________________
३७२
२०
अभिधानचिन्तामणिनाममाला
१ अङ्गुलीनां मुखेऽग्रभागे देवतानामिदं दैवतम् । 'तस्येदम् ' ४ | ३ | १२० ॥ इत्यण् एकं देवतीर्थस्य । यद्
याज्ञवल्क्यः
"कनिष्ठातर्जन्यङ्गुष्ठमूलान्यग्रं करस्य च प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१॥" [ याज्ञवल्क्यस्मृतिः, आचाराध्यायः श्रो- १९ ] इति । [शेषश्चात्रकरमध्ये सौम्यं तीर्थम् ] ॥८४० ॥
ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि ।
१ ब्रह्मणो ज्ञानस्य भावो ब्रह्मत्वम्, ब्रह्मशब्दोऽत्र १० ज्ञानपर्यायः । २ ब्रह्मणो भवनं ताद्रूप्यं ब्रह्मभूयम् । 'भुवो भावे ३ |१ | १०७ ॥ [ इति ] क्यप् । ३ योजनं युक्, सम्पदादित्वात् क्विप् । युजा सहितः सयुक्, तद्भावः सायुज्यं । 'वोपसर्जनसय ६ ।३ ।८२ ॥ इति सहस्य सभावः । ब्रह्मणा संयुनक्ति आत्मना सम्बध्नाति सयुक् (संयुक्) । 'सत्सूद्विष- ' ३।२।६१ ॥ इति क्विप् । तद्भावः सायुज्यमिति (सांयुज्यमिति) वा । यद्वा सह युग् योगोऽस्य सयुक्, तद्भावो वा सायुज्यम् । ब्रह्मणा ज्ञानेन सायुज्यं ब्रह्मसायुज्यम् । त्रीणि ब्रह्मत्वस्य । 'ब्रह्मपणउं' इति भाषा ॥
|
देवभूयादिकं तद्वत्
१ देवस्य भावो देवभूयम् । 'भुवो भावे '३ । १ । १०७ ॥ [ इति ] क्यप् । तेन ब्रह्मभूयशब्देन तुल्यं तद्वत् भवतीति क्रियाध्याहारो वाक्यत्वात् । स्यादेरिवेत्यनेन भवतीति क्रियासादृश्ये वत्प्रत्ययः, इवस्य सादृश्याऽर्थद्योतकत्वात् । देवझ२१०वम् देवसायुज्यं चेत्यर्थः । आदिशब्दात् स्वर्भूयम्, स्वर्गत्वम्, स्वर्गसायुज्यं च । एकं देवत्वस्य ॥
अथोपाकरणं श्रुतेः ॥८४१॥
संस्कारपूर्वग्रहणं स्यात्
१ उपाक्रियतेऽनेन उपाकरणम् । करणे ल्युट् । श्रुतेर्वेदस्य ॥८४१ ॥ संस्कारपूर्वं विधिपूर्वकं ग्रहणम् आदा
Jain Education International
[ मर्त्यकाण्डः - ३
नम्, “रोहिण्यां छन्दांस्युपाकुर्यात् ''[ ]इति हि श्रुतेः । एकं ३० वेदपाठारम्भे विशिष्टविधेः ॥
1
स्वाध्यायः पुनर्जपः ।
१ स्वस्य वेदस्याऽध्ययनं स्वाध्यायः । 'इङ् अध्ययने' (अ.आ.अ.), 'इङश्च १३ । ३ । २१ ॥ इति घञ् । २ जपनं जपः । 'व्यधजप (जपोः) - '३।३ ।६१ ॥ इत्यप् । द्वे जपस्य ॥
औपवस्त्रं तूपर्वासः
४०
१ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । 'उपवस्त्रादिभ्यः '( ) इत्यण् । " 'वसु स्तम्भे' (दि.प.से.), उपपूर्वाद् भावे क्तः, उपवस्तम्"["] इति मिश्राः । "उपवस्तस्येदम् औपवस्तम्''[ ं]इत्येके । " उपवस्त्रम् "[ ]इत्यन्ये । यत्स्मृति:- " माषान् मधुमसूरांश्च वर्जयेदौपवस्त्रके "["] इति । उपवसनम् उपवासः, पुंक्ली. । 'वस निवासे' (भ्वा.प.अ.), भावे घञ् । उपोषितं च, उपोषणमपि । 'उप दाहे ' (भ्वा.प.से.), अयमप्यभोजने वर्तते "[ ] इति माधवः । द्वे उपवासस्य ॥
44
कृच्छ्रं सान्तपनादिकम् ॥८४२ ॥
१ सान्तपनं चान्द्रायणं प्राजापत्यादिकं प्रायश्चित्तं कृच्छ्रपदवाच्यम् । कृन्तति पापं कृच्छ्रम्, पुंक्लीबलिङ्गः । कृच्छ्रं नाम तपः । 'कृतेश्छं' (उणा - १७८ ) इति रक् छगागमश्च । यद्वा कृच्छ्रयति कृच्छ्रम्, तत्करोति- '( गणसू- ५० ३ । १ । २६ ॥ ) इति ण्यन्तादच् । यथा
'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥१॥" [ मनुस्मृतिः, अध्या- ११, श्रो- २१२] इति स्मृतिरपि । " त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् कृच्छ्रं सान्तपनं " स्मृतम् ॥२॥" [ मनुस्मृतिः, अध्या- ११, श्रो- २११ ] इति । आदिग्रहणात् चान्द्रायणादि । " कृच्छ्रमाख्यातमाभीले पापसान्तपनादिनोः ' [विश्वप्रकाशकोशः, रान्तवर्ग:, श्रो- ६१] इति महेश्वरः । एकं सान्तपनादितपसः ॥८४२ ॥
१.
३. इतोऽग्रे १प्रतौ 'स' इति दृश्यते ॥ ४. इतोऽग्रे १.२. ४प्रतिषु ॥ ६. ' - णो' ३, 'णौ' इति४ ॥ ७ 'सादे-' इति४ ॥ ८.
॥
' - देशिन्य-' इति याज्ञवल्क्यस्मृत्याम्, पृ.९ ॥ २. सम्बध्नाति आत्मना' इति४ ॥ 'वा' इति दृश्यते ॥ ५. समुपसर्गपूर्वकविग्रहप्रदर्शनेन 'ब्रह्मसांयुज्यम्' इत्यपि भवति 'वन्प्र-' इति३ ॥ द्र. अम. क्षीर. २७ ४० ॥ पृ. १७१ ॥ स्वोपज्ञटीका ३ ।८४१ पृ.१८६ ॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो४३४, पृ.५२३ ॥ ११. द्र. स्वोपज्ञटीका ३ ।८४१ ॥, पृ. १८६ ॥ १२. स्तके' इति३ ॥ १३. तुलनीयोऽमरकोषः २७ ५२ ॥ १४. ' -च्छ्र' इति१ ॥ १५. 'कृतेश्छ: क्रू च' (उणा - १७८) इत्युणादिगणसूत्रम् ॥ १६. 'सान्तपं' इति१.२ ॥ १७. " त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः " इति मनुस्मृत्याम् ११ ।२११ ॥ पृ. ४५८ ॥ १८. 'तपः-' इति विश्वप्रकाशकोशे, पृ.१३० ॥
For Private Personal Use Only
६०
www.jainelibrary.org