________________
८३५-८४० ]
ब्रह्मासनं ध्यानयोगासने
व्युत्पत्तिरत्नाकरकलिता
१ ब्रह्मणि परमज्योतिषि आसनं लयो ब्रह्मासनम् । ध्यानं निरालम्बनं ज्ञानम्, योग: सालम्बनं ज्ञानम् । यद्वा ध्यानं परमात्मचिन्तनम्, योगश्चित्तनिरोधमात्रम् । तयोर्यदासनं स्वस्तिकोर्ध्वपादपपद्मासनादिकम् । ध्यानयोगयोरास्यतेऽनेनेति ध्यानयोगासनम्, तत्र । एकं ध्यानयोगासनस्य ॥ अथ ब्रह्मवर्चसम् ।
वृत्ताध्ययनर्द्धिः
१ वृत्तं वेदवाक्यस्य परिपालनम्, अध्ययनं व्रत१० ग्रहणपूर्वकं गुरुमुखेन वेदाभ्यसनम्, तयोर्ऋद्धिर्वृत्ताध्ययनर्द्धि ब्रह्मवर्चसम् उच्यत इत्यन्वयः । ब्रह्मणस्तपःस्वाध्यायादेर्वर्चः ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः ५ ४ ७८ ॥ इत्यच्समासान्तः । " वृत्ताध्ययनसम्पत्तिरिष्यते ब्रह्मवर्चसम्"[हलायुधकोश: २ । ३९७ । ] इति हलायुधः । एकं चारित्राध्ययनसम्पदः ॥
पाठे स्याद् ब्रह्माञ्जलिरञ्जलिः ॥८३८॥
१ पाठे वेदपाठे अञ्जलिः प्रणामार्थं मुकुलितं हस्तयुगं ब्रह्माञ्जलिः उच्यत इत्यन्वयः । ब्रह्मणे वेदाय अञ्जलिः प्रणामार्थं मुकुलितं हस्तयुगं ब्रह्माञ्जलिः । " सामवेदपाठे हि स्वरविभागार्थमञ्जलिः, स ब्रह्माञ्जलिः " [ ] इति माधव्यादयः । " अध्ययनस्यादावन्ते च गुरवे प्रणवोच्चारणपूर्वको योऽञ्जलिः क्रियते स ब्रह्माञ्जलिः " []इति तु मिश्राः । एकं वेदपाठे कृताञ्जलेः ॥८३८॥
२०
पाठे तु मुखनिष्क्रान्ता विप्रुषो ब्रह्मबिन्दवः ।
१ पाठे वेदाध्ययने मुखनिष्क्रान्ता वदनान्निर्गता विप्रुषो जलकणा ब्रह्मबिन्दवः प्रोच्यन्ते । ब्रह्मणो वेदस्यैव बिन्दवो जलकणा ब्रह्मबिन्दवः । एकं वेदपाठे मुखनि:सृतजलकणस्य ॥
साकल्यवचनं पारायण
३७१
वचनमध्ययनं साकल्यवचनम् । पारमयन्ते प्राप्नुवन्त्यनेन पारा- ३० यणम् । 'अय गतौ ' (भ्वा.आ.से.), करणे ल्युट् । एकं साकल्येन अध्ययनस्य ॥
Jain Education International
कल्पे विधिक्रम ॥८३९॥
१ कर्तव्यतोपदेशः कल्पः । कल्पते फलजननाय समर्थो भवति कल्पः । 'कृपू सामर्थ्ये' (भ्वा.आ.से.), पचाद्यच्, 'कृपो रो लः '८ । २ । १८ ॥ तत्र । २ विधीयते सम्पाद्यते फलाथिभिरिति विधिः । 'डुधाञ् धारणादौ ' ( जु.उ.अ.), 'उपसर्गे घो: कि : '३ । ३ । ९२ ॥ । ३ क्रम्यते आरभ्यत इति क्रमः 1 'क्रमु पादविक्षेपे' (भ्वा.प.से.), घञ्, 'नोदात्तोपदेश - १७ ।३ १३४ ॥ इति न वृर्द्धिः । “कल्पवित् कल्पयामास "[ रघुवंशम्, सर्गः - १, श्लो- ६] " यथाविधिहुताग्नीनाम् "[ रघुवंशम्, सर्गः - १, श्रो९४ ] इत्युभयमपि रघुः । त्रीणि विधेः ॥ ८३९ ॥ मूलेऽङ्गुष्ठस्य स्याद् ब्राह्मं तीर्थम्
४०
१ अङ्गुष्ठस्यादौ मूले तीर्थं ब्राह्मं स्यादित्यन्वयः । ब्रह्मा देवताऽस्य ब्राह्मम् । 'साऽस्य देवता ' ४ १२ २४ ॥ इत्यण्, 'साऽस्य देवता '४ । २ । २४ ॥ इत्यण्, 'ब्राह्मोऽजातौ ६ १४ १७१ ॥ इति साधु । देवेभ्यस्तीर्यतेऽनेनेति तीर्थम् । 'तू प्लवनतरणयो:' (भ्वा.प.से.), 'पातृतुदि- ' ( उणा - १६४ ) इत्यादिना थक् । एकं ब्रह्मतीर्थस्य ॥
कायं कनिष्ठयोः । ५०
१ कनिष्ठयोर्मूले कः प्रजापतिर्देवताऽस्येतिं कायम्, तीर्थम् । 'कस्येत् '४।२।२५ ॥ इति कशब्दादण्प्रत्यय इकारोऽन्तादेशः वृद्ध्यायादेशौ च । कनिष्ठ द्वित्वम् । अञ्जलिमध्येन प्रजापतिभ्योजल ( - ऽञ्जलि - ) दानात् । एकं प्रजापतितीर्थस्य ॥
पित्र्यं तर्जन्यङ्गुष्ठान्तः
१ तर्जन्यङ्गुष्ठमध्ये पितरो देवताऽस्य पित्र्यम् । 'वाय्वृतुपित्रुषसो यत् ४ । २ । ३१ ॥ इति यत् । एकं पितृतीर्थस्य ॥ दैवतं त्वङ्गुलीमुखे ॥८४० ॥
१ सकलस्य भावः साकल्यम्, साकल्येन सामस्त्येन
१. ' त्त-' इति४ ॥ २. इतोऽग्रे १.३. ४प्रतिषु 'तु' इति दृश्यते ॥ ३. 'प्रमाणार्थं' इति३ ॥ ४ णो' इति३.४ ।। ५. द्र. पदचन्द्रिका, भा२, ब्रह्मवर्गः, श्री- ४३५, पृ.५२३ ॥ तत्र "सामवेदपाठे स्वरविभागार्थं योऽञ्जलिः स 'ब्रह्माञ्जलिः' इति तु माधव्यादयः ॥” इति दृश्यते ॥ ६ ' - ठेऽञ्जलेः' इति१.२ ॥ ७ तुलनीयोऽमरकोषः २ १७ १३९ ॥ ८. 'व्योपदेशः' इति३ ॥ ९. 'सम्प' इति३ ॥ १०. 'वृद्धिनिषेध:' इति १ ॥ ११. 'स्य' इति४ । १२. 'इति' इति ३प्रतौ नास्ति ॥
For Private & Personal Use Only
www.jainelibrary.org