________________
१०
३६६
अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ उच्यत इत्यन्वयः । समिधामाधानी सामिधेनी । 'समिधामाधाने खेनण् (षेण्यण्) ' (वा - ४ | ३ | १२० ॥ ) । "तेजो हुताशन- ३० समिन्धनसामिधेनी "[] इति मुरारिः । धीयते पुष्यतेऽग्निरनया धाया । 'डुधाञ् धारणादौ ' ( जु. उ. अ.), 'पाय्यसांनाय्य - निकाय्यधाय्या- '३ । १ । १२९ ॥ इति साधुः टाप् । यया ऋचा अग्नाविन्धनं क्षिप्यते, तस्या द्वे ॥
अरेणिर्निर्मन्थदारुणि ॥८२५॥ १ ऋच्छति प्राणयति ( प्रापयति) अग्निम् अरणिः, "अरणिर्द्वयोः "[ अमरकोषः २ १७ १९ ॥ ] इत्यमरः । पुंस्त्री । 'ऋ गतौ प्रापणे च'(भ्वा.प.अ.), 'अर्तिसृधृधमि- [ धम्यम्यश्यवितृ] भ्योऽनिः ' (उणा - २५९), 'कृदिकारात् - ' ( गणसू-४।१।४५ ॥ ) इति ङीषि अरणी च । अग्नेर्निर्मन्थाय दारु काष्ठं निर्मन्थदारु, तत्र । असौ वनस्पतिकायोऽपि यज्ञोपयोगित्वाद् यज्ञाधिकारे पठितः । एकमरण्याः ॥८२५ ।। स्युर्दक्षिणाऽऽहवनीयगार्हपत्यास्त्रयोऽग्नयः ।
१ (दक्षिणदिशि वर्तमानोऽग्निः दक्षिणः । दक्षिणे पार्श्वे स्थाप्यत्वाद् दक्षिणो वा ) । अर्धचन्द्राकृतिरयम् १ । २ आङ्पूर्वाद् जुहोते: 'कृत्यल्युटो बहुलम् '३ १३ | १३२ ॥ इत्यधिकरणेऽनीयर् । आहवनमर्हतीति 'प्राक् क्रीताच्छ: '५ ।१ ।१ ॥ इति छप्रत्यये वा आह्वनीयः, चतुरस्रोऽयम् २। ३ गृहपतिगृहस्वामी, तेन संयुक्तो नित्यसम्बद्धो गार्हपत्यः । 'गृहपतिना संयुक्ते य: ४४ ।९० ॥ इति ञ्यः । अयं च सदा रक्षणीयो वर्तुलाकारश्चेति ३ । एते त्रयोऽग्नयः ॥ इदमग्नित्रयं त्रेता
१ इदमुक्तमग्नित्रयं त्रेता उच्यते । त्राणं त्राः सदा सन्धु२० क्षणम्, तामिताः (तामिता ) प्राप्तां त्रेताः ( त्रेता) । त्रायन्ते त्रा अग्निहोत्रिण आहुतयश्च, त्रामिता वा त्रेता । [ एकं अग्नित्रयस्य] ॥ प्रणीतः संस्कृतोऽनलः ॥८२६ ॥
१ प्रणीयते स्म प्रणीतः । संस्कृतो मन्त्रादिना, यथा'प्रणीतें जुहुयाद् द्रव्यम्' []। एकं मन्त्रादिसंस्कृताग्नेः ॥८२६ ॥ ऋक् सामिधेनी धाय्या च समिदाधीयते यया ।
१ 'ऋच स्तुतौ ' ( तु.प.से.), 'अन्येभ्योऽपि दृश्यते ' ३ । २ । १७८ ॥ इति क्विपि ऋं, यया ऋचाऽग्नौ समिद् इन्धनमाधीयते क्षिप्यते सा ऋक् सामिधेनी चापरी धाय्या
Jain Education International
