SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ८१६-८२०] ऽनेनेति, 'इष्टादिभ्यश्च '५ ।२।८८ ॥ इतीनिः सोमपीतीति तकारोपधोऽयम्''[] इत्याहुः । " सोमपीथी तु सोमपः "[ अमरकोषः २ ।८ ।९ ॥ ] इत्यमरः । " सर्वदाऽयम्, दीक्षितस्तु तत्कालम्''[ अम. रामाश्रमी२ ७ १९ ॥ ] इति तट्टीका, अतः "सोमयाजी तु दीक्षित: ''[ अभिधानचिन्तामणिनाममाला ३।८१७ ॥] इत्यस्माद् भेदः । द्वे सोमपानयज्ञकर्तुः ॥ व्युत्पत्तिरत्नाकरकलिता स्थपतिर्गीष्पतीष्टिकृत् ॥८१८ ॥ १ गीष्पतेर्बृहस्पतेरिष्टिं यज्ञं करोति गीष्पतीष्टिकृत् सन् स्थपतिः इत्युच्यते । सर्वान् वशे स्थापयतीति स्थपतिः । १० 'वशतेरति: (वहिवस्यर्तिभ्यश्चित्) ' (उणा - ५०० ) इति बाहुलकात् स्थापेरत्पतिः(स्थापेरप्यतिः ) ह्रस्वत्वं च । "बृहस्पतिसवेनेष्टं येनाऽसौ स्थपतिर्भवेत्”[हलायुधकोशः २ ।४१८ ॥ ] इति हलायुधः। एकं बृहस्पतिनामयागकर्तुः ॥ ८१८ ॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । १ सर्वं स्वं द्रव्यं सर्वस्वं सर्वद्रव्यं दक्षिणा यत्र स सर्वस्वदक्षिणो विश्वजिन्नामा यागस्तं य इष्टवान् स सर्ववेदाः इत्युच्यत इत्यन्वयः । सर्वस्वं वित्तवान् सर्वस्वं वेदयति लम्भयति ऋत्विज इति वा । लाभार्थस्य विदेर्ण्यन्तादसुन् । सर्ववेदसौ, सर्ववेदसः इत्यादि । एकं २० सर्वस्वदक्षिणयागकर्तुः ॥ यजुर्विदध्वर्युः १ यजुर्वेदं वेत्ति यजुर्वित् । 'विद ज्ञाने' (अ.प.से.), क्विप् । २ अध्वरं याति अध्वर्युः । ' या प्रापणे' ( अ.प.अ.), 'मृगय्वादयश्च' (उणा - ३७ ) इति कुः, अध्वरशब्दान्तलोपो निपात्यते । अध्वरेण यौतीति, अपष्ट्वादिर्वा' । द्वे 'यजुर्वेदिया' इति ख्यातस्य ॥ ऋग्वद् होता १ ऋजं वेदं वेत्ति ऋग्विद् । सम्पदादित्वात् क्विप् । २ जुहोति होता । 'हु दानादनयो: ' (जु.प.अ.), ३० 'नमृनेष्टृत्वष्टृ होतृपोतृ [ भ्रातृजा ] मातृ-' (उणा - २५२ ) इत्यादिना साधुः । द्वे ऋग्वेदिनः ॥ Jain Education International ३६३ उद्गाता तु सामवित् ॥८१९॥ १ उच्चैर्गायति सामानीति उद्गाता, ऋदन्तः । 'गै शब्दे' (भ्वा.प.अ.), तृच् । २ सामवेदं वेत्ति सामवित् । 'विद ज्ञाने ' ( अ.प.से.), क्विप् । यज्ञे हि यजुऋक् सामवेदविदो ब्राह्मणास्तिष्ठन्ति कटादिशाखाभेदेन । यन्माघः“सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥१॥" [ शिशुपालवधम्, सर्गः - १४, श्रो- २१] इति । [ द्वे सामवेदिनः ] ॥८१९॥ यज्ञो योगः सवः सत्त्रं स्तोमो मन्युर्मखः क्रतुः । 