्लीबेऽप्याह । हेम्नः सुवर्णस्य, अक्षे कर्षे । 'सुवर्णनां" तोला' इति भाषा । "रूप्यमुक्तावज्रपट्टसूत्रकर्पूरादितौल्ये कर्षसंज्ञा, हेम्नस्तौल्ये सुवर्णसंज्ञा कर्षस्येति विशेष: "[ ] इति लीलावतीटीका । यत्स्मृतिः“पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश" [ ] इति । तथा च लीलावतीकारः
१. 'पाउलवउ' इति१, 'पाउलो' इति३, 'पाइलौ' इति४ ॥ २. 'भाषाप्र-' इति३ ॥ ३. 'द्धिः' इति३ ॥ ४ तिर्य-' इति१.२.४ ॥ ५-१. मितिर्मानं मीयतेऽनेन च' इति ५- २. 'आयामस्तु' इति, ५-३. 'भिन्ना' इति च अम. क्षीरस्वामिकृतटीकायाम्, २ ९४५ ॥ पृ. २१९ ॥ ६. 'पो-' इति३ ॥ ७. ' - क्लीबलिङ्गः' इति४ ॥ ८. 'क्लीबलिङ्गः' इति३, 'क्लीबः' इति४ ॥ ९. 'टंका' इति३ ।। १०. तुलनीयोऽमरकोषः २ ।९ ।८६ ॥ ११. ' - क्लीबः' इति३ ॥ १२. रक्षणार्थकपलधातुश्चुरादिः, अथ च विग्रहे 'पालयति' इति युक्तः, यद्वा 'पल गतौ ' ( भ्वा.प.से.) इति ॥ १३. भेदौ' इति२.४ ॥ १४. 'नैक-' इति३, 'नेक-' इति४ ॥ १५. इतोऽग्रे ३प्रतौ 'विश प्रवेशने' इति दृश्यते ॥ १६. ३प्रतौ नास्ति ॥ १७. 'त्रिन्' इति४ ॥ १८. ' - स्याऽस्ति' इति४ ॥ १९. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो- ६५८, पृ. ७४७ ॥ रामाश्रमी २ ।९ १८६ ॥ पृ.४३८ ॥ २०. 'ना' इति३, ' - र्णानां' इति४ ॥ २१. 'कर्षादिसंज्ञा' इति३.४ ॥ २२. 'इति' इति २प्रतौ नास्ति ॥ २३. ३ प्रतौ नास्ति ॥ २४ तुलनीयोऽमरकोषः २ १९८६ ॥ २५. द्र. अम. क्षीर. २९ ।८६ ॥ पृ. २१९ ॥, स्वोपज्ञटीका ३४८८४ ॥ पृ. १९५ ॥
"दशार्धगुञ्जं प्रवदन्ति माषं१ माषाह्वयैः षोडशभिश्च कर्षम्२ ।
कर्षैश्चतुर्भिश्च पलं३ तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसंज्ञम् ॥१॥" [लीलावती, परिभाषा, श्रो- ४] इति । " पादत्रयं सुकरम्, ५० सुवर्णस्य कर्षं सुवर्णसंज्ञं वदन्ति " [ ] इति तट्टीका । द्वे सुवर्णकर्षस्य ॥
·
कुरुवतु
॥८८४॥
१ तस्य सुवर्णस्य पलं तत्पलम्, तत्र । कुरुदेशे प्रसिद्धो विस्तो हेमपलं कुरुविस्तः । यन्माला"पलेन हि सुवर्णस्य करुविस्तः "[ ] इति । हेम्नः पलं कुरुविस्त इत्यर्थः । एकं हेमपलस्य ॥८८४ ॥
Personal Use Only
www.jainelibrary.org