समिदिन्धनमेधेध्मतर्पणैधांसि
१ समिध्यते वह्निरनया समित्, स्त्रीलिङ्गैः। ‘ञिइन्धी दीप्तौ ' (रु.आ.से.), सम्पदादित्वात् क्विप् । २ इध्यतेऽनेन इन्धनम् । ‘ञिइन्धी दीप्तौ ' (रु. आ.से.), करणे ल्युट् । ३ इध्यतेऽग्निरनेन एधः । 'ञिइन्धी दीप्तौ ' ( रु. आ.से.), 'अवोदैधौद्म- '६ १४ ।२९ ॥ इति निपात्यते । अकारान्तोऽयम् । यथा- ४० "एधान् हुतासन (शन) वतः स मुनिर्ययाचे " [ रघुवंशम्, सर्गः - ९, श्री - ८१] इति रधुः । ४ ' इषियुधि - ' ( उणा-१४२) इति मकि इध्मम्, क्लीबे । "इध्मोऽस्त्री "[ वैजयन्तीकोष:३।६।९६॥]इति वैजयन्ती । ५ तृप्यतेऽग्निरनेन तर्पणम् । 'तृप तृप्तौ' (तु.प.से.), ल्युट् । ६ इध्यतेऽनेन एधः, क्लीबे । 'ञिइन्धी दीप्तौ ' (रु. आ.से.), औणादिकोऽसुन्, बाहुलकान्नलोपः । एधसी, एधांसि इत्यादि । षडिन्धनस्य ॥ भस्म तु ॥८२७॥ स्याद् भूतिर्भसितं रक्षा क्षारः
१ भसति तदिति भस्म, क्लीबे । 'भस भर्त्सन- ५० दीप्त्यो: ' (जु.प.से.), '-मन् ' ( उणा - ५८४) इति मन् ॥८२७ ॥ २ भूयतेऽनया भूतिः । 'स्त्रियां क्तिन् ' ३ | ३ |९४ ॥ । ३ बभस्ति वह्निना भसितम् । बाहुलकाद् वर्तमाने क्तः । ४ रक्ष्यतेऽग्नि रक्षा । 'रक्ष पालने' (भ्वा.प.से.), भिदादित्वादङ् । ५ क्षरति क्षारः । 'क्षर सञ्चलने ' (भ्वा.प.से.), ज्वलादित्वाण्णः । पञ्च भस्मनः ॥
पात्रं स्स्रुवादिकम् ।
१. कोष्ठान्तर्गतपाठस्थाने १. २. ३ प्रतिषु " दक्षिणाया दिशोऽग्निः दक्षिणाग्निः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावे दक्षिणाग्निः । दक्षिणपार्श्वे स्थाप्यत्वाद् दक्षिणः । स चासावग्निश्चेति वा ।" इति दृश्यते स तु दक्षिणाग्निशब्दं लक्ष्यीकृत्य ॥ २. 'गृहे' इति४ ॥ ३. 'प्राप्ताः' इति१. २.४ ॥ ४. ' त्रेताः' इति१.२ ॥ ५. तुलनीयोऽमरकोषः २७।२० ॥ ६. प्रणीयते' इति३ ॥ ७ द्र अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।२६६ ॥ पृ. ११८ ॥ तत्र 'द्रव्यम्' इत्यस्य स्थाने 'हव्यम्' इति दृश्यते ॥ ८. ४प्रतौ नास्ति ॥ ९ १ २ प्रत्योर्नास्ति ॥ १०. रं' इति१.२.४ ॥ ११. ' - ना' इति४ ॥ १२. 'नीं' इति३ ॥ १३. ' -ङ्गा' इति१.२ ॥ १४. इतः पूर्वे ३प्रतौ 'तृप्यति' इति दृश्यते ॥ १५. 'या' इति४ ॥
For Private Personal Use Only
www.jainelibrary.org