10 संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥८२० ॥ १. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्ग:, - ४०५, पृ. ४९६ ॥ तत्र " सोमः सोमलतारसः । स पीतोऽनेन । “इष्टादिभ्यश्छ ( -श्च ? ) " (पा. ५ १२४८८ ॥ इतीनि । 'सोमपीती' ॥" इति दृश्यते ॥ २. क्षीरस्वामिसम्मतोऽयं पाठः, 'पीती' इति पदचन्द्रिकारामाश्रमीसम्मतपाठः ॥ ३. 'सर्व' इति१.४ ॥ ४. ' - यज्ञकर्तुः ' इति४ ॥ ५. द्र. कातन्त्रोणागिदगणः १ । १६ ॥ ६. 'ययु-' इति३ ॥ ७. ' - सारं ' इति‍ ॥ ८. 'सामवेदविद -' इति३ ॥ ९. 'षु-' इति१.२ ॥ १०. ' - वि - ' इति३, ४प्रतौ नास्ति ॥ ११. इतोऽग्रे ३प्रतौ 'वधि' इति दृश्यते ॥ १२. ' - पचिवधियमि-' इति४ ॥ १३. कोष्ठान्तर्गतपाठ उणादिगणे न दृश्यते ॥ १४. ' - स्त्र: ' इत्युणादिगणे ॥ १५. इतोऽग्रे ४प्रतौ 'डुकृञ् करणे' इति दृश्यते ॥ १६. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्ग:, श्रो- ४१०, पृ. ४९९-५०० ॥ १ इज्यते हविर्दीयतेऽत्रेति यज्ञः । 'यज देवपूजादौ' (भ्वा.उ. अ.), 'यजयाच- '३ । ३ ।९० ॥ इत्यादिना न । २ इज्यतेऽधीयते (इज्यते दीयते ) ऽत्रेति यागः । अधिकरणे घञ् । यजनं वा यागः । भावे घञ् । ३ सूयते सोमोऽत्र सवः । 'पूं अभिषवे' (स्वा.उ. अ.), 'ऋदोरप् '३ । ३ । ५७॥ । ४ सीदन्त्यत्र देवाः सत्त्रम् । ‘षद्लृ विशरणादौ ' (भ्वा.प.अ.), 'गुधृर्वी - पचिवर्चियर्मि (मैनितनि) सदिक्षदिभ्यस्त्रं '(उणा - ६०६ ) इति त्रन्, 'तितुत्र - ७ । २ ।९ ॥ इतीनिषेधः । ५ स्तौत्यत्र यजमानः स्तोमः । 'ष्टुञ् स्तुतौ ' ( अ. उ. अ.), 'अर्तिस्तुसुहु धृक्षिक्षुभाया[वा] पदियक्षिनीभ्यो मन् ' ( उणा - १३७) । ६ मन्यतेऽसौ मन्युः, पुंसि । ['मन ज्ञाने' (दि.आ.अ.), 'यजिमनिशुन्धि- ' ( उणा - ३०० ) इत्यादिना युच् ] । ७ मखन्ति स्वभागं गृहीतुमागच्छन्ति देवा अत्रेति मखः । 'मख गतौ ' ( भ्वा.प.से.), 'पुंसि संज्ञायाम्- '३।३।११८ ॥ इति घः । ८ करोति स्वर्गादिफलम्, क्रियते वा फलार्थिभिः क्रतुः पुंसिं । 'कृञः क्रतुः '(उणा७७) इति सूत्रेण 'डुकृञ् करणे' (त.उ.अ.) अस्माद्धातोः कतुप्रत्ययः, 'लशक्वतद्धिते ' १ । ३ ।८ ॥, 'इको यणचि '६ ११ ।७७॥ । क्रीयते सोमोऽत्रेति वा । " 'क्रीणातेर्डतुच् ' ( ) इति ६० डतुच्''["]इत्येके । क्रतुशब्दः ससोमके यागेऽन्यत्र १६ ४० For Private Personal Use Only ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy