________________
१०
८५७-८६३ ]
वदति स्याद्वादवादी । 'वद व्यक्तायां वाचि' (भ्वा.प.से.), ग्रहादित्वाणिनिः । अनेकान्तवाद्यपि । २ अर्हन् देवताऽस्य आर्हतः । 'सास्य देवता' ४ । २ । २४ ॥ इत्यण् । जैनोऽपि । द्वे जैनदर्शनस्य ॥
व्युत्पत्तिरत्नाकरकलिता
शून्यवादी तु सौगतः ॥८६१॥
१ शून्यं निराकारं वदति शून्यवादी । ग्रहादित्वाणिनिः । २ सुगतो देवताऽस्य सौगतः । 'सास्य देवता' ४ । २ । २४ ॥ इत्यण् । द्वे बौद्धदर्शनस्य ॥८६१ ॥
नैयायिकस्वाक्षपादो यौगः
१ नीयते प्राप्यते विवक्षितोऽर्थो येनाऽसौ न्यायः । 'इण् गतौ ' ( अ.प.अ.) करणे घञ् । न्यायः प्रतिज्ञादिपञ्चा वयवोपेतं वाक्यादिः, तं वेत्त्यधीते वा नैयायिकः । क्रतूक्थादित्वाट्ठक्, ‘न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्' ७।३।३ || | २ अक्षस्तृतीयं नेत्रं पादेऽस्य अक्षपादः, अक्षपादस्याऽयम् आक्षपादः । ३ योगः प्रत्याहारादिरष्टाङ्गः, तं वेत्त्यधीते वा यौगः । तदधीते तद्वेद ४ । २ । ५९ ॥ इत्यण् । त्रीणि नैयायिकदर्शनस्य ॥
साङ्ख्यस्तु कार्पिलः ।
१ पञ्चविंशतेस्तत्त्वानां सङ्ख्या, तदधिकृतं शास्त्रं २० साङ्ख्यम्, तदधीते वेत्ति वा साङ्ख्यः । तदधीते तद्वेद' ४ । २ । ५९ ॥ इत्यण् । २ कपिलेन प्रोक्तो ग्रन्थः कापिलः । तेन प्रोक्तम् ' ४ | ३ | १०१ ॥ इत्यण् । तं वेत्त्यधीते वा कापिलः । कपिलस्याऽयमिति वा । 'तस्येदम्' ४ | ३ | १२० ॥ इत्यण् । द्वे साङ्ख्यदर्शनस्य ॥ वैशेषिकः स्यादौलूंक्यः
१ नित्यद्रव्यवृत्तयोऽन्त्याः ( - ) विशेषाः । यदाहे शिवादित्यः-‘“विशेषास्तु नित्यद्रव्यवृत्तित्वादनन्ता एव '[] । ते प्रयोजनमस्य वैशेषिकं शास्त्रम् । 'प्रयोजनम् '५ ।१ ।१०९ ॥ इति ठक्, ‘विनयादिभ्यश्च ५ | ४ | ३४ ॥ इति स्वार्थे ठक् ३० वा । तदधीते वेत्ति वा वैशेषिकः । तदधीते- '४।२ ।५९ ॥
इत्यण् । २ उलूकस्याऽपत्यमिव तज्जन्यत्वाद् औलूक्यं
Jain Education International
३७९
शास्त्रम् । गर्गादित्वाद् यञ् । उलूकवेषधारिणा महेश्वरेण प्रणीतमिति हि प्रसिद्धिः । औलूक्ये साधुः औलूक्यः । 'तत्र साधुः ४ । ४ । ९८ ॥ इति यत्, 'यस्येति च '६ ।४ । १४८ ॥ इत्यकारलोपः, 'लोपो व्योर्वलि ६ |१ |६६ ॥ इति पूर्वयलोपः । द्वे वैशेषिकदर्शनस्य ॥
बार्हस्पत्यस्तु नास्तिकः ॥८६२ ॥
चार्वाको लौकायतिकश्च
१ बृहस्पतिना कृतं बार्हस्पत्यं शास्त्रम् । ‘पत्यन्तपुरोहितादिभ्यो यक् '५ । १ । १२८ ॥ इति यक् । बार्हस्पत्ये ४० साधुः बार्हस्पत्यः । 'तत्र साधुः ४ ४ १९८ ॥ इति यत् । २ नास्ति परलोके मतिरस्य नास्तिकः । ' अस्तिनास्तिदिष्टं मति: ४ । ४ । ६० ॥ इति ठक्, 'ठस्येकः ७ । ३ । ५० ॥ ॥८६२ ॥ ३ चर्वत्यात्मानं चार्वाकः । 'चर्व अदने ' (भ्वा.प.से.), 'पिनाकादयश्च'(उणा-४५५ ) इति साधुः । ४ लोकेष्वायतं लोकायतं बृहस्पतिप्रणीतं शास्त्रम् । तद्वेत्त्यधीते वा लौकायतिकः । क्रतूक्थादित्वाट्ठक्, 'ठस्येकः ७ । ३ । ५० ॥ ॥ चत्वारि नास्तिकदर्शनस्य ॥
उपसंहारमाह
एते षडपि तार्किकाः । ५०
१ एते आर्हतादयः षट्सङ्ख्या अपि, तर्कः प्रयोजनमेषां तार्किकाः । 'प्रयोजनम् '५ । १ । १०९ ॥ इति ठक् ॥ क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसम्भवः ॥८६३॥
१ क्षदति संवृणोति क्षत्त्रम्, द्वितकारम्, पुंक्लीबलिङ्गम् । ‘क्षद संवरणे' [सौत्रोऽयम् ], 'गुधृवीपचिवचियमि (मनितनि) क्षदिभ्यस्त्रन् (-स्त्रः ) ' ( उणा - ६०६) । क्षतात् त्रायत इति पृषोदरादित्वाद्वा । २ क्षत्त्रस्याऽपत्यं क्षत्रियः । ' क्षत्त्राद् घः ४ ।१ ।१३८ ॥ इति घः । क्षतात् त्रायत इति । 'आत :- '३ ।२ । ३ ॥ इति कः । नैरुक्ते क्षतशब्दान्ताकारलोपे क्षत्त्रः, ततो घ इति वा । 'वार्तासंणोपधम् (त्रान्तं ६० सलोपधम्) '(लिङ्गादि- ४५८ ) इति क्लीबत्वमपि । ३ तेजसा प्रभावेन वा राजते दीप्तो भवति राजा, नकारान्तः । 'राजू
१. 'निई-' इति१. २.४ ॥ २. ' दिह' इति२ ॥ ३. 'क-' इति ॥ ४. 'भ्यष्ठक्' इत्यष्टाध्याय्याम् ॥ ५. 'द्धेः' इति४ ॥ ६. 'गृ-' इति१. ३.४ ।। ७. कोष्ठान्तर्गतपाठ उणादिगणसूत्रे न दृश्यते ॥
For Private & Personal Use Only
www.jainelibrary